OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 4, 2016

संस्कृम् अनुदिनं प्रकाश्यते

Alankaara Bhooshanam
नवदेहल्ली > संस्कृतभाषा सूर्यवत् अनुदिनं प्रकाशमानं वर्तते। अधुनिकलोके नूतन पुस्तकानां रचनया, लघु संस्कृत
चलनचित्राणां निर्माणेन, चित्रमुद्रिका प्रकाशनेन च संस्कृतभाषा स्वस्य दायित्वं सम्यक् कुर्वन् अस्ति।

इदानीं नवदिल्याम् आयोज्यमाने कार्यक्रमे अलङ्कार-भूषणम् नाम ग्रन्थस्य प्रकाशनमभवत्। ग्रन्थकर्ता डा. कुन्दन मिश्र महोदयः भूमिकालेखक:-महामहोपाध्याय: प्रो. उमाशंकरशर्मा'ऋषि:' (राष्ट्रपतिसम्मानितः) 5 अध्यायः, प्रसिद्धसंस्कृत-अलंकारग्रंथेभ्यः 50 अलंकाराणाम् संकलनं, सरलभाषया व्याख्यानं, तुलनात्मकं विवेचनं च, पृष्ठ -300, मूल्यम्-180 रूप्यकाणिप्रकाशकः -परिमल प्रकाशनं, दिल्ली च।

दिल्ली सर्वकारस्य राजकीय विद्यालये अध्यापकः भयत्ययं महोदयः। दिल्ली शिक्षा निदेशालयस्य उप-निदेशकः सुरेन्द्र चन्द्रशर्मा, उत्तराखण्ड वि.विद्यालयस्य सहायक-प्राध्यापकः डा. अरविन्द नारायणमिश्रः, सर्वोदय विद्यालयस्य प्राचार्यः यतेन्द्र कुमार शर्मा इत्येते स्वस्तिवाचन पुरसरम् ग्रन्थ विमोचनमकुर्वन्।
 नेताजी षुभास् चन्द्र वसु -“डिक्लासिफाइड्”सञ्चिका
Subhas Chandra  Boss
नव देहली- नेताजी सुभाषवर्यस्य “डिक्लासिफाइड्”सञ्चिकाभि ज्ञातं यत् भारतदेशेन् १९५३ तमे वर्षे इंडियन् नेशनल आर्मी(INA) एवञ्च “इंडियन इंडिपेंडेंस् लीग”(IIL) एतयोः निधिः पाकिस्तानेन सह् भागं कर्तुं अङ्गीकृतमासीत्। जवाहरलाल नेहरुमहोदयः पश्चिमबंगस्य तत्कालीनमुख्यमन्त्रिं प्रति पत्रं व्यलेखी-“वार्तालापेन अङ्गीकृतं यत् निधेः आवंटनं भारत-पाकयो २.१ अनुपातेन भवतु इति” सोमवासरे नेताजी सम्बन्धीनां २५ सञ्चिकानाम् “डिक्लासिफाईप्” कृतमासीत् पाकिस्तानस्य कृते निधि वंटनस्य वार्ताः नेहरुवर्यस्य पत्रेणेव ज्ञायते।

नेताजी महोदयस्य सङ्घटनानां(INAएवञ्चIIL)इत्येषां निधि पाकिस्तानाय दत्तं इति नेहरु महोदयस्य पत्रैः ज्ञायते।
नेहरुना पत्रमेतत् १९५३तमे वर्षे अक्टूबर मासस्य १८दिनाङ्के पश्चिमबंगस्य मुख्यमन्त्री बीसी राय कृते लिखितं। पत्रेस्मिन् नेहरुना वंग सर्वकारस्य पक्षतः प्रस्तावितस्य पत्रस्य उत्तरं दत्तमस्ति। प्रस्तावनानुसारं वंगसर्वकारेण नेताजी एवञ्च तेषां आजादहिन्दसर्वकारेण त्यक्तस्य निधिविषये केन्द्रसर्वकारः परीक्षणम् कुर्यात् इति उल्लिखितमस्ति

नेहरुवर्येण स्वटिप्पणीपत्रे किं लिखितमासीत्?
टिप्पणीपत्रानुसारं “सूदूर पूर्वदिशि अंतिम युद्धसमाप्त्यननतरं स्वर्ण-आभूषणादीनि अधिकारिणः बलात् ग्रहीतवन्तः। एतानि वस्तूनि दक्षिण-पूर्व एशियायाः देशेषु INA एवञ्च IIL सम्बन्धितानि आसन्।
सिंगापुर देशःअस्य कस्टोडियन आफ् प्रापर्टी(संपत्तेः संरक्षकः आसीत्) १९५० तमे वर्षे सिंगापुर सर्वकारेण संपत्तेः मूल्यतोलनम् कृतं।संपत्तेः मूल्यं १६३अधिक ४७ सहस्त्र १लक्षं “स्ट्रेट् डालर” इति आसीत्। “स्ट्रेट्डालर” नाम बिट्रेनदेशस्य “मलक्का स्ट्रेट्” इत्यस्योपरि स्वीकृतनिर्णयानुसारं करन्सी आसीत्।
पत्रे एतदपि उल्लिखितमासीत् यत् “पुनर्मूल्याङ्कनानुसारं सम्पत्तेः उचिताकलनं कठिनमिति”
पाकिस्तानेनसह सुदीर्घाचर्चा प्रचलिता।अन्ततोगत्वा एवं निश्चितं यत् सम्पत्तेः आवंटनं भारतपाकिस्तानयोः २.१ इति अनुपातेन भवतु इति।
यद्यपि निधिनिष्कासन प्रकरणं सम्पत्यनुसारं कस्टोडियन् सिंगापुरस्य “लेजिस्लेटिवकाउंसिल”मध्ये उपस्थापितमासीत्। एतदानुसारं कस्मै अपि जनाय संस्थायै वा निधेः दानस्याधिकारः नासीत्।
  विशेष वार्ता-
अभिषेक परगाँई
नवदेहली

Saturday, September 3, 2016

  राष्ट्रस्य यन्त्रशास्त्रबिरुदधारिषु असमर्थानां संख्या अधिका -इ श्रीधरः।  
    अहम्मदाबाद् > राष्ट्रस्य यन्त्रशास्त्रकलालयेभ्यः पठनं पूर्तीकृत्य बहिरागतवत्सु बिरुदधारिषु असमर्थानां संख्या अधिका इति 'मेट्रोमान्'इति नाम्ना विशिष्ट: इ.श्रीधरः।बिरुदं प्राप्तेषु यन्त्रज्ञेषु केवलं २९% एव समर्थाः वर्तन्ते , उपरिपठनेन परिशीलनेन च अपरं २०% बिरुदधारिणामपि सामर्थ्यं वर्द्धयेत् इति तेन सूचितम्।'यन्त्रज्ञानां समाजं प्रति दायित्‍वम्' इत्यस्मिन् विषये प्रभाषणमध्ये एव तेन एवम् अभिप्रेतम्।

 अखिलभारतीयकर्मस्थगनं पूर्णम्। 
नवदहली > केन्द्रसर्वकारस्य कर्मकरविरुद्धान् नयान् प्रति विविधैः कर्मकरसंघै: प्रख्यापितम्‌ २४ घण्टात्मकम् अखिलभारतीयकर्मस्थगनं पूर्णम्। राष्ट्रस्य वित्तकोशाः, सर्वकारकार्यालयाः , विद्यालयाः,कलालयाः, व्यवसायशालाः च प्रवर्तनरहिता: सन्ति। सामान्यगतागतं पूर्णतया स्थगितम्।सर्वत्रापि व्यापारस्थापनानि भोजनालयाः च प्रवर्तनरहिताः सन्ति। केषुचित् राज्येषु अक्रमादिकमपि सञ्जातम्। पश्चिमबंगाले कूच् मध्ये तथा बीहारे च समरानुकूलिनः बस्यानानां नाशनम् अकुर्वन्। बीहारे तथा ओडीषायां भुवनेश्वर् मध्ये च रेल् गतागतं प्रतिरुद्धम्। उत्तरप्रदेशे वाराणस्यां समरानुकूलिनः मार्गोपरोधम् अकुर्वन्। जम्मुकाश्मीरे च कर्मस्थगनं पूर्णमेव। केरलेष्वपि कर्मस्थगनं पूर्णमेव। कुत्रचित् संघर्षः सञ्जात: इति सूचना अस्ति।

आफ्रिक्कन् गजानां संख्या शुष्यति।
न्यूयोर्क्>आफ्रिक्कन् गजाः कुलनाशम् उपयान्तीति वृत्तान्तः। सप्तसंवत्सराभ्यन्तरे गजानां संख्यासु प्रतिशतं त्रिंशत्परिमितानां ह्रासः अभवत्।
    Elephants Without Borders इति संघटनेन त्रिभिः संवत्सरैः कृते "दि ग्रेट् एलफन्ट् सेन्सस्" इति गजसंख्यागणनायाम् एव अयमधिगमः। १८ देशेषु २०१३ डिसंम्बर् मासादारभ्य आकाशमार्गेण कृतेन निरीक्षणेनैव गजगणना चालिता। हवादेशे सम्पन्ने ऐक्यराष्ट्रसभायाः पर्यावरणसंस्थायाः उपवेशने इदं वृत्तान्तपत्रम् अवतारितम्।
 
'विष़िञ्ञम्' नौकाश्रयाय देशीयहरितन्यायसभायाः अनुमतिः।
 नवदहली > 'विष़िञ्ञम्' राष्ट्रान्तरनौकालयपद्धत्यै देशीयहरितन्यायसभायाः सोपाधिका अनुमतिः लब्धा। न्यायाधिपस्य स्वतन्त्रकुमारस्य आध्यक्ष्ये चतुर्णां न्यायाधिपानां समित्या एव अनुमतिः दत्ता। पद्धतिनिर्वहणाय  शास्त्रज्ञानां सप्ताङ्गसमितिः रूपीकरणीया इत्येव प्रधाननिर्देशः। अस्यां समित्‍यां परिस्थितिशास्त्रज्ञ:, सर्वकारप्रतिनिधिः, समुद्रगवेषणविदग्धाः च भवेयु:। अनया समित्या निर्माणपुरोगतिः निरीक्षणीया। षण्मासाभ्यन्तरे पठनं समर्पणीयम्। परिस्थितिनाशनसम्बन्धीनि निर्माणप्रवर्तनानि , समुद्रसम्पदां नाशनसम्बन्धानि प्रवर्तनानि वा मा भवन्तु इत्यपि हरितन्यायसभया निर्दिष्टम्। न्यायालयस्य नूतननिर्देशः स्वागतार्हः इति केरळस्य नौकादिविषयमन्त्रिणा कटकंप्पल्लि रामचन्द्रमहोदयेन उक्तम्।

