OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 15, 2025

 तृतीया निकषस्पर्धा भारतात् विनष्टा। 

अग्रेसराणामालस्यस्य स्थाने कृतः पृष्ठगामिनां प्रयत्नोSपि विफलः। 

लोर्ड्स्> एकैकं कन्दुकमपि पक्षद्वयाय अमृततुल्यं मूल्यवदासीत्। इङ्गलण्टेन सम्मानितस्य १९३ इति विजयलक्ष्यस्य सार्थकाय अग्रेसरताडकानाम् अलसतया रविवासरे ५८/४ इति प्राप्ताङ्कसूचिका भारतेन प्राप्ता आसीत्। ततः ह्यः अष्टसु क्षेपणचक्रेषु त्रयः ताडकाः अपि बहिर्गत्वा ८२/७ इति परितापकरीम् अवस्थाम् अपतत्। अनेन पराजयः सुनिश्चितः। किन्तु ततः पुच्छस्थितैः  ताडकैः रक्षाप्रवर्तनमारब्धम्। रवीन्द्र जडेजः तस्य नेतृत्वमवहत्। सः १८१ कन्दुकेभ्यः ६१ धावनाङ्कैः अपराजितः जातः। निधीशकुमार रड्डिः  [५३ कन्दुकैः १३ धावनाङ्काः], जस्प्रीत बुम्रा (५४/५), मुहम्मद सिराजः (३०/४) इत्येवंप्रकारेण सहयोगं कृतवन्तः। किन्तु ७६ तमे क्षेपणचक्रे इङ्गलण्डदलीयस्य षोयिब् बषीर् इत्यस्य 'ओफ् स्पिन्' कन्दुकं सिराजेन प्रतिरुद्धमपि भ्रमणं कृत्वा द्वारकमपातयत्। सिराजस्य द्वारकपतनेन भारतस्यापि पतनं सम्पूर्णमभवत्। २२ धावनाङ्कानां न्यूनत्वे एव पराजयः!

  प्राप्ताङ्कसूचिका - इङ्गलण्डः ३८७, १९२। भारतं ३८७, १७०। अनेन पञ्चप्रकरणात्मिकायां परम्परायाम्  इङ्गलण्डः २-१ इति अग्रे अस्ति।

 शुभाशुः ससंघम् अद्य प्रत्यागमिष्यति। 

शुभांशुः सहयात्रिकाश्च ग्रेय्स् इत्यस्मिन् पेटके प्रतिनिवर्तनवेलायाम्। 

  नवदिल्ली> नासायाः बहिराकाशनिलये १८ दिनानि यावत् परीक्षणनिरीक्षणानि समाप्य भारतस्य बहिराकाशसञ्चारी शुभांशु शुक्लः त्रिभिः संघाङ्गैः सह सोमवासरे पृथ्विं प्रतिनिवर्तनयात्रां समारभत। आक्सियं - ४ इति दौत्यस्य 'ग्रेय्स्' इति पेटकं ह्यः सायं ४. ४५ वादने [भारतीयसमयः] बहिराकाशनिलयेन सह बन्धं विच्छिद्य भूमिं प्रति यात्रा आरभत। 

  अद्य अपराह्ने त्रिवादने कालिफोर्णियायां शान्तसमुद्रे पेटकम् अवतरिष्यतीति प्रतीक्षते। अवतरणानन्तरं  भूमेः गुरुत्वाकर्षणेन सह समीकर्तुं सप्ताहं यावत् तेभ्यः एकान्तवासः विहितः।

Monday, July 14, 2025

 पाकिस्थाने रामायणं नाटकरूपेण प्रस्तुतम्। 

पाकिस्थाने प्रस्तुतस्य  रामायणनाटकस्य दृश्यानि। 

कराच्ची> पाकिस्थाने  रामायणं नाटकरूपेण प्रस्तूय प्रेक्षकाणां अभिनन्दनानि स्वीकृतानि। कराची आर्ट्स् कौण्सिल् इत्यत्र 'मौज्' नामकेन नाटकसंघेनैव नाटकं प्रस्तुतम्। कृतकबुद्धेः साह्यमपि उपयुज्य प्रस्तुतं नाटकं कला-चलच्चित्रनिरूपकैः अभिनन्दितम्। 

