खनितबोम्बस्फोटनं
सैनिकः वीरमृत्युं प्राप।
श्रीनगरं> जम्मु-काश्मीरस्य कुप्वार जनपदे मृद्गुप्तबोम्बस्फोटनेन एकः सैनिकः मृतः। जम्मु-काश्मीरे 'लैट् इन्फन्ट्रि' विभागे हविल्दार् पदीयः सुबैर् अहम्मदनामकः एव वीरमृत्युं प्राप। सोमवासरे आसीदियं दुर्घटना।
काश्मीरस्य बहुत्र स्थानेषु भीकरैः सह प्रतिद्वन्द्वः अनुवर्तते। सोमवासरे उधंपुरे अपि भीकरैः सह प्रतिद्वन्द्वः जातः। तत्रैकः रक्षिपुरुषः वीरमृत्युं प्राप। कश्चन भीकरः भुषुण्डितः अभवत्।