 गान्धिहत्याप्रस्तावः - स्वमतं व्यवस्थाप्य राहुल्गान्धी।
नवदिल्ली> महात्मागान्धिनः हत्याविषये आर् एस् एस् संघटनां विरुध्य उक्ते प्रस्तावे प्रत्यक्षरं स्थिरमतिः अस्मीति कोण्ग्रस् दलस्य राष्ट्रियोपाध्यक्षः राहुल् गान्धिवर्यः सर्वोच्चन्यायालयं प्रति उक्तवान्। एतद्विषयकापकीर्तिव्यवहारे महाराष्ट्रस्थे भिवण्टी न्यायालये उपधां सम्मुखीकर्तुं सन्नद्धः इति सः विज्ञापितवान्।
     अस्मिन् विषये राहुलं विरुध्य मुम्बई उच्चन्यायालयेन आदेशः दत्तः।  तन्निरोद्धुं राहुलेन सर्वोच्चन्यायालये समर्पिता याचिका अपि तेनैव निराकृता। अतः भिवण्टि न्यायालये साक्षात् गत्वा उपधाम् अभिमुखीकरिष्यति।
    २०१५ संवत्सरे महाराष्ट्रे निर्वाचनसम्मेलने प्रभाषणे कृते  गान्धिहनने आर् एस् एस् संस्थायाः भागभागित्वमस्तीति प्रकारेण राहुलस्य परामर्शः जातः।

कर्मन्यासप्रतिषेधः आशास्यः किम्?
     अस्माकं राष्ट्रं प्रगतिपथात् व्यतिचालयितुं पर्याप्तः आसीत् ह्यस्तनः अखिलदेशीयकर्मन्यासप्रतिषेधः। कोटिशः रूप्यकाणां नष्ट एव राष्ट्राय अनेन सञ्जातः।
    प्रतिषेधाय सर्वेषाम् अधिकारः अस्ति। किन्तु सः राष्ट्रस्य अभिवृद्धिकर्मणां तालभङ्गं सृष्ट्वा न भवेत्। पुरोगमनचिन्तनानि वाचि इव कर्मणि च भवितुं सर्वैः राजनैतिकदलैः प्रयतितव्यः।
      विनष्टं प्रतापं प्रत्यानेतुं प्रयत्नः  एव  स्वतन्त्रतालब्धेः आरभ्य भारतीयजनतत्या अनुवर्तते। विभिन्नाः राजनैतिकविश्वासिनः विभिन्नाः धर्मानुयायिनः वा भवन्तु , क्रियमाणानि सकलानि प्रवर्तनानि राष्ट्रपुरोगतिं लक्ष्यीकृन्य भवितव्यानि।
    अतः एतादृशः कर्मन्यासः निरर्थकः निराकरणीयश्च इति बोद्धव्यः।

Friday, September 2, 2016

 दशमकक्ष्यायां न पठितवती, किन्तु MIT मध्ये पठिष्यति।
मुम्बै>दशमकक्ष्यायां न पठितवती तथापि मालविका राजेश् जोशी मसाचुसेट्टस् इन्स्टिट्यूट्‌ ओफ् टेक्नोलजि(MIT)मध्ये पठिष्यति। स्थानीय योग्यता नास्ति चेत् अपि सङ्गणक यन्त्रे प्रवर्तन-क्रमाणाम् आयोजने तस्याः कुशलता श्रद्धेया एव। सा एव पठनाय प्रवेशलब्धेः निदानम् । सप्तदशवयस्का मालविकायाः ओलिम्प्याट् पतकेन (IOI) पुरस्कृता इत्यनेन एव कलाशालायां प्रवेशनम्। द्वादश कक्षायाः विजयं विना सामान्येन यत्रकुत्रापि पठनाय अनुज्ञा न लभते।सप्तमकक्ष्यानन्तरम् अध्ययनम् नास्ति इत्यनेन सा उपरिपठनात् निवारिता। अधुना बालिका बालकाः सङ्गणकयन्त्रं क्रीडायै उपयुज्यते । किन्तु एषा सङ्गणक-यन्त्रमुपयुज्य नूतनानि प्रवर्तन-कार्यक्रमाणि निर्मितानि च

संस्कृतकवयः न दुर्लभाः 
वक्ता श्रोता चदुर्लभा
नव देहली > दिल्लीविश्वविद्यालयः संस्कृतविभागस्य तत्वावधाने समायोजिते कविसम्मेलने  संस्कृतभाषायाः  प्रख्यातकविभिः प्रस्तुतिः विहिता। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य  पूर्वकुलपतयः प्रो.अभिराजराजेन्द्रमिश्रः, पद्मश्री पुरस्कार रमाकान्तशुक्लः, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतयः प्रो.रमेशचन्द्रपाण्डेयः, श्रीलाल बहादुरशास्त्रीराष्ट्रीयसंस्कृतविद्यापीठस्य  प्रसिद्धाचार्यःडॉ. दयालसिंहपँवारः दिल्लीविश्वविद्यालयस्थ संस्कृतविभागस्य   प्रख्याताचार्यः  डॉ. भारतेन्दुपाण्डेयः चेत्यादयः सुकविभिः भव्याः काव्य रचनाः प्रस्तुताः। अवसरेsस्मिन् संस्कृतविभागस्याध्यक्षया प्रो. शारदाशर्ममहोदयया समुपस्थितानां  कविनां  संस्कृतकाव्यरसिकानां च वाचिकस्वागतं विहितम् ।

Thursday, September 1, 2016

सिंगापुरे जीका विषाक्तोsपशपनं प्रयतते 
निखिलेsपि जगति जीका वायरस इति संक्रमणग्रस्तानां संख्या अनुदिनं वर्धतेतराम् सिंगारपुरे विषाक्तग्रस्तानां संख्या द्वयाशीति मिता सञ्जाता। विषाक्तं वारयितुं दृढसुरक्षोपायाः समुपकल्पन्ते |  सिंगापुर प्रशासनः  दक्षिण-पूर्वोपनगरे एडीस् मशकानां प्रजननस्थलान् नाशयितुं  प्रयतते, सममेव अन्योपायेष्वकि कार्यचरणं विधीयते |

उत्तर कोरियायां शिक्षामंत्रिणे मृत्युदण्डम् 
दक्षिण कोरिया सरकारेण प्रोक्तं यत्  उत्तर कोरियायां देशस्य शिक्षामंत्रिणः किमयांगजिनाय  मृत्युदण्डं प्रदत्तम्, अस्योद्घोषणा सियोलनगरे विहिता | असौ एकस्मिन्नुपवेशने सुषुप्तिःतिः प्राप्तः अतोनन्तरं किमयांगजिनं विरुद्ध्य भ्रष्टाचारान्वेषणं विहितम् |
भारत-  अमेरिक्काभ्यां सेनानिलयानि संविभज्यन्ते।
वाषिङ्टण्> भौम - नाविक - व्योम निलयानि मिथः विभज्य उपयोक्तुं भारत - अमेरिक्का मध्ये सन्धिः। अमेरिक्कायाः प्रतिरोधास्थाने पेन्टगण् नामके भारतरक्षामन्त्री मनोहरपरीक्करः अमेरिक्कारक्षासचिवः आष्टण् कार्टर च सन्धिपत्रे हस्ताक्षरम् अकुरुताम्।लेमोवा नामक सैनिक सन्नाह विनिमयसन्धिः (Logistics Exchange Memorandum Of Agreement) एव प्राबल्ये अभवत्। एतदनुसृत्य उभयोः राष्ट्रयोः सैनिकनिलयानि परस्परम् उपयोक्तुं शक्यते। संयुक्तसैनिकव्यवहारे तथा दुरिताश्वासप्रवर्तनेषु च प्रयोजकीभविष्यति।
    किन्तु राष्ट्रान्तरेषु भारतस्य सैनिकव्यवहारः नितरां परिमित इत्यतः अमेरिक्कायाः निलयेषु भारतस्य साध्यता विरल एव। प्रत्युत तस्य राष्ट्रस्य सैनिकसाङ्केतिकविद्यासहकारः प्रयोजनाय भविष्यति। तथापि एष्यन् मण्डलेषु अमेरिक्कायाः सान्निध्यं सजीवं वर्तते वर्धते च, तथा भारतस्य सैनिकपरमाधिकारः दुर्बलः स्यादिति आशङ्कापि अवशिष्यते।

सिङ्गूरे कृषकविजयम्।
नवदिल्ली > पश्चिमवंगे सिङ्गूरे टाटा मोटोर्स् इति निर्माणसंस्थायै नानो कार् याननिर्माणशालां स्थापयितुं २००६ तमे संवत्सरे तदानींतनसर्वकारेण दत्तं उपसहस्र एकर् परिमितं भूमिं कृषकेभ्यः प्रत्यर्पयितुं सर्वोच्चन्यायालयेन आदिष्टम्।
     २००६तमे संवत्सरे बुद्धदेवभट्टाचार्यस्य नेतृत्वे वामदलसरवकारेणैव ९९७.११ एकर् परिमिता केदारभूमिः टाटासंस्थायै कृषकेभ्यः बलेन स्वीकृत्य दत्ता। एतं विरुध्य कृषकाणां शक्तमान्दोलनम् आरब्धम्। ततः २००८ वत्सरे नानोपद्धतिः गुजरातं प्रति अपनीता आसीत्। एतद्विषयं राजनैतिकशस्त्रं परिकल्प्य एव ममताबानर्जिवर्यायाः नेतृत्वे तृणमूल् कोणग्रस् सर्वकारः अधिकारस्थानं प्राप।