  नाटकस्य नाम्नि अतृप्तिः भीषा वा नाजायत इति नाटकस्य निदेशकः योहेश्वर करेरा इत्येषः अवोचत्। राणा कास्मी इत्येषा अस्ति नाटकस्य निर्मात्री। नाटके सीतावेषः तया एव कृतः।

 राज्यसभां प्रति चतुर्णां नामानि निर्दिष्टानि। 

नवदिल्ली> आराष्ट्रं समाजे विविधक्षेत्रेषु सेवां कुर्वन्तः चत्वारः राष्ट्रपतिना राज्यसभां प्रति निर्दिष्टाः। 

  भूतपूर्वः विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः, मुम्बई भीकराक्रमणप्रकरणे सर्वकारस्य नीतिज्ञरूपेण [Public prosecutor] उपस्थितवान् उज्वल निकमः, दिल्लीस्था चित्रकारी मीनाक्षी जेय्नः, कृतकपादयोः साह्येन  केरले समाजसेवया अध्यापनवृत्या च वरिष्ठत्वं प्राप्तवान् कण्णूर् प्रदेशीयः सि सदानन्दः इत्येते चत्वारः एव राज्यसभासदस्यरूपेण आमान्यमानाः।

Sunday, July 13, 2025

 भारतेङ्गलण्टयोः प्रथमचरणे कौतुकपूर्वसमाप्तिः। 

भारतमपि ३८७ धावनाङ्कैः बहिर्नीतम्। 

के एल् राहुलाय शतकम्।

लोर्ड्स्> भारतेङ्गलण्टयोः तृतीयनिकषस्पर्धायाः प्रथमचरणस्य कौतुकोपेतसमाप्तिः। प्रथमं कन्दुकताडनं कृतवति इङ्लण्टदले ३८७ धावनाङ्कैः बहिर्नीते अनुताडनं कृतवान् भारतदलोSपि ३८७ धावनाङ्कैः बहिर्गतवान्। 

  भारतस्य ताडकेषु के एल् राहुलः शतकं प्राप्तवान्। १०० धावनाङ्कान् सः सम्पादयामास। तं विना ऋषभपन्तः [७४] रवीन्द्र जडेजः च ताडनक्रियायां शशुभतुः।

 दिल्ल्यां बहुस्तरीयभवनं प्रभञ्ज्य षट् मरणानि। 

नवदिल्ली> उत्तरपूर्वदिल्ल्यां चतुस्तरीयः भवनसमुच्चयः प्रभञ्ज्य षट् जनाः मृत्युमुपगताः। अष्ट जनाः आहताः। मृतेषु चत्वारः एकपरिवारीयाः भवन्ति। 

   वेल्कं जे जे क्षेत्रे शनिवासरे उषसि सप्तवादने आसीत् दुर्घटना। भवनस्य स्वामी, पत्नी, तयोः अपत्यद्वयं, इतरौ द्वौ वासकौ - एवं षट् जनाः मृत्युमुपगताः।

 अहम्मदाबाद विमानदुर्घटना 

प्राथमिकम् आवेदनपत्रं बहिरागतम्। 

उड्डयनात्परं इन्धनवितरणपिञ्जः अपगतः। 


नवदिल्ली> अतीते जूण् १२ तमे दिनाङ्के अहम्मदाबादे उड्डयनवेलायां भग्नस्य एयरिन्डिया बोयिंग्   विमानस्य 'एञ्जिनं' [Engine] प्रति इन्धनदायकपिञ्जद्वयं प्रवर्तनरहितमासीत् [switched off] इति प्राथमिके अनुसन्धानावेदनपत्रे सूच्यते।  उड्डयनानन्तरं कतिपयसेकन्ड् समयावधौ सेकन्ड्द्वयस्य आभ्यन्तरे पिञ्जद्वयमपि अपगतं, तत्तु विमानचालकयोर्मध्ये सम्भ्रमस्य कारणमभवदिति च आवेदनपत्रे सूचितम्। विमानस्य 'ब्लाक् बोक्स्' इत्यस्मिन् विद्यमानानां सूचकानां विशकलनानन्तरमेव इदं आवेदनं सज्जीकृतम्।

