पलास्तिकविमुक्तकेरलाय   उच्चन्यायालयस्य आदेशः। 
पर्वतसमीपवर्तिषु विनोदपर्यटनकेन्द्रेषु आराज्यं विवाहकार्यक्रमेषु च पलास्तिकवस्तूनि निरुद्धानि। 
आदेशः गान्धिजयन्तिदिनात् प्रवृत्तिपथमानेतव्यः। 
कोच्ची> केरलराज्यमशेषं वैवाहिककार्यक्रमेषु तथा  मून्नार् अभिव्याप्य सर्वेषु पर्वतोपान्तविनोदपर्यटनकेन्द्रेषु  च एकवारम् उपयुज्यमानानि पलास्तिकवस्तूनि निरुध्य उच्चन्यायालयेन आदेशः विज्ञापितः। अस्मिन् वर्षे महात्मागान्धिनः जन्मदिनादारभ्य [ओक्टोबर् २] आदेशं प्रवृत्तिपथमानेतुं प्रक्रमाः स्वीकर्तव्याः इति न्यायाधीशौ बच्चु कुर्यन् तोमसः, पि गोपिनाथः इत्येतयोः नीतिपीठः राज्यस्य  कार्यदर्शिमुख्यं [Chief Secretary] तद्देशशासनविभागस्य कार्यदर्शिनं च प्रति निरदिशत्। 
  अधोनिर्दिष्टानामेव निरोधः आदिष्टः। 
+ऊनपञ्चलिटर् मितानां पलास्तिककूप्यः। 
+ ऊनद्विलिटर् मितानां शीतलपानीयानां पलास्तिककूप्यः।
+ पलास्तिकपलालानि [straws], स्थालिका,चषकः। 
+ भोज्यभाण्डाय उपयुज्यमानानि पलास्तिकोत्पन्नानि इत्यादीनि। 
 स्वच्छं वातावरणसम्पादनम् अस्माकं अनन्यप्रापणत्वेऽपि प्रथमाप्यम् इत्येतद्दृढीकरणं सर्वेषां कर्तव्यम् इत्यपि नीतिपीठेन स्मारितम् ।