Wednesday, August 31, 2016

रियोनगरस्य संस्कृतलोकः
रियो>ब्रसीलस्य रियो डि जनिरो ओलिम्पिक्स् महोत्सवेन श्रद्धेयम् अभवत् । किन्तु तत्र संस्कृतभाषायाः लोकमपि वर्तते। आस्मिन् लोके राज्ञी इव विराजमाना संस्कृत-शिक्षिका अस्ति ब्रसील् देशीया 'ग्लोरिया'। नवदशे वयसि भारतम् आगत्य स्वामी दयानन्दसरस्वत्याः शिष्या अभवत् सा। एतस्याः महोदयायाः नाम ग्लोरिया अरियेर इति। एकषष्टिवयस्का  एषा संस्कृतं पठित्वा ब्रसील देशस्य विभिन्नेषु भागेषु इदानीं संस्कृतं पाठयति च। पञ्च त्रिंशत् ग्रन्थानां रचयित्री भवति। संस्कृतभाषातः पोर्चुगीस् भाषायां प्रतिकृतानुवादानि ते। अष्ट संख्यकाः उपनिषदः इतः पर्यन्तं तया अनूदिताः। भगवद् गीतायाः पोर्चुगीस् भाष्यः एव अस्याः आधुनिकः ग्रन्थः । पातञ्जलं योगसूत्रम् अस्मिन् संवत्सरे प्रकाशयिष्यते।
अस्याः महोदयायाः विद्यामन्दिरं नाम विद्यापीठे सहस्रपरिमिताः छात्राः पठन्ति। तस्मिन् वयोवृद्धाः च सन्ति। १९८४ तमे कलाशालायां पठिता आसीत् सा। तस्मिन् समये आसीत् दयानन्द सरस्वत्याः अमेरिका सन्दर्शनम्। स्वामिनः प्रभाषणात् प्रभाविता सा भारतसंस्कृतिमधिकृत्य पठितुमारब्धवती। वर्ष पञ्चकेन स्वामिनः शिष्या भूत्वा संस्कृतं पठितवती। इदानीं ब्रसील् देशे बहवः शिष्याः सन्ति तस्यै। कोप्पकबाना नाम देशे भवति अस्याः संस्कृतविद्या मन्दिरम्।
सीरियायां प्रवृत्ताक्रमणेषु इस्लामिकस्टेट गुल्मस्य प्रवक्ता मृत्युमुपगतः  
 अमाक़न्यूज़ इति वार्ताभिकरणेन प्रोक्तं यत् एजेंसी एलप्पो नगरे सैन्याक्रमणे अबू-मुहम्मद-अल-अदनानिनः मृत्युः संजाता. असौ सुदीर्घकालात् आईएस गुल्मस्य नेतृत्वं अकरोत् | इदानीं तस्य मृत्योः कारणं स्पष्टं नास्ति | मई मासे एकस्मिन् श्रव्य संदेशे अदनाना मुसलमाः पश्चिमी देशेषु  आक्रमणाय अध्यर्थिताः |
 महारष्ट्रायां अग्निशाखावनानि (कण्टल्) इतःपरं संरक्षितवनम्।
मुम्बई>महाराष्ट्र राज्ये सर्वकारभूमौ विद्यमानानि समस्तानि कण्टल् वनानि संरक्षणीयवनमण्डलरूपेण विज्ञापितानि। कण्टल् वनं समस्तं संरक्षणीयवनमिति प्रख्यापितं प्रथमराज्यं भवति महाराष्ट्रा!
महाराष्ट्रस्य ७२० कि.मी.परिमिते समुद्रतीरे २९८३९ हेक्टर परिमितानि अग्निशाखावनानि विद्यन्ते! तत्र १६५५४हेक्टर् परिमितानि सर्वकाराधीने भवन्ति!
     महाराष्ट्रस्य अग्निशाखाप्रदेशेभ्यः वनत्वविवक्षा दातव्येति मुम्बई उच्चन्यायालयेन २००५ तमे वर्षे  आदिष्टमासीत्।

पश्चिमबंगालः परं बंगालः।
कोल्कोत्ता>पश्चिमबंगराज्यं इतःपरं बंगाल् इति नाम्नि विज्ञायते। बंगालीभाषायां बंग्ल इति राज्यस्य नाम।
    विधानसभायां एतदधिकृत्य प्रमेयः ३१सामाजिकान् विरुध्य १८९ सामाजिकानां मतदानैः अङ्गीकृतः।

Tuesday, August 30, 2016

पालयन्ति शुनकैः वीथयः
WhatsApp तः लब्धं चित्रम्
कोच्ची > केरळेषु मार्गाणि शुनकैः पूरिताः इति भान्ति। केन्द्र मन्त्रिणा मेनका गान्धिना वन्ध्यीकरणं कृत्वा वीथीशुनकानां संख्या नियन्त्रणाय आदेशः दत्तः असीत्। आदेशपालने केरळस्य शासकाः विमुखाः आसन् इति मेनका गान्धीमहोदयया उक्तम्। प्रतिदिनं बहवः जनाः शुनकस्य आक्रमणेन व्रणिताः । वयो भेदं विना सर्वान् आक्रमितुं शक्ताः भवन्ति शुनकाः। वार्तामाध्यमेषु शुनकस्य चरितानि सदा परामृष्टाः । वाट्स् आप् फेस् बुक् आदि  नूतन माध्यमेषु हास्यचित्राणि प्रचलन्ति। जनैः तेषां रोषप्रकाशनाय नव माध्यमानि उपयुज्यन्ते च।
भरतवाक्यम् - शासकाः जनानाम् पालकाः भवन्तु ।
 वैद्यबिरुदप्रवेशनम् - एकीकृतशुल्कव्यव्यवस्था न युक्ता।
  तिरुवनन्तपुरम् > (केरलम्) > वैद्यबिरुदप्रवेशनाय  स्वाश्रयशैक्षिकसंस्थानाम् एकीकृतशुल्कव्यव्यवस्था इति निर्देशम् अङ्गीकर्तुं न शक्यते इति केरलसर्वकारः।एकीकृतशुल्कव्यव्यवस्था इति निर्देशः अप्रायोगिकः इति आरोग्यविभागसचिवया के के शैलजा महोदयया सूचितम्। किन्तु एकीकृतशुल्कव्यव्यवस्था अङ्गीक्रियते चेत् प्रवेशनस्य ५०% स्थानानि सर्वकारविभागाय दास्यतीति स्वाश्रयशैक्षिकसंस्थापक्षतः निर्देशः दत्तः अस्ति। किन्तु एतदङ्गीकर्तुं सर्वकारः सन्नद्धः नाभवत्। तथा च वैद्यबिरुदप्रवेशनं सम्बन्‍ध्य सर्वकार-स्वाश्रयशैक्षिकसंस्थयोः तर्कः अपरिहार्य इव वर्तते।

 ओलिम्पिक्स् पतकविजेतृभ्यः खेल् रत्न पुरस्काराः समर्पिताः। 
  नवदेहली > रियो ओलिम्पिक्स् २०१६ मध्ये भारतस्य अभिमानपात्रेभ्यः पि.वि सिन्धू , साक्षी मालिक् , दीपा कर्माकर् , जित्‍तु राय् इत्यादिभ्यः कायिकरत्नेभ्यः राष्ट्रं खेल्-रत्न पुरस्कारम् असमर्पयत्। देशीयकायिकदिनसम्बन्धतया नवदहल्यां संघटिते कायिकपुरस्कारदानयोगे राष्ट्रपतेः प्रणब् मुखर्जी महोदयात् एते पुरस्कारं स्वीकृतवन्तः। एतैः सह योगे १५ क्रीडकेभ्यः अर्जुनपुरस्कारः,६ परिशीलेकेभ्यः द्रोणाचार्यपुरस्कारः,त्रयाणां कृते ध्यान्चन्द्‌ पुरस्कारः च समर्पितः।
 संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते -श्रीनिवासवरखेडि
 कोयम्बत्तुरु>संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते इति  कोयम्बत्तुरु आयुर्वेदमहाविद्यालये एकदिवसीया विचारगोष्ठ्यां भाषमाणः आसीत् कर्णाटक-संस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः। अगस्टमासस्य 28 दिनाङ्के कोयम्बत्तुरु आयुर्वेदमहाविद्यालये संस्कृत-संवर्धन-प्रतिष्ठानेन आयुर्वेदमहाविद्यालयेषु अध्यापनरतानां संस्कृतशिक्षकाणां कृते  संस्कृतेन आयुर्वेदः, आयुर्वेदाय संस्कृतम्, इति एकदिवसीया विचारगोष्ठी आयोजिता । अस्याः गोष्ठ्याः उद्घाटनम् कोयम्बत्तुरु-चिन्मयमिशन् संस्थायाः स्वामी-अनुकूलानन्दसरस्वती अकरोत्, । श्री.अनन्तकल्याणकृष्णन् महोदयः अध्यक्षः आसीत्, एषः संस्कृतभारती, दक्षिणतमिल्नाडु मण्डलस्य अध्यक्षः च । विचारगोष्ठ्यां विषयविशेषज्ञत्वेन समागतः आसीत् कर्णाटकसंस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः । अस्यां विचारगोष्ठ्यां संस्कृत-संवर्धन-प्रतिष्ठानस्य कार्यपालकः श्रीमान् लक्ष्मीनरसिंह-महोदयः गोष्ठ्याः महत्त्वं कथयित्वा लक्ष्यम् उद्देश्यं च अवर्णयत् । डा. रघुरामभट्टः, प्राचार्यः कोयम्बत्तुर् आयुर्वेदमहाविद्यालयः, संस्कृतशिक्षकाणां महत्त्वं तथा संस्कृतेन आयुर्वेदपठनस्य कीदृशाः लाभाः इत्येतस्मिन् विषये सर्वान् उदबोधयत् । अपूर्वशर्मा विचारगोष्ठ्याः सञ्चालनम् अकरोत् । गोष्ठ्याम् आभारतात् प्रायेण त्रिंशत् शिक्षकाः उपस्थिताः आसन् । श्रीमती निरञ्जना धन्यवादसमर्पणम् अकरोत् ।

सौराष्ट्रनर्मदा-अवतरणसेचनयोजना
प्रधानमंत्री अद्य राजकोटे सौनी इति  सौराष्ट्रनर्मदा-अवतरणसेचनयोजनाया प्रथमचरणस्य  उद्घाटनं करिष्यति | अस्याः योजनायाः अन्तर्गतं सौराष्ट्रस्य  जलाशयाः नर्मदायाः जलेन प्रपूर्यिष्यन्ते।