 इगा स्विया टेक् विम्बल्डण् महिलाकिरीटं प्राप्तवती। 


लण्टनं> महिलानां विम्बिल्डण् लानक्रीडाकिरीटं [Tennis] पोलण्ट् देशीया इगा स्विया टेक् प्राप्तवती। अन्तिमस्पर्धायां प्रतिद्वन्द्विनी अमेरिकायाः अमन्डा अनिसिमोवा इत्यस्यै एकामपि क्रीडामदत्वा आसीत् इगायाः अपूर्वविजयः - [६-०, ६-०]। 

  पुरुषाणां विम्बिल्डण् अन्तिमप्रतिद्वन्द्वः अद्य सम्पत्स्यते। फ्रञ्च् ओपण् अन्तिमस्पर्धायाः क्रीडकौ यानिक् सिन्नर् , कार्लोस् अल्करासः च प्रतिद्वन्दिनौ।

Saturday, July 12, 2025

 ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री स्ववृत्तिं पुनःप्रविष्टः। 

ऋषि सुनकः। 

लण्टनं> ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री ऋषि सुनकः पूर्वं भूतां वित्तकोशवृत्तिं पुनःप्रविष्टवान्। यू एस् राष्ट्रम्  आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इति वित्तकोशालये [Bank] वरिष्ठोपदेशकरूपेण वृत्तिं पुनःप्राविशत्।

  राजनैतिकसेवाम् आरब्धात् पूर्वम् ऋषि सुनकः यू एस् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इत्यत्र 'अनलिस्ट्' पदीयः सन् वृत्तिं कृतवानासीत्। निर्वाचने पराभूय वर्षैकानन्तरमेव सः वृत्तिं प्रत्यागच्छति। 

  ब्रिटनस्य नियमानुसारं प्रशासनकाराः स्थानत्यागानन्तरं वर्षद्वयाभ्यन्तरे वृत्तिप्रवेशमिच्छन्तः तर्हि तेभ्यः  'बिसिनस् अपोयिन्ट्मेन्ट्स्' [Business appointments] उपदेशकसमित्याः अनुज्ञा आवश्यकी। बह्व्यः व्यवस्थाः परिपाल्य एव सुनकाय अनुज्ञा दत्ता।

 भारत-इङ्गलण्ट निकषस्पर्धा। 

इङ्गलण्टः ३८७, भारतं १४५/३

लोर्ड्स्> भारत-इङ्गलण्टयोः तृतीयनिकषस्पर्धायाः द्वितीयदिने क्रीडासमाप्तौ इङ्गलण्टस्य ३८७ इति धावनाङ्कानां प्रत्युत्तररूपेण भारतेन ताडकत्रयस्य विनष्टे १४५ धावनाङ्कानि प्राप्तानि। 

  प्रथमं कन्दुकताडनं कृतवान् इङ्गलण्टदलः जो रूट् इत्यस्य शतकेन [१०४]जामि स्मित् [५१], ब्रैडन् कार्स् [५६], बेन् स्टोक्स् [४४] इत्येतेषां साह्येनैव ३८७ धावनाङ्कान् सम्प्राप। भारतस्य जस्प्रीत बुम्रः पञ्च ताडकान् बहिर्नीतवान्। मुहम्मद सिराजः, नितीष् कुमार रड्डी इत्येतौ एकैकेन द्वौ द्वारकौ इति सम्प्राप्तवन्तौ। 

  भारतस्य कन्दुकताडने यशस्वी जयस्वालः [१३], करुण नायर् [४०], नायकः शुभमान गिलः [१६] च बहिर्नीताः। के एल् राहुलः [५३*], ऋषभ पन्तः [१९*] च ताडकक्षेत्रमधितिष्ठतः।

