शिक्षकप्रशिक्षणकेन्द्रेण अभिमुखीकरणकार्यक्रमः आयोज्यते।
वार्ताहर:- कुलदीपमैन्दोला।
देशस्य उच्चशिक्षासंस्थासु सेवार्थं शिक्षकाणां प्रशिक्षणार्थं विश्वविद्यालयानुदानायोगस्य अधीनं "मालवीय-मिशन्-शिक्षकप्रशिक्षण-केन्द्रं" इत्यस्मिन् हेमवतीनन्दनगढ़वालविश्वविद्यालये, श्रीनगरगढ़वाले, उत्तराखण्डराज्ये, २२ एप्रिल् २०२५ दिनाङ्कतः ३ मई २०२५ दिनांकपर्यन्तं अन्तर्जालमाध्यमेन राष्ट्रियशिक्षानीतिः २०२० इत्यस्मिन् केन्द्रित: अभिमुखीकरणकार्यक्रम: आयोज्यते।
केन्द्रस्य कार्यवाहकनिदेशकः डॉ. राहुलकुंवरसिंहेन उक्तं यत् अस्मिन् कार्यक्रमे चतुर्षु राज्येषु स्थितानां त्रिंशत् शिक्षकाणां सहभागिता भविष्यति।

.jpeg)



.webp)



.jpeg)
.jpg)