अमेरिकाभारतयोः लॉजिस्टिक्स इति संभारतन्त्रसन्धिः 
भारत अमेरिका देशयोः मिथः  परस्परं सैन्यस्थलानां उपयोगार्थं लॉजिस्टिक्स इति संभारतन्त्रविषयकं  सैन्यसन्धिः हस्ताक्षरैः प्रमाणीकृतः | येन देशद्वयाभ्यां परस्परं जल, थल, वायु सैन्यस्थलानां विकासः, विनिर्माणं च समेत्य विविध गतिविधीनां आदान प्रदानं संभविष्यति |

 वार्ताः 
 * केन्‍द्रीयगृहमंत्रिणः  राजनाथसिंहस्य नेतृत्‍वे सर्वदलीयं शिष्‍टमण्‍डलं सितम्‍बरमासस्य चतुर्थे दिने जम्‍मूकाश्‍मीरं प्रयास्यति । अद्य  काश्‍मीरोपत्यकायां बहुत्र निषेधाज्ञा इति संचाररोधादेशः निराकृतः।

* भारत- म्‍यांमाभ्यां  नवीकरणीयोर्जा पारम्‍परिकौषधव्‍यवस्‍थां समेत्य सन्धिचतुष्टकं हस्‍ताक्षरैः प्रमाणितम् ।

* उच्‍चतमन्‍यायालयेन बुलंदशहरदुष्‍कृति प्रकरणस्य  राज्‍यतो बहिर्वादश्रवणविषयिन्यां याचिकाविषये   उत्‍तरप्रदेशप्रशासनाय अथ  राज्‍यमंत्रिणे आजमखानाय अध्यर्थनापत्रं प्रख्यापितम् ।

* राष्‍ट्रपतिना  पी.वी.सिंधु साक्षीमलिकः दीपाकर्माकरः जीतूरायश्च राजीवगांधीखेलरत्‍न इति क्रीडापुरस्‍कारेण बहुमानिताः ।

* यमन राजधान्यां अदननगर्यां  सैन्य शिविरे  आत्‍मघात्याक्रमणे बम्ब विस्फोटेन न्यूनान्न्यूनं षष्टि जनाः कालकवलिताः संसूच्यन्ते ।

Monday, August 29, 2016

जीववायुं स्वीकृत्य उड्डयमानः आकाशबाणः - भारतस्य प्रयत्‍नफलम्।
श्रीहरिक्कोट्ट> स्क्राम् जेट् यन्त्रस्य परीक्षणविजयः बाह्याकाश-गवेषणमण्डले भारतस्य गतिवेगं वर्धिष्यते। न्यून व्ययेन किन्तु अन्यून वेगेन बाणान् बाह्याकाशं नेतुं 'स्क्राम् जेट्' सङ्केतेन शाक्यते इति ऐ०एस्० आर् ०ओ संस्थया उक्तम्। श्री हरिकोट्टायाः सतीष् धवान्‌ केन्द्रतः  रविवासरे प्रातः षट् वादने आसीत् विक्षेपणम् । ज्वलनाय प्राणवायुः अन्तरीक्षतः स्वीक्रियते इत्येव भवति अस्य बाणस्य विशेषः। विजयविक्षेपणस्य अन्ते बाणः वंग समुद्रे निर्दिष्टस्थाने पतितः। शब्द्स्य षट्गुणित वेगेन गन्तुं शक्यते बाणस्य इति सर्वान् अतिशेते भारतीया इयं बाणविद्या।

Sunday, August 28, 2016

 रेल्यानं पथविभ्रंशितम्। गतागतं स्थगितम्।
यात्रिकाः सुरक्षिताः ।


कोच्ची > केरळे एरणाकुळं जनपदे  अङ्कमाली रेल् निस्थानसमीपे करुकुट्टीप्रदेशे अनन्तपुरीतः मंगलापुरम् गम्यमानं एक्स्प्रेस शक्टम् रात्रौ पञ्चोन त्रिवादने (२.५५) आपदि प्रविष्टम्  यानस्य S3 आरभ्य 12 पर्यन्तं शयनपेटिका तथा  ए1 बि1 पेटिका च रेलतः भ्रंशिताः अभवन्। यात्रिकाः सुरक्षिताः इति रेल् अधिकारिणः सम्प्रतिवार्तां प्रति अवदत्।
    बहूनि दीर्घदूरयानानि व्यतिचलितमार्गानि कृतानि। अन्यानि यानानि समीपनिस्थानेषु यात्रां समापयन्ति स्म।
दुर्घटनाकारणमधिकृत्य अन्वेषणम् आरब्धम्। अङ्कमालीतः अनन्तपुरी तथा चालक्कुटीतः मङ्गला पुर-पर्यन्तम् उत्तर दक्षिण भागेषु रेल्यानानि अधुना चालयन्ति। सर्वकारीय लोकयानानी च विशेषसेवां कुर्वन्ति।

पाकिस्तानप्रशासितकश्मीराय साहाय्यपुटकस्योद्घोषणा भविष्यति
नवदेहली>प्रधानमन्त्री नेन्द्रमोदी  पाकिस्तानप्रशासितकश्मीरस्य अथ च गिलगितबल्तिस्तानक्षेत्रस्य विस्थापितजनानां कृते शीघ्रमेव 2000 कोटिरुप्यकाणां साहाय्यपुटकस्य उद्घोषणा करिष्यति, विस्रंभवर्तास्रोतोभिः परिज्ञायते यदेतदर्थं प्राशासनिक सज्जता पूर्णतां गतासाहाय्यपुटकस्य  विस्तृतविवरणस्य निर्माणं  गृहमंत्रालयेन क्रियते, मन्त्रिमण्डलस्य संस्तुत्यर्थं च प्रेषयिष्यते, जम्मूकाश्मीरस्य  सर्वकारेण  36,348 लाभार्थि परिवाराणां परिज्ञानं विहितमस्ति।

 तुर्की देशे व्योमाक्रमणम्
ब्रिटेनस्थे सीरियन ऑब्ज़रवेटरी फॉर ह्यूमन राइट्स इति संघटनेन अवादि यत् सीरियायां तुर्क्याः सद्य प्रवर्तिते व्योमाक्रमणे चत्वारिंशत् जनानां 40 मृत्युः संसूच्यते। एकस्मिन् अन्ये आक्रमणे तुर्की सैन्यबलेन प्रतिपादितं यत् मृतानां संख्याः पञ्चविंशतिः अस्ति। एते समेsपि  कुर्द चरमपंथानुयायिनः सन्ति।
Sanskrit Day Celebration 2016 by Govt: of Kerala

 प्रधानमन्त्री-मेहबूबा मेलनम् अभवत्।
नवदिल्ली> जम्मु-काश्मीरविषये पाकिस्तानस्य कुमार्गः अपलपनीय इति काश्मीरस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ती। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनानन्तरं माध्यमप्रवर्तकान् प्रति भाषमाणा आसीत् सा। काश्मीरस्य अधित्यकायां विषयान् रूक्षीकर्तुं पाकिस्तानेन प्रकोपनं कृतमिति मेहबूबा आरोपितवती। भारतेन दत्तं सौहृदं प्रतिदातुं पाकिस्तानः विमुखतां प्रदर्शयति। काश्मीरप्रतिसन्धिं परिहर्तुं समस्तविभागैः सह चर्चां कर्तुं सविशेषासूत्रणम् आवश्यकमिति मेहबूबया निर्दिष्टम्।

Saturday, August 27, 2016

अध्यापकदिने कक्ष्या चालनाय मुख्यमन्त्री
-हास्य चित्रं-मलयालमनोरमा
अनन्तपुरी> केरळराज्ये एव मुख्यमन्त्री प्रिणराय् विजयः स्वस्यमन्त्ररिपरिवारेण सह कक्ष्या चालयिष्यन्ति। अट्टक्कुळङ्ङर केन्द्रीय विद्यालये कक्ष्याचालनस्य उद्घाटनं मुख्यमन्त्री पिणराय् विजयः करिष्यति। धन- स्वास्थ्य-तद्देश-शिक्षा मन्त्रिणः च कक्ष्यां चालयिष्यन्ति। न केवलं मन्त्रिणः किन्तु संसदङ्‌गाः च कक्ष्याम् चालनीयाः इत्येवं निदेशः प्रसारितः आसीत् ।