Friday, July 11, 2025

 वर्षाकालदुष्प्रभावः

राज्येभ्यः १०६६. ८ कोटि रूप्यकाणि अनुमोदितानि।

नवदिल्ली> प्रलयः भूस्खलनम् इत्यादिवर्षाकालदुष्प्रभावैः क्लेशमनुभूयमानानां राज्याणां कृते १०६६. ८ कोटि रूप्यकाणि केन्द्रप्रशासनेन  अनुमोदितानि। असमः, मणिपुरं, मेघालयः, मिसोरामः, उत्तराखण्डः, केरलम् इत्येतेभ्यः राज्येभ्यः एव  इदमार्थिकसाहाय्यम्।

  असमाय ३७५. ६ कोटि, उत्तराखण्डाय ४५५. ६कोटि रूप्यकाणि अनुमोदितानि। इतरेभ्यः राज्येभ्यः एवंप्रकारेण -  मणिपुरं २९. २कोटि, मेघालयः ३०. ४ कोटि, केरलं १५३. २ कोटि, मिसोरामः २२. ८कोटि रूप्यकाणि।

 क्रिकटे भारतीयमहिलानाम् अपूर्वोपलब्धिः।

टि - २० परम्परां प्राप्तवतः भारतीयमहिलादलस्य आह्लादः। 
 

इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः।

माञ्चेस्टर्> इङ्लण्टं विरुध्य टि - २० क्रिकट्परम्परायाः चतुर्थः प्रतिद्वन्द्वः यदा भारतेन विजितः तदा हर्मन् प्रीतकौर् इत्यस्याः नायिकात्वे भारतीयदलेन ऐतिहासिकविजयः स्वायत्तीकृतः। ऐदंप्राथम्येन इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः (३-१)। गतदिने सम्पन्ने चतुर्थे प्रतिद्वन्द्वे भारतस्य षट् द्वारकाणां विजयः। 

  पञ्चस्पर्धात्मिकायां परम्परायां तिस्रः स्पर्धाः भारतेन विजिताः,  एका तु इङ्गलण्टेन च। पञ्चमी स्पर्धा रविवासरे सम्पत्स्यते।

Thursday, July 10, 2025

 'स्टार् लिङ्क्' इत्यस्मै अन्तिमानुज्ञा लब्धा।


 

कोच्चि> भारते उपग्रहाधिष्ठिताम् अन्तर्जालसेवामारब्धुम् इलोण मस्कस्य स्वामित्वे विद्यमानाय 'स्टार् लिङ्क्' इत्यस्मै बहिराकाशविभागस्य अधीशत्वे वर्तमानस्य 'इन्हें स्पेस्' संस्थायाः अनुज्ञा लब्धा। अनया सर्वप्रकारैः अनुज्ञाः अपि स्टार् लिङ्केन प्राप्ताः।

 नरेन्द्रमोदिना नमीबिया सन्द्रष्टा। 

तत्रत्येन परमोन्नतनागरिकपुरस्कारेण अनुगृृहीतः।

नमीबियायाः परमोच्चपुरस्कारः मोदिना स्वीक्रियते। 

विन्डूक्> पञ्चराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने दक्षिणाफ्रिकीयराष्ट्रं, नमीबियानामकं सन्दृष्टवान्। भारतेन बहुगरिमया कल्प्यमानं विश्वस्थं सहयोगराष्ट्रं भवति नमीबिया इति मोदिवर्यः प्रस्तुतवान्। 

  राष्ट्रस्य परमोन्नतः नागरिकपुरस्कारः Order of the most Ancient welwitschia Mirabils' नामकः राष्ट्रपतिना नेतुम्बो नन्डि -एन्डै त्वाहुर् इत्यनेन मोदिने प्रदत्तः। नमीबियां सम्पश्यन् तृतीयः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।

