OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, August 19, 2016

 इतः परं प्रतीक्षा  सिन्धौ ।
रियो>  रियो ओलिम्पिक्स्  कायिकमामाड़्के  पदकं कस्मिन्नपि विभागे न प्राप्तवतः   भारतस्य प्रतीक्षा  इतोपि न विनष्टा । बाड्मिन्टण् तारं पी वी  सिन्धुः वनिताविभागं सेमि फैनल् मत्सराय स्थानं प्राप्ता इति अस्माकम् आशावहम् ।                        

 दीपायाः जीत्तोश्च खेलरत्ना पुरस्कारः ।।
       रियो> उज्ज्वलप्रकटनैः ओलिम्पिक्स् जिंनास्टिक्स् वोल्ट्  विभागस्य फैनल्मत्सरे चतुर्थस्थानं  प्राप्तवत्याः  दीपा कर्माकरस्य  तथा  ओलिम्प्यन् षूट्टर् जीत्तु रायस्य च खेलरत्ना पुरस्काराय कायिकपुरस्कारनिर्णयसमित्या  निर्देशः दत्तः । गुरुवासरे एव एतस्य प्रख्यापनं भविष्यति ।

Thursday, August 18, 2016

चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया
Hon. Education Minister, Prof. C Revindranath Introduce LP School Students For Sanskrit Newsreading
 लखनऊ विश्वविद्यालये संस्कृतविभागे संस्कृतसप्ताह: आयोजित:।
संस्कृत सप्ताहमवलम्ब्य संस्कृतभारती अवधप्रान्तः तथा लखनऊ विश्वविद्यालयस्य संयुक्ततत्वावधाने विश्वविद्यालयस्य संस्कृतविभागे संस्कृतसप्ताह: सहर्षेणायोजित: | आयोजने वाद-विवाद प्रतियोगिताया: आयोजनं सम्पन्नम् | प्रतियोगितायां असंख्याका: विद्यार्थिन: भागं गृहीतवन्त: | तेभ्यः पुरस्कारः प्रमाणपत्रञ्च प्रदत्तः । ‘संस्कृत शिक्षाया:प्रासंगिकतेति’ विषयमनुसृत्य छात्रै: पक्षविपक्षयो: स्वविचारा: प्रस्तुता: | तत हि  पूर्वविभागाध्यक्षाणां प्रो. बृजेश कुमार शुक्ल महोदयानाम् आशीर्वचांसि छात्राणां कृते लाभप्रद: संजातानि | वर्तमानै: विभागाध्यक्षै: प्रो. रामसुमेर यादवै: संस्कृतसम्भाषणाय प्रेरणा प्रदत्ता | प्रतियोगिताया: निर्णायकरूपेण विभागीया: डॉ. प्रयागनारायण मिश्र महाभागा:, भारतीय विद्याभवनस्य प्राध्यापिका: डॉ. अनुभा वाजपेयी महाभागा: आस्ताम् | कार्यक्रमस्य संचालनं डॉ. अशोक कुमार शतपथी महोदयेन विहितम् | उ.प्र. संस्कृत संस्थानस्य प्रशासनिकाधिकारिभिः डॉ. जगदानन्द झा महाभागै:स्वागतसम्बोधनं एवञ्च शोधाध्येतृभि: डॉ. कुलदीपक शुक्लैः,अनिल कुमार महाभागै:, अरुण कुमार निषाद महाभागै:, रोशन सिंह महाभागै:व्यवस्था सम्पादिता | कार्यक्रमे ऽस्मिन् डॉ. अभिमन्यु सिंह, डॉ. पत्रिका जैन, डॉ.श्यामलेश, डॉ. नेहा खरे, डॉ. सन्तप्रकाशादय: विभागै: छात्रै: साकमेवोपस्थिता: आसन् |

 चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।
 संस्कृतभारती अवधप्रान्तः द्वारा 17 अगस्त 2006 तमे दिनांके आर. एस. एस. एकेडमी, कृष्णा नगर, लखनऊ विद्यालये चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।  प्रतियोगितायां प्रायः 70 छात्राः भागं गृहीतवत्यः । करतलोपरि मेधिनीकला निर्मीय तत्र वदतु संस्कृतम् जैसे वाक्यं लेखनीयमासीत् । चित्रकलायाः पूर्णं विवरणं प्रतिभागिन्यैः लेखनीयमासीत् । रक्षाबंधात् प्राक् निर्मितैषा कला भ्रातृन् वदतु संस्कृतम् इति संदेशं दास्यति। अस्याः परिकल्पना डॉ. सरिता श्रीवास्तव जगदानन्द झा मिलित्वा कृतवन्तौ ।

 संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्।
कानपुरम्> १६अगस्तम्। संस्कृतसप्ताहस्य प्रथमदिवसे  कानपुरस्थे विक्रमाजीत-सिंहसनातनधर्म- महाविद्यालये संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्। उल्लेखनीयं यत् संस्कृतस्य प्रचार-प्रसाराय राष्ट्रियसंस्कृत संस्थानस्य योजनान्तर्गतं चिते केन्द्रेऽस्मिन् संस्थानद्वारा शिक्षकरूपेण सवृत्तिनियुक्ति: क्रियते।           कार्यक्रमे अध्यक्षतां निर्वहन् डॉ. शिवबालकद्विवेद: जीवने संस्कृताध्ययनस्य आवश्यकतां सविस्तरं प्रतिपादितवान्। मुख्यातिथि: मातृस्थानम् इति कानपुरस्य प्रतिनिधि-मासिक-पत्रिकाया: सम्पादक: अनूपशुक्लमहोदय: कानपुरे संस्कृतस्य गौरवशालीतिहासस्य सन्दर्भोल्लैखै: अवागमयत्। महाविद्यालयस्य उपप्राचार्या डॉ. सुप्रिया शुक्ला स्वस्य सम्बोधने उक्तवती यत्संस्कृतं विना अस्माकं परिचय: एव न दातुं शक्यते।                   कार्यक्रमे विभागीयशिक्षका: छात्रा: गणमान्या: अतिथय: उपस्थिता: आसन्। उद्घाटनसमारोहस्य अन्तिमचरणे संस्थानेन नियुक्ता केन्द्रशिक्षिका श्रीमती रेनूसिंह विधिवद् अध्यापनम् आरब्धवती।

 उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।
 लखनऊ 17 अगस्त। संस्कृतदिवसस्य पूर्वदिने उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।उद्घाटने मुख्यातिथिः डॉ. महानन्द झा, विशिष्टातिथिः प्रो. आजाद मिश्रः आसन् । डाॅ. झा विधिहीनमसृष्टन्नमिति गीतायाः उद्धरणं प्रस्तुवन् उक्तवान् यत् अदक्षिणमिति पदे अल्पार्थवाची नञ् समासः अस्ति । कर्मकांडप्रशिक्षकेण डॉ. अंजनी मिश्रेण विषयोपस्थापनं विहितम्। अस्मिन्नवसरे 30 प्रशिक्षणार्थिनः स्वकीयं नामांकनं कृत्वा समुपस्थिताः आसन् । कार्यक्रमस्य संचालनं धन्यवादज्ञापनञ्च जगदानन्द झा वर्यैः कृतम् ।

 संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं
संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं २०-दिनांके मासेsस्मिन् रात्रौ सार्ध-नववादने ६६६-किलोहार्ट्ज्-इति राजधानी-वाहिकया प्रसारयिष्यते।

Wednesday, August 17, 2016

संस्कृत दिनस्य अनुबन्धतया श्वः आरभ्य  प्रथम - चत्वार कक्ष्यायाः छात्राणां वार्तावतरणं आरभ्स्यते 
अनन्तपुरी > केरलस्य शिक्षामन्त्री गुरुवर्यः सी.रवीन्द्रनाथ महोदयः वार्तावतरणस्य शुभारम्भे स्वागतं कृत्वा वार्तावतारकान् छात्रान् पुरतः अवतारयिष्यति ॥ विद्यालयेषु प्रभाते संस्कृतदिनमहोत्सवे मन्त्रिणः भाषणं छात्राणां पुरतः प्रदर्श्यते
 रियो ओलिम्पिक्स् : पि.वि. सिन्धू ,श्रीकान्तः च क्वार्टर् मध्ये ।
    रियो डि जनीरो > रियो ओलिम्पिक्स् मध्ये भारतस्य पि.वि.सिन्धू ,श्रीकान्तः च क्वार्टर् फैनल् प्रविष्टौ। बाड्मिन्टण् पुरुषविभागे श्रीकान्तः डेन्मार्क् क्रीडकं यान्‌ यो योर्गेन्सं पराजितवान्। वनिताविभागे पि.वि. सिन्धू चैनायाः ताय् सुयीङिनं च पराजितवती।