 राज्यस्तरीयसंस्कृतदिनाचरणं कण्णूरे सवैभवं प्राचलत्

कण्णूर्> आगस्ट् मासस्य 27 त्यां जिल्ला शिक्षाधिकारिणः कार्यालयात् प्रस्थितया घोषयात्रया एव सम्मेलनस्य आरम्भः जातः । नगरसभाविद्यालयस्य जूबिलीप्रकोष्ठे आयोजितस्य सम्मेलनस्य उद्घाटनं श्री रामचन्द्रन् कटन्नप्पल्लि( बहुः   नौकामुख, पुरावस्तुविभागमन्त्री) महाशयः निरूढवान् । जिल्ला पञ्चायत्त्  अध्यक्षः श्री के वी सुमेशः अध्यक्षपदमलड़्कृतवान् । सम्मेलनस्य आमुखभाषणं   सर्वकारीयविद्याभ्यासविभागस्य अध्यक्षः  श्री के वी मोहनकुमारः(ऐ  ए एस्)  अकरोत् । चेन्नै संस्कृतभारत्याः  कार्यदर्शी  श्री श्रीरामः  संस्कृतदिनसन्देशं व्याहृतवान् । पण्डितादरणे  श्री टी के कृष्णन् नम्ब्यार् महोदयः(विरमितः अध्यापकः भारतीयसंस्कृतमहाविद्यालयः पिलात्तरा) , डा वि गोविन्दन् नम्पूतिरिः (विरमितः  शिक्षकाधीशः(प्रोफसर्) कृष्णमेनोन् स्मारकवनिताकलालयः), डा पी मनोहरः (एमेरिटस् प्रोफसर् गवः ब्रण्णन् कलालयः तलश्शेरी), श्री पी विजयः (अध्यक्षः स्कूल् ओफ् इन्ड्यन् आर्किटेक्चर् माहि)  एते आदृताः। संस्कृताध्यापकानां रचनामत्सरेषु सम्मानार्हाणां पुरस्कारदानं श्री आर् एस् षिबु महाशयेन ( उपाध्यक्षः सार्वजनिकविद्याभ्यासकेन्द्र्म्) निरूढम् । श्री सी पी पद्मराजः श्री यु करुणाकरः श्री बालचन्द्रन् मठत्तिल् श्रीमती एम् पी वनजा  श्री के एम् कृष्णदासः डा पी पी पुरुषोत्तमः, श्री के वी सुरेन्द्रः, श्रीमती विमा तेक्कुम्बात्त् , श्री सी पी प्रसूनः, श्री के बालचन्द्रः,  श्री सुरेषकुमारः, श्री टी के सन्तोषकुमारः, श्री वी जे पी नारायणः च भाषणं कृतवन्तः। संस्कृतसड़्गीतशिल्पं कार्यक्रमस्य माधुर्यं अवर्धयत्।।
वैद्यकप्रवेशः - सर्वकारादेशस्य उच्चन्यायालयेन अवष्टम्भनम्।
कोच्ची > केरळे स्वाश्रयमण्डले वैद्यक दन्तक कलालयप्रवेशः सर्वकारेण करिष्यति इति सर्वकारादेशः उच्चन्यायालयेन व्यवस्थाभिः निरस्तः। एताः व्यवस्थाः पालनीयाः -प्रवेशः नीट् इति प्रवेशनपरीक्षायाः आधारे  अर्हतापट्टिकामनुसृत्यैव भवेत्। अावेदनम् अन्तर्जालद्वारा एव स्यात्। आवेदनानां सम्पूर्णवृत्तान्तं प्रवेशनियन्त्रणाय रूपवत्कृतां जेयिंस् समितिं प्रति समर्पणीयम्। आलोकानां -अग्रेसरत्वं - प्रस्तुतसमित्याः अङ्गीकरणीयम् 

भारते अन्तर्जालाधिष्ठितपातकेषु(cyber crimes) परिमिता वृद्धिः
नवदिल्ली > गतेषु त्रिषु संवत्सरेषु भारते अन्तर्जालाधिष्ठितेषु अपराधेषु प्रतिशतं ३५० परिमितस्य वृद्धिः इति परिपठनम्।
इतःपूर्वं चीना, अमेरिका, तुर्की, ब्रसील्, पाकिस्तान् इत्यादीनि राष्ट्राणि आसन् अस्मिन् विषये प्रथमश्रेण्याम्।
 अन्तर्जाले तीक्ष्णमतीनां दूरवाणीनां च वर्धितः उपयोगः भारतं सैबर् पातकीनां प्रियस्थानम् अकारयत् इति परिपठनम् अभिप्रैति।

Friday, August 26, 2016

भाटकगर्भपात्राय निरोधः। 
नवदिल्ली - भाटकरूपेण गर्भपात्रस्य विनिमयं निरुध्य केन्द्रसर्वकारः नियमं करोति। धनं दत्वा गर्भपात्राणि विनिमयं कुर्वन्तीं व्यवस्थां निरोद्धुम् उद्दिश्य सरोगसि नियन्त्रण विधेयकाय केन्द्रमन्त्रिसभया अङ्गीकारः लब्धः।
    किन्तु अनपत्यदुःखमनुभवन्त्योः भारतीयदम्पत्योः धनविनिमयं विना निस्स्वार्थतया सन्निकर्षबन्धूनां गर्भपात्राणि उपयोक्तुं शक्यन्ते। विदेशीयाः, एन् आर् ऐ पौराः, इत्यादिभ्यः अनुमतिः न लभ्यते।

केरळे आपूर्तिपत्रम् उपडिसंम्बरमासम्। 
अनन्तपुरी - केरळराज्ये देशीयभक्ष्यसुरक्षानीतिम् आयोजयितुं निश्चयः मन्त्रिसभया कृतः। तदनुबन्ध्य नवीनम् आपूर्तिपत्रं डिसम्बर् मासाभ्यन्तरे वितरिष्यति।
    भक्ष्यधान्यार्हान् निश्चिनोतुं राज्यस्तरीयश्रेणीकरणं कर्तुमपि निश्चितम्। भक्ष्यवस्तूनां सुगमवितरणाय ब्लोक् तले  सम्भरणशालाद्वयनिर्माणं करिष्यति। भोगापूर्तिवस्तूनां समस्तविक्रयशालानां क्रियावाहित्वं वितरणस्य नियन्त्रणं च सप्लैको संस्थया निर्वूढिष्यते।

Thursday, August 25, 2016

स्कोर्पीन् अन्तर्वाहिनी - सुप्रधानरहस्यानि न बहिरागतानि।
 नवदहली > स्कोर्पीन् अन्तर्वाहिनीनां सुप्रधानरहस्यानां बहिर्गमनं न जातम् इति भारतीयनाविकसेना। विषयोऽयं राष्ट्रसुरक्षासम्बन्धः इत्यतः आभ्यन्तरस्तरे अन्ताराष्ट्रस्तरे च अन्वेषणम् आवश्यकं भवति। फ्रान्स् राष्ट्रेण सह परिपाल्यमानं नयतन्त्रबान्धवम् उपयुज्यैव अन्वेषणं करिष्यतीति नाविकसेनया सूचितम्। विषयोऽयम् अतीव गौरवतया एव फ्रञ्च् सर्वकारेण समीक्ष्यते इति भारतस्थफ्रञ्च् स्थानपतिना सूचितम्। अपि च स्कोर्पीन् अन्तर्वाहिनीनां रहस्यांशानां बहिर्गमनम् इत्यस्मिन् विषये भारतेन फ्रञ्च् आयुधनिर्माणसङ्घस्य विशदीकरणम् अभ्यर्थितम्।

भारतस्य जलान्तर्गामिनौकायाः रहस्यसूचनाः परिस्रवितानि स्म।
नवदिल्ली>भारतस्य अत्यन्ताधुनिकायाः  स्कोर्पीन् नामधेये विख्यातायाः समुद्रान्तर्गामिमहानौकायाः कार्यक्षमासहिताः साङ्केतिकसूचनाः बहिर्गतानीति दि ऒस्त्रेलियन् इति काचन ऒस्त्रेलियन् दिनपत्रिका।
     भारतस्य प्रतिरोधरहस्यानि परिस्रवितानि इति विषये रक्षामन्त्री मनोहर परीक्करः वृत्तान्तकथनपत्राय आदिशत्।
परिस्रवितानि रहस्यानि एतानीति उच्यते - नौकां प्रति सूचनास्वीकारतरङ्गदैर्घ्यस्य मानं , बहिर्गमयतां शब्दतरङ्गानां मानकं, गम्यमाना अगाधता , आक्रमणरीतिः , कार्यक्षमता इत्यादयः।

मृगसंरक्षणफलकवृन्देन श्वानहत्या निषेधः घोषितः।
अनन्दपुरी>वीथ्याम् इतस्ततः अटमानानाम् शुनकानां हननाय राज्यसर्वकारैः घोषितनिर्देशः अनुशासनविरुद्धः  इति देशीयमृगसंरक्षणवृन्देन व्यक्तीकृतः। सर्वकाराणाम् निदेशोयम् सर्वोच्चन्यायालयघोषणस्य लड़्घनमित्यपि समितेरध्यक्षेण डा आर् एम् खर्ब् महाशयेन उक्तम् । सर्वकारैः एषः निर्देशः पुनर्विचिन्तनीयः इत्यपि  तेन सूचितम् ।

देशीयाध्यापकदिने केरळानां मुख्यसचिवः कक्ष्यां प्रचालयिष्यति।
   तिरुवनन्तपुरम् > अस्य वर्षस्य देशीयाध्यापकदिने केरलानां मुख्यसचिवः पिणरायि विजयः कक्ष्यां प्रचालयिष्यति। तिरुवनन्तपुरे अट्टकुलङरा सेन्ट्रल् उच्चविद्यालये एव देशीयाध्यापकदिनस्य  औद्योगिककार्यक्रमः।'जीवितशैली' इत्यस्मिन् विषये भवति मुख्यसचिवस्य कक्ष्याचालनम्। मद्यं, उन्मादकवस्तूनि,धूम्रपानं, आलस्यं,जीवितशैलीरोगाः, अनारोग्यभक्षणक्रमः इत्यादीन् प्रतिरोद्धुं छात्रसमूहस्य शक्तीकरणम् एव मुख्यं लक्ष्यम्। मुख्यसचिवेन सह अन्यैः सचिवैः , सामाजिकैः च एकैकस्मिन् विद्यालये कक्ष्याचालनं करणीयम् इति सचिवानां योगे निश्चितं वर्तते।
संस्कृते बाल-कविता पाठोत्सवः।
 पुदुच्चेरी >पुदुच्चेरीस्थः संस्कृत -बाल -साहित्य परिषदेन संस्कृत बाल-कविता-पाठोत्त्सवः समायोज्यते । देहलिस्थस्य श्री अरविन्दाश्रमस्य परिसरे सेप्तंबर् मासस्य नवमेदिनाङ्गे सायं पञ्च वादने अनुष्ठास्यते । स्वस्य कविता श्रावयतुं तत्र सन्दर्भः लभ्यते। सर्वोवोत्तम बालकवितायाः कृते बाल साहित्य परिषदेन विशेष सम्मानः गौरवं धनं च प्रदास्यते इति परिषदस्य निदेशकेन डाँ सम्पदानन्दमिश्र महोदयेन उक्तम्। सम्पर्क सूची - sampatanandamishra@gmail.com / 09952888350

व्याकरणवर्गः संस्कृत - शिक्षकाणां कृते
संस्कृतशिक्षकाणां कृते संस्कृतभारती मध्यभारतप्रान्तेन आयोजयिष्यमाणः "द्वि-दिवसीयः व्याकरणवर्गः"
वर्गस्थानम् = राष्ट्रियसंस्कृतसंस्थानं भोपालपरिसरः, संस्कृतमार्गः वागसेवनिया, भोपालम्।
(वर्गस्यावधिः = 11-12, सितम्बर 2016)
@- वर्गेSस्मिन् व्याकरणमधीतुं ये इच्छन्ति ते कृपया संस्कृतकार्यकार्तृभिः सह सम्पर्कं ।
# - वर्गविषये इतोSप्यधिकं संज्ञानार्थं दूरभाषक्रमांकेSस्मिन् सम्पर्कं कुर्वन्तु -
श्री पवनद्विवेदी, संस्कृतभारती, महानगरसंयोजकः भोपालम्। मो. +91 7898996363
सोपानम् -10 Lanson Joseph St. Mary,s U P School Thevara, Kochi -13

