OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, December 17, 2025

 प्रादेशिकप्रशासनद्वारा दुरन्तनिवारणं - 

केन्द्रसर्वकारेण ५०७ कोटि रूप्यकाणि कोटि रूप्यकाणि अनुमोदितानि।

नवदिल्ली> राज्यस्थाभिः प्रादेशिकसर्वकारसंस्थाभिः दुरन्तसाध्यतालघूकरणाभियोजनानि प्रचालयितुं ५०७. ३७ कोटि रूप्यकाणि केन्द्रप्रशासनेन अनुमोदितानि। गृहमन्त्रिणा अमित शाहेन अध्यक्षताम् ऊढमानया उच्चस्तरीयसमित्या २० राज्येभ्यः एव धनराशिः अनुमोदितः। 

  प्राकृतिकदुरन्तान् निरोद्धुम् अभिमुखीकर्तुं च समाजान् सज्जीकर्तुमुद्दिश्य २०२१ तमे वर्षे आसीत् मोदिसर्वकारेण इयमभियोजना उद्घोषिता। इदानीमियं ग्रामतलेषु व्याप्यमाना अस्ति।