भारते वाणिज्यपाकेन्धनमूल्यं न्यूनीकृतम्।
कोच्ची> राष्ट्रे वाणिज्यापेक्षितानां एल् पि जि पाकेन्धनकोशस्य मूल्ये ३६ रूप्यकाणां न्यूनता कृता। अनेन कोच्चिनगरे १९ किलोपरिमितस्य पाकेन्धनगोलस्य मूल्यं १९९१ जातम्। पूर्वमेतत् २०२७ आसीत्। किन्तु गार्हिकावश्यकाणां कृते उपयुज्यमानानां गोलकानां मूल्ये व्यत्ययः नास्ति। १०६० रूप्यकमूल्यं वर्तते। गतमासे गार्हिक एल् पि जि पाकेन्धनकोशस्य मूल्ये ५० रूप्यकाणां वृद्धिः कारिता आसीत्।

.webp)




.webp)

%20(1).webp)

.webp)

.webp)