गान्धिवधः- उच्चतरन्यायालये राहुल् गान्धिनः विशदीकरणम्।
 नवदहली > गान्धिवधे राष्ट्रिय स्वयंसेवकसङ्घस्य योगदानमस्तीति न उद्दिष्टमिति विशदीकरणेन सह राहुल्गान्धी। २०१४ तमस्य निर्वाचनसम्बन्धे एकस्मिन् योगे महात्मागान्धिनः वधे राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमस्तीति राहुलेन उक्तमासीत्। परामर्शोऽयं विवादः अभवत्। एतत्सम्बन्ध्य राजेष् महादेवकुन्दे नामकेन युवकेन राहुलस्योपरि महाराष्ट्रायां न्यायालये अपकीर्तिव्यवहारः समर्पितः आसीत्। एतस्य विशदीकरणरूपेण उच्चतरन्यायालये समर्पितायां सत्यप्रस्तावनायां‍, राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमिति न उक्तं, किन्तु तत्सम्बन्धाः केचन जनाः इत्येव मया उद्दिष्टाः इति सः विशदीकरणम् अयच्छत्। राहुलस्य कृते प्रमुखः अभिभाषकः कपिल् सिबलः न्यायालये उपस्थितिम् अकरोत्।

जयललितायाः उपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। 

नवदहली > तमिल्नाटु मुख्यसचिवायाः जयललितायाः उपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। सामाजिकप्रवर्तका इत्यतः यः कोऽपि विमर्शः अपि अभिमुखीकर्तुं सन्नद्धा भवतु इति उच्चतरन्यायालयेन सूचितम्। राज्यस्य भरणाधिकारं प्राप्य जयललितया उच्चतरन्यायालये नैरन्तर्येण अन्यानां राष्ट्रियनेतृणामुपरि अपकीर्तिव्यवहाराया समर्प्यन्ते। पञ्चवर्षाभ्यन्तेरे २०० अन्यायाः एव तमिल्नाटु सर्वकारेण समर्पिताः सन्ति।नैरन्तर्येण अन्यायसमर्पणेन जनाधिपत्यावकाशान् मा प्रतिरोधयतु, एवंरीत्‍या नियमस्य दुरुपयोगः, न्यायालयस्य समयनाशः च न कर्तव्यः इति न्यायालयेन स्मारितम्। एकस्यान्यायस्योपरि वादश्रवणवेलायामेव उच्चतरन्यायालयेन एवम् अभिप्रेतम्।

शब्दातिवेगक्षेपणायुधं युद्धविमाने योजयित्वा भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः।
 जोध्पूर् > शब्दादिजवं क्षेपणास्त्रं ब्रह्मोस्, व्योमसेनायाः 'सुखोय्' युद्धविमाने संयुज्य परीक्षणं कर्तुं भारतम्। व्योमसेनया आगस्त् २४ तः २६ पर्यन्तं जयसालमीरस्य पोखराने  क्षेपणायुधपरीक्षणं क्रियते। रष्यया निर्मितं भवति 'सुखोय्' युद्धविमानम्। व्योमसेनायाः औद्योगिकं ब्रह्मोस् विक्षेपणं नवंबर् मासे वा डिसम्बर् मासे वा भविष्यति।  प्रतिरोधमण्डले भारतस्य नूतनप्रगतिं अन्यानि राष्ट्राणि अद्‌भुतेनैव निरीक्षन्ते।

 गृहमन्त्रिणः जम्मूकाश्मीरयात्रा
गृहमन्त्री राजनाथसिंहः  हिंसाप्रभावित काश्मीरोपत्यकायां  सुरक्षाव्यवस्थायाः  समीक्षां विधातुं द्विदिवसीय काश्मीरयात्रां प्रतिष्ठते | अत्रान्तरे राजनाथसिंहः हुर्रियत नेतृभिः साकं सम्भाषणप्रयासं करिष्यति | इतः प्राक् प्रधानमन्त्रिणा नरेंद्रमोदिना विगतदिवसेषु कश्मीरे उमर अब्दुल्ला इत्येतस्य प्रतिनिधित्वे  विरोधिदलानां प्रतिनिधिमंडलेन सहोपवेशनं समाचरितम्  |

कांस्यपदकविजेत्री देशे प्रत्यावर्तिता 
रियो ओलंपिक प्रतिस्पर्धायां कांस्यपदकविजेत्रीमल्लयुद्ध -कुशला साक्षिमलिकस्य देशे प्रत्यावर्तनानन्तरं देहल्याः वायुपत्तने भव्यं स्वागतं सञ्जातम् | स्रोतोभिः परिज्ञायते यत् तस्याः स्वागताय  हरियाणाप्रशासनस्य पञ्चमन्त्रिणः वायुपत्तने समुपस्थिताः आसन् | साक्षी प्रोक्तवती यदहं राष्ट्राय सर्वश्रेष्ठप्रदर्शनं कर्तुमिच्छति स्म:|ओलंपिकस्पर्धानन्तरं जीवनं परिवर्तितम् | प्रसन्ना अस्मि यत् देशस्य परिवारस्य च गौरववर्धापने समर्था सम्प्रवृत्ता |

 राजनाथसिंहः जम्मू-काश्मीरे।
 श्रीनगर् > जम्मू-काश्मीरस्य सङ्घर्षावस्थां परिशोधयितुं केन्द्र-आभ्यन्तरसचिवः राजनाथसिंहः अद्य काश्मीरं प्रापयत्। काश्मीरस्य समस्याः परिहर्तुं राष्ट्रियचर्चा आवश्यकी इति प्रतिपक्षदलेन कृतायां चर्चायां प्रधानमन्त्रिणा उक्तमासीत्। एतदनुसृत्यैव आभ्यन्तरसचिवस्य काश्मीरसन्दर्शनम्। बुधवासरे,गुरुवासरे च राजनाथसिंहेन
 काश्मीरस्य विविधैः राष्ट्रियनेतृभिः सह चर्चा क्रियते। किन्तु अद्य राजनाथसिंहस्य .काश्मीरसन्दर्शनात् पूर्वं सञ्जाते सङ्घर्षे एकः युवकः मृतः। तथा च प्रतिषेधानुयायिभिः सुरक्षासेनया सह जातेषु सङ्घर्षेषु मरणसंख्या ६८ अभवत्।

Wednesday, August 24, 2016

शब्दातिवेगप्रक्षेपास्त्रं युद्धविमाने संघट्य भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः।
 जोध्पूर् > शब्दातिवेगक्रूयिस्प्रक्षेपास्त्रं ब्रह्मोस्, व्योमसेनायाः 'सुखोय्' युद्धविमाने संघट्य परीक्षणं कर्तुं भारतम्। व्योमसेनया आगस्त् २४ तः २६ पर्यन्तं जयसालमीरस्य पोखराने  प्रक्षेपास्त्रपरीक्षणं क्रियते। रष्यया निर्मितं भवति 'सुखोय्' युद्धविमानम्। व्योमसेनायाः औद्योगिकं ब्रह्मोस् विक्षेपणं नवंबर् मासे वा डिसम्बर् मासे वा भविष्यति।  प्रतिरोधमण्डले भारतस्य नूतनप्राप्तिः अन्यानि राष्ट्राणि अद्‌भुतेनैव निरीक्षन्ते।

जय्षायाः आरोपणम् अन्वेष्टुम् अङ्गद्वयसमितिः।
  नवदहली > रियो ओलिम्पिक्स् मध्ये दीर्घदूरधावनस्पर्धायां भारतं प्रतिनिधीकृत्य स्पर्धितायाः ओ पी जय्षायाः आरोपणमन्वेष्टुं केन्द्रसर्वकारेण अङ्गद्वयसमितिः प्रख्यापिता। मत्सरवेलायां भारतस्य औद्योगिकप्रतिनिधीनां साहाय्यं वा सामीप्यं वा न लब्धमिति जय्षया आरोपितमासीत्। अपि च जलं लब्धुमपि महान् क्लेशः अनुभूतः इति जय्षया उक्तम्। एतदन्वेष्टुं कायिकसहकार्यदर्शी ओंकारकेडिया, कायिकनिदेशकः विवेक् नारायणः इति द्वयोः अङ्गयोः समितिः शब्दातिवेगक्षेपणायुधं युद्धविमाने संघट्य भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः:

विश्वस्य आर्थिकमण्डले भारतस्य स्थानं सप्तमम् ।
 नवदहली > विश्वस्य आर्थिकसम्पन्नराष्ट्राणां पट्टिकायां भारतस्य स्थानं सप्तमं भवति। पट्टिकायां प्रथम, द्वितीय स्थानयोः यथाक्रमम् अमेरिका ,चैना च भवतः। पट्टिकायां कानडा, ओस्ट्रेलिया , इट्टली इत्यादीनि प्रमुखानि राष्ट्राणि भारतस्य पृष्ठतः एव। 'न्यूवेल्‌ड् वेल्त्' संस्थायाः पठनानुसारं ५२०० बिल्यण् डोलर् भवति भारतीयानाम् आर्थिकसम्पत्ति:। किन्तु जनसंख्यायाः वर्धनमेव पट्‌टिकायां भारतस्य स्थानारोहणकारणं भवति, प्रतिशीर्षायस्य विषये सामान्यतया भारतीय: दरिद्रः एव इत्यपि पठनं सूचयति।


⦁ प्रधानमंत्री नरेंद्र मोदी समुदीरयत् यत् प्रशासनं निर्धनानां कल्याणाय  समर्पिताः अथ च तेषां हितकरी योजनानां प्रवर्ततनं एवमेव करिष्यति।

⦁ संयुक्तराष्ट्रेण दाउद इब्राहिमस्य पाकिस्ताने विद्यमानतायाः भारतस्य शंकायाः  पुष्टिः कृता।

