नेपाल प्रलयः - तिरोभूताः २१३ भारतीयाः मृताः इति उद्घोषयिष्यन्ते।
काठ्मण्डुः> ओगस्ट् २६ तमे दिनाङ्के नेपाले त्रिशूलि-भोटेकोशि नदीतटे दुरापन्ने प्रलये तिरोभूतान् २१३ भारतीयान् औद्योगिकरेखासु मृताः इति सूचयितुं प्रक्रमाः नेपालप्रशासनेन आरब्धाः।
१९ राष्ट्रेभ्यः प्राप्तवतः ६२३ विदेशीयान् अभिव्याप्य ३९१५ जनानामावलिः सर्वकारस्य देशीय दुरन्त निवारणसंस्थया प्रकाशिता। निवेदनावेदनानां परिहारानन्तरं आधिकारिकं प्रख्यापनं भविष्यति।