 उष्णतरङ्गः

यूरोपे दशदिनाभ्यन्तरे २३००  मरणानि। 

कोपन् हेगन्> जूलाय् द्वितीयदिनाङ्कं यावत्सु दशदिनेषु यूरोपभूखण्डे जाते  अत्युष्णतरङ्गे २३०० जनाः मृत्युमुपगताः इति पर्यावरणशास्त्रज्ञाः। लण्टनस्थः 'इम्पीरियल् कलालयः', London school of hygiene and tropical medicine  नामिका संस्था च युगपत् कृते अनुसन्धाने अस्त्ययमधिगमः। 

  १२ नगरेषु एव एतावन्ति  मरणानि दुरापन्नानि। स्पेयिने तापमानं ४० डिग्री सेल्ष्यस् पर्यन्तं वर्धितम्। फ्रान्से अरण्याग्निरभवत्। बार्सिलोना, मड्रिड्, लण्टनं, मिलान् इत्यादिषु नगरेषु उष्णतरङ्गसमये सामान्यकालादधिकतया चतुर्डिग्री सेल्ष्यस् यावत् तापमानमुन्नीतम्। अतः प्रस्तुतेषु दशदिनेषु जातानि मरणानि विशकलनं कृत्वा उष्णतरङ्गमेव कारणमिति प्रत्यभिज्ञातम्।

 वडोदरायां सेतुः विशीर्य ११ मरणानि।

वाहनानि नदीं अपतन्। 

विशीर्णः सेतुः, रक्षाप्रवर्तनं च। 

वडोदरा> गुजरातराज्ये वडोदरायां मुजपुरमित्यत्र ४० वर्षाणां पुरातनत्वं कल्प्यमानः 'गम्भीरा सेतुः' विशीर्य महिसागरनदीं पपात। षट् वाहनानि नदीं पतित्वा वाहनान्तर्भूताः ११ जनाः मृताः। सेतोः मध्यभागस्थः १५ मीटर्मितं दीर्घोपेतः अंशः एव भग्नः। 

  मुजपुरं आनन्दजनपदस्थां 'गम्भीरां' च मिथः सम्बध्यमानस्य सेतोरस्य ९०० मीटर दीर्घः ४० मीटर मितम् उन्नतिश्चास्ति। गम्भीरासेतोः शक्तिक्षयमधिकृत्य पूर्वसूचनाः दत्ताः आसन्। अन्वेषणाय मुख्यमन्त्रिणा भूपेन्द्र पटेलेन षडङ्गोपेता समितिः नियुक्ता।

Wednesday, July 9, 2025

 भारतेङ्गलण्टयोः तृतीयनिकषः श्वः। 

लोर्ड्स्> भारतस्य इङ्गलण्टं विरुध्य तृतीया क्रिकट् निकषस्पर्धा गुरुवासरे लोर्ड्स् क्रीडाङ्कणे समारभ्यते। अत्र क्षिप्यक्षेत्रं [Pitch] 'पेस्' तथा 'बौण्स्' [bounce] इत्याख्ययोः अनुकूलं भवेदिति सूच्यते। 

  लोर्ड्स् क्रीडाङ्कणे आहत्य क्रीडितासु १९ क्रीडासु ३ विजयाः, १२ पराजयाः,४ समस्थितयः - एवमस्ति भारतस्य सूचिका। इदानीं पञ्चसंख्याके प्रतिद्वन्द्वे १ - १इति उभयदलमपि समस्थितिं पालयति।

 भारतेन सह व्यापारसन्धिम् उपगच्छतीति ट्रम्पः। 

न्यूयोर्क्> भारतेन सह प्रचाल्यमानं व्यापार-वाणिज्यकरविषयकसन्धिः विज्ञप्तिप्रायमस्तीति यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः अवदत्। गतदिने १४ राष्ट्राणां विभिन्नमानेन आयातकरं विधाय अनन्तरमासीत् ट्रम्पस्य प्रस्तावः। 

  बङ्गलादेशः, बोस्निया, कम्बोडिया, इन्डोनेष्या, जपानं, मलेष्या, दक्षिणाफ्रिका इत्यादिनां १४ राष्ट्राणामुपरि २५% तः ४०% पर्यन्तं प्रतिराष्ट्रं विभिन्नस्तरेषु अस्ति आयातकरविधानम्।