⦁ केंद्रप्रशासनं  जम्मूकाश्मीरस्य एकलक्ष चत्वारिंशत् सहस्र  यूनां कृते  वृत्ते अवसराः प्रददाष्यति ।

⦁ वस्तुसेवाकर संविधानसंशोधनविधेयकस्य पुष्ट्यर्थं  मध्यप्रदेशविधानसभायाः  एकदिनात्मकं विशेषसत्रम् अद्य अनुष्ठीयते ।

उत्तरप्रदेशे बिहारे च जलौघकारणेन स्थितिः इतोsपि गभीरा संवृत्ता । गंगा-यमुनयोः तयोर्सहायकनदिनाञ्च जलस्तरं प्रवर्धतेतराम् ।

⦁ रियो ओलिम्पिकस्पर्धायां कांस्यपदकविजेत्र्याः साक्षी मलिकस्याः  दिल्ल्यागमने  भव्यं स्वागतम् |

⦁ प्रवर्तननिदेशालयेन  शारदा चिटफंडघोटाला इति प्रवञ्चना प्रकरणे  पूर्ववित्‍तमन्त्रिणः पी0 चिदम्‍बरमस्य पत्नी नलिनीचिदम्‍बरम अन्वीक्षाय  अध्यर्थिता ।

⦁ केन्‍द्रीय मंत्रिमंडलेन  सेरोगेसी इति मातृत्वसम्बन्धिविधेयकं पारितम् । अनेन सेरोगेट मदर इति मातृत्वाधिकारः सुनिश्चीयते ।

⦁ मध्‍यप्रदेशस्य विधानसभायां  वस्‍तुसेवाकरसांवैधानिक संशोधनविधेयकं पारितम्। गोवायां विधेयकमिदम् अनुमोदनाय  अगस्‍तमासस्य अन्तिमे दिने विशेषसत्रम्  भविष्यति |

⦁ मध्‍य इटली क्षेत्रे प्रबलभूकम्‍पेन न्यूनान्न्यूनं अष्टादश जनाः कालकवलिताः ।

⦁ रियो ओलंपिक स्पर्धायां कांस्‍यपदकविजेत्र्याः  साक्षी मलिकस्य हरियाणा प्रत्यागमने भव्यं  स्‍वागतं विहितम् । बेटी बचाओ, बेटी पढ़ाओ अभियानस्य प्रचारप्रमुखपदे प्रचिता ।

Tuesday, August 23, 2016

आगमानन्दस्वामिनः जीवनदर्शनं नववंशीयेभ्यः मार्गदर्शकम् - एम् वि नटेशः।
आगमानन्दपुरस्कारेण अय्यम्पुष़ा हरिकुमारः के सुतः च समादृतौ।

कालटी> अद्वैतवेदान्तिश्रेष्ठस्य तथा समाजपरिष्कर्तुः आगमानन्दस्वामिनः आध्यात्मिकजीवनं जीवनदर्शनं च नूतनपरम्परायां युवकेभ्यः मार्गदर्शकं भवतीति श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागप्राचार्यः एम् वि नटेशः।आदिशङ्कराचार्यस्य जन्मना पवित्रीकृतायाम् अद्वैतभूम्यां कालट्यां समायोजितं १२१तमम्  आगमानन्दजयन्तिसम्मेलनम् उद्घाटनं कृत्वा भाषमाणः आसीत् नटेशवर्यः। समाजोद्धारणं - विशिष्य दलितवंशीयानां प्रगतिः - संस्कृतप्रचारणं च तस्य महानुभावस्य श्वासोच्छ्वासौ आस्तामिति तेनानुस्मृतम्।
      अस्मिन् कार्यक्रमे सर्वोत्तमसंस्कृतप्रचारकाय दीयमानः आगमानन्दपुरस्कारः सम्प्रतिवार्तायाः मुख्यसम्पादकाय अय्यम्पुष़ा हरिकुमाराय दत्तः।अचिरेणैव कालेन सम्प्रतिवार्ताः इति अन्तर्जालदिनपत्रिका आभारतं संस्कृतानुरागिणां मध्ये प्रशंस्यमाना वर्तते, अपि च इदंप्रथमतया छात्राणां वार्तावाचनसंप्रेषणमपि संयोज्य अध्यापकेषु छात्रेषु च नवोत्साहं जनयन्ती वर्तते इति हरिकुमारस्य संस्कृतप्रचरणं परिचाययन् आगमानन्दस्मारकसमित्याः कार्यकर्तृप्रमुखः प्रोफ. पि वि पीताम्बरः अब्रवीत्।
  दलितविभागक्षेमप्रवर्तकाय दीयमानः पुरस्कारः कूवप्पटि स्वदेशिने के. सुताय समर्पितः। कार्यक्रमे अस्मिन् समित्याः अध्यक्षःप्रोफ. के एस् आर् पणिक्कर् महाशयः अध्यक्ष पदमलंकृतवान्। आचार्यः एम् के कुञ्ञालः, संस्कृतपपण्डितः एम् के वावुक्कुट्टिवर्यः, प्रोफ.टि.एन् शङ्करप्पिल्लै वर्यः , केएन् चन्द्रप्रकाशः च भाषणं कृतवन्तः।

Monday, August 22, 2016

काश्मीर् समस्यापरिहाराय सर्वेषां राष्ट्रियदलानाम् ऐक्यम् आवश्यकम् - नरेन्द्रमोदी।
 नवदहली > जम्मू-कश्मीर् समस्यापरिहाराय सर्वाण्यपि राष्ट्रियदलानि एक्यभावेन अग्रे गच्छन्तु इति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरस्य अधुनातनावस्थायाम् आशङ्का वर्तते इति प्रधानमन्त्रिणा सूचितम्। राष्ट्रस्य भरणव्यवस्थामनुसृत्य समस्यानां शाश्वतपरिहारः करणीयः इति तेन अभिप्रेतम्।प्रतिपक्षसङ्घेन सह कृतायां चर्चायां भाषमानः आसीत् प्रधानमन्त्री। गतदिने भूतपूर्वसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे प्रतिपक्षसङ्घः राष्‍ट्रपतिना सह चर्चाम् अकरोत्। ततः प्रधानमन्त्रिणा सह अपि सङ्घः चर्चां करोति स्म।

 आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं केन्द्रसर्वकारस्य पर्यालोचना।
 नवदहली > आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं नरेन्द्रमोदिनः सर्वकारस्य निश्चयः। कालानुसृतं परिष्करणं सर्वेष्वपि मण्डलेषु आवश्यकम् इत्येव सर्वकारस्य निश्चयः। इदानीं धनव्ययगणनपत्रिकावतारणस्य काल एव केन्द्रसर्वकारेण परिष्क्रियते। अधुना फेब्रुवरिमासस्य अन्तिमसप्ताहे एव केन्द्रसर्वकारेण धनव्ययगणनपत्रिकावतारणं क्रियमाणं वर्तते। एतत् परिष्कृत्य अवतारणं जनुवरिमासे कर्तुमेव आलोचना भवति। रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतारणं परिष्कृत्य सामान्यवतारणसहितमिति केन्द्रसर्वकारेण निश्चितं वर्तते। इदानीं अवतारणकालमपि परिष्कृत्य सम्पूर्णं परिष्करणमेव केन्द्रसर्वकारेण लक्ष्यीक्रियते।
 माध्यमानां स्वतन्त्रतया वार्ता प्रकाशनाय अधिकारः भवितव्यः- न्यायाधिपः कमाल् पाषा
कोच्ची > माध्यम धर्मान् विरुध्य किमपि न करणीयम् इति केरळस्य ऊच्च-न्यायालयस्य न्यायाधिपेन न्याय. बि कमाल् पाषमहोदयेन उक्तम्। केन राज्यशासनं करणीयम् इति निश्चयः अपि वार्तामाध्यमानि क्रियते इति वदति चेत् तत्र अन्भुतोक्तिः नास्ति । तेषां लोखन्यः शक्तिः कियन्मात्रमिति जानन्ति सर्वे। भारतस्य स्वातन्त्र्यासमर कालादारभ्य जानन्ति च । भारतीयानां स्वतन्त्रतासंग्रामे अत्र विद्यमानेषु विकास-प्रक्रियासु च वार्तामाध्यमानां  प्रवर्तनप्रदानत्वम् अस्ति इति च पाषा महोदयेन उक्तम्। विस्मरणातीताः व्रणवेदनाः न वर्तन्ते। कृतद्रोहाः अमर्षणीयाः न भवन्ति। कालस्य प्रयाणे जाते व्रणविरोपनं जायेत इत्यत्र न संशयः इति न्यायाधिपः कमाल् पाषा महोदयः अवदत्। स वैट्टिलाप्रदेशस्थां एकां सांस्कारिकसमितिं उद्घाटयन् एवं अब्रवीत्।

 संस्कृताध्यापक-समितेः राज्यस्तरीयसंस्कृतदिनाघोषः कण्णूरे भविष्यति । 
कण्णूर्> अस्य मासस्य 27 दिनाड़्के कण्णूरस्थ नगरसभोच्चविद्यालये कार्यक्रमः आयोजितः भवति ।  आदरणीयः गतागतमन्त्री श्री कटन्नप्पल्लि रामचन्द्रः कार्यक्रमे मुख्यातिथिः । पण्डितादरणम्  , कलासांस्कारिककार्यक्रमाः, मरत्तुकलि ,पुरस्कारदानम्  च इतरे विशिष्टांशाः । संस्कृताध्येतृणाम् अध्यापकानाम्  संस्कृतप्रेमिणाम् संस्कृताभिमानिनाम् सर्वेषाञ्च हार्दं स्वागतमपि ।।


रुदन्ति लोकाः उम्रान् बालकाय ज्येष्ठः नष्टः।
बेय्रूट्> लोकमानसम् मुञ्चत्यश्रूणि। सिरियायाः पञ्चवयस्केन बालकेन साकं युद्धवक्त्रात् रक्षितः ज्येष्ठः मृतः अभवत्। बालकः सिरियायाः अलप्पो नगरात् भग्नानाम् आलयानाम् अवशिष्टान्तर्भागात् रक्षितः आसीत्।  इदानीम् आन्तरिक-रक्तस्रावेन एव एतस्य मृतिः।
अलेप्पोयाम् इदानीं युद्धेन त्रिशतम् (३००) जनाः मृताः

भारतीयानां प्रार्थना -
लोकाः समस्ताः सुखिनो भवन्तु ।

Sunday, August 21, 2016

संस्कृत-सप्ताहः अद्य सम्पूर्णतामेति।
कालटी>  न केवलं भारते,विश्वस्य कोणे कोणे अपि संस्कृतवाराचरणम् अद्य संपूर्णमभवत्।  विविधैः कार्यक्रमैः नयनमनोहराणि आसन्। कार्यक्रमाः केरळे प्राधमिक-विद्यालयछात्राणां ओन् लैन् द्वारा संस्कृतवार्तावतरणं श्रद्धेयमासीत् विश्वे ऐदम् प्राथम्येन विद्यालय छात्राणां वार्ता वाचनं सम्प्रतिवार्तया आयोजितम्। कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयेन लघु चलनास्पर्धा आयोजयति च। संस्कृतभारतया आभारतं संस्कृत-संभाषणशिबिराणि च आयोजितानि। गुर्जर देशे देवसायूज्यं संस्कृतप्रतिष्ठापनेन आयोजितः संस्कृतसप्ताहाघोषः द्वाविंशे (22) दिने विविधैः कला कार्यक्रमैः सम्पूर्यते। भरतस्य विविधराज्यसर्वकारेणापि राज्यस्तरीय आचरणानि आयोजितानि। कानपुरस्य विक्रमाजीत सिम्हासनातन धर्मविद्यालयेन 11 मासात्मकस्य अनौपचारिक-संस्कृतकेन्द्रस्य उद्घाटनं कृतम् । लखनौ विश्वविद्यालये वाद विवाद प्रतियोगिता आसीत्।
एवं संस्कृतमहोत्सवः पुनरारम्भणाय विश्वे पूर्यते।
अय्यम्पुष़ा हरिकुमाराय आगमानन्दपुरस्कारः।
कालटी>  आगमानन्दस्वामिस्मारकसमित्या संस्कृतभाषाप्रचारकाय दीयमानः आगमानन्दपुरस्कारः ‌अस्मिन् संवत्सरे सम्प्रतिवार्ताः इति अन्तर्जालपत्रिकायाः मुख्यसम्पादकाय अय्यम्पुष़ा हरिकुमाराय दीयते। दलितविभागक्षेमप्रवर्तकाय दीयमानाय  पुरस्काराय कूवप्पटि स्वदेशी के.सुतः अर्हति।
     संस्कृतपण्डितः अद्वैतवेदान्ताचार्यः सर्वोपरि सामाजिकपरिष्कर्ता स्वामी आगमानन्दः स्वजीवनं संस्कृतभाषायाः प्रचारणाय पोषणाय तथा अधःस्थितवर्गाणां समुद्धरणाय च समर्पितवान् आसीत्। तस्य स्मरणार्थं रूपवत्कृतया आगमानन्दस्मारकसमित्या प्रतिसंवत्सरं एकैकस्मै दलितक्षेमप्रवर्तकाय संस्कृतप्रचारकाय च पुरस्कारः दीयते।
   अस्य संवत्सरस्य पुरस्कारजेता अय्यम्पुष़ा हरिकुमारः एरणाकुलं तेवरा सेन्ट् मेरीस् यू.पि.एस् विद्यालये संस्कृताध्यापक अस्ति। आकाशवाण्याः ए-ग्रेड् कलाकाररूपेण विद्यमानः अयं  २५ संवत्सराणि यावत् संस्कृते कैरल्यां च  गानरचना नाटकनिदेशः इत्यादिषु विलसन्नयं केरल शैक्षिकविभागस्य संस्कृतप्रयुक्तिपुरुषेषु अन्यतमः अस्ति। एकस्मात् संवत्सरात् पूर्वम् आरब्धायां सम्प्रतिवार्तायां छात्राणां वार्तावतरणमपि आयोज्य संस्कृतानुरागिणां प्रशंसापात्रमभवच्च।
   आगस्त् मासस्य २२तमदिनाङ्के कालट्याम् आयोज्यमाने सम्मेलने पुरस्कारसमर्पणं भविष्यति। पुरस्कारप्रख्यापनवेलायां समित्याः अध्यक्षः के एस् आर् पणिक्करः, कार्यकर्ता के एन् चन्द्रप्रकाशः, प्रोफ. पि.वि.पीताम्बरः इत्यादयः सन्निहिताः आसन्।

 काश्मीर् संघर्षः- राष्ट्रियपरिहारः एव आवश्यकः।
   नवदहली > जम्मुकाश्मीरे जायमानानां संघर्षाणां परिहाराय राष्ट्रियचर्चा आवश्यकी इति काश्मीरस्य प्रतिपक्षदलम्। एतत् अभ्यर्थ्य काश्मीरस्य भूतपूर्वमुख्यसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे २० प्रतिपक्षनेतार: राष्ट्रपतिं प्रणब्मुखर्जीमहोदयम् अमिलन्। काश्मीरसंघर्षेषु राष्ट्रियस्वरूपमस्ति इति निर्णयाय केन्द्रसर्वकारः अशक्तः जातः इति प्रतिपक्षदलेन उक्तम्। विना विलम्बमेव राष्ट्रियचर्चायै केन्द्रसर्वकारः सन्नद्ध: भवतु इत्यपि प्रतिपक्षदलेन अभ्यर्थितम्।

रिसर्व् बाङ्क् कृते नूतनः अध्यक्षः।
  नवदहली > कालावधिं पूर्तीक्रियमाणस्य रघुरामराजस्य स्थाने रिसर्व्  बाड्क् कृते नूतनः अध्यक्षः। आर् बि ऐ उपाध्यक्षः डा. उर्जित् पटेलः एव नूतनः अध्यक्षः। ५२ वयस्कः सः वाणिज्यवित्तकोशविदग्धः भवति। अस्य नियमनाङ्गीकारः मन्त्रिसभायाः नियमनसमित्‍या कृतः वर्तते। सप्तंबर् ४ तः वर्षत्रयात्मकं कालम् उर्जित् पटेलः आर् बि ऐ अध्यक्षस्थानम् अलङ्करिष्यति। येल् विश्वविद्यालयतः आर्थिकशास्त्रे शोधकार्यबिरुदं सम्पादितः एषः महोदयः रघुरामराजस्य विश्वस्तः इत्येव व्यवह्रियते।

रियो ओलिम्पिक्स्- पादकन्दुकक्रीडा सुवर्णपतकं ब्रसील् कृते। 
              रियो डि जनीरो > मधुरप्रतिकारेण जर्मनीदलं पराजित्य ब्रसील् दलेन रियो ओलिम्पिक्स् मध्ये सुवर्णपतकं प्राप्तम्। अन्तिमक्रीडायां षूटौट् मध्ये ५-४ इत्यनुपाते ब्रसील् दलेन जर्मनीदलं पराजितम्।षूटौट् मध्ये ब्रसील् कृते अन्तिमावसरे नेय्मरेण लक्ष्यं प्राप्तम्। निश्चिते समये द्वाभ्यामपि दलाभ्याम् एकैकं लक्ष्यं प्राप्तमासीत्। गते विश्वचषकानुक्रमणे जर्मनीदलेन ब्रसील् दलं पराजितमासीत्। विजयेनानेन ब्रसील् दलं मधुरं प्रतिकारमपि अकरोत्।

रष्या भारतस्य विश्वस्तसुहृद् - प्रधानमन्त्री। 
नवदहली > रष्या सर्वदा भारतस्य विश्वस्तसुहृद् भवति इति प्रधानमन्त्री नरेन्द्रमोदी। रष्यया सह भारतस्य बान्धवः विश्वासपूर्णः एव, कालः अस्य बान्धवस्य साक्षी भवति - प्रधानमन्त्रिणा उक्तम्। रष्यायाः उपप्रधानमन्त्रिणे दिमित्री रोगोस् महोदयाय नवदहल्यां सज्जीकृते स्वीकरणसमारोहे एव प्रधानमन्त्रिणा एतत् अभिप्रेतम्। रष्यया सह उभयपक्षबान्धवं प्रबलीकर्तुं भारतं सर्वदा सन्नद्धमेव इति रष्यायाः राष्ट्रपतये अर्पिते सन्देशे प्रधानमन्त्रिणा सूचितम्।

Saturday, August 20, 2016

रजतशोभायां भारतम्।
रियो डि > ओलिम्पिक्स् मेलायां वनितानां पिच्छकन्दुकक्रीडायाः अन्तिमे चरणे भारतस्य पि वि सिन्धुवर्यायै रजतपतकम्। क्रीडात्रयपर्यन्तम् अनुवर्तिते अन्तिमे चरणे  स्पेयिन् देशीयां करोलिना मारिनां प्रति तृतीयायां क्रीडायां पराजयं प्राप्य द्वितीयस्थानं लब्धवती।




आनन्दसिन्धौ भारतम्।
कोच्ची >सुवर्णपतकं नष्टेभूतमपि पि वि सिन्धोः अभूतपूर्वविजये भारतीयाः आनन्दतुन्दिलाः वर्तन्ते। नानाकोणेभ्यः अभिनन्दनानि प्रवहन्ति।
    रियो ओलिम्पिक्स् मध्ये ह्यः प्रवृत्ते वनितानां पिच्छकन्दुकस्पर्धायाः - बाड्मिन्टन् - अत्यन्तं रोमाञ्चजनके अन्तिमचरणे तृतीयक्रीडा विनष्टा अपि विश्वस्य प्रथम स्थानीयां करोलिना मरीनां प्रति पराभवेन प्राप्तं  रजतपतकं सुवर्णशोभामतिक्रामति।
   पिच्छकन्दुकक्रीडायां प्राप्तपतका प्रथम वनिता भवति पि वि सिन्धू। तथा ओलम्पिक पतकप्राप्ता पञ्चमवनिता च। भारतस्य प्रधानमंत्री नरेन्द्रमोदी , राष्ट्रपतिः प्रणाब् कुमार् मुखर्जी, क्रिकेट इतिहासः सच्चिन् , अनेके राजनैतिकनेतारः, कायिकमण्डलप्रमुखाश्च अभिनन्दनानि प्रकाशितवन्तः।