 ९२ वर्षपरिमितं रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति।
   नवदहली > आङ्गलशासनकालादारभ्य क्रियमाणं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति। अस्य सम्प्रदायस्य ९२ वर्षाणां पुरातनत्वमस्ति। अधुना एकस्य आर्थिकवर्षस्य सामान्यधनव्ययगणनपत्रिकावतरणात्परं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणपि सर्वकारै: क्रियमाणं वर्तते। अग्रिमवर्षादारभ्य सम्प्रदायोऽयं न भविष्यतीति केन्द्रसर्वकारेण सूचना दत्ता। रेलयानमन्त्रालयस्य प्रवर्तनादिकं केन्द्रधनमन्त्रालयस्य परिधावेव आवश्यकम् इत्येव केन्द्रसर्वकारस्य निर्णयः ।अपि च सामान्यधनव्ययगणनपत्रिकासमर्पणानन्तरं क्रियमाणेन रेलयानधनव्ययगणनपत्रिका समर्पणेन जायमानस्य धनव्ययस्य नियन्त्रणमपि नूतनपरिष्कारेण उद्दिश्यते।

 प्रधानमन्त्रिणः प्रभाषणं निराशाजनकम् - उच्चतरन्यायालयस्य अध्यक्ष:।
  नवदहली > स्वातन्त्र्यदिनसन्देशतया चेङ्‌कोट्टायां प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं प्रभाषणं निराशाजनकमासीदिति उच्चतरन्यायालयस्य अध्यक्षः टि. एस् ठाकूर् महोदयः । प्रभाषणे बहव: विषया: मोदिना परामर्शिताः, किन्तु न्यायाधिपानां नियमनकार्यविषये किमपि न उक्तम्, एतत् निराशाजनकमेव - अध्यक्षेण सूचितम्। न्यायाधिपानां नियमनकार्येषु जायमानः विलम्बः राष्ट्रस्य नीतिन्यायव्यवस्थां प्रतिकूलतया बाधते इत्यपि महोदयेन स्मारितम्। अधुना उच्चन्यायालयेषु न्यायाधिपानां शून्यता अत्यधिका वर्तते इति पूर्वमेव सूचनाः आसन् ।

 नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः।
  नवदहली > पाकिस्थानस्य बलूच्प्रविश्यायां जायमानानां स्वयंभरणप्रक्षोभानां कृते साहाय्यं प्रख्यापितं नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः। ह्यः देहल्याम् स्वातन्त्र्यदिनप्रभाषणे बलूच् प्रक्षोभान् परामर्श्य प्रधानमन्त्रिणा नरेन्द्रमोदिना भाषितमासीत् । बलूचिस्थानप्रविश्यायां जायमानानां मनुष्याधिकारध्वंसनप्रवर्तनानमुपरि भारतस्य शब्दः सर्वदा वर्तते, तत्रत्यैः सङ्घै: क्रियमाणानां स्वतन्त्रताप्रवर्तनानां कृते भारतसर्वकारस्य माध्यमानां च सहयोगः अवश्यं वर्तते इति च प्रधानमन्त्रिणा सूचितम्। प्रधानमन्त्रिणः एतत्परामर्शं प्रति बलूच् रिप्पब्लिकन् दलेन कृतज्ञता अर्पिता च।

Monday, August 15, 2016

झार्खण्डे जलोपप्लवः - अष्ट सेतवः भग्नाः। 
राञ्ची > अतिवृष्ट्या सञ्जाते जलोपप्लवे झार्खण्डराज्ये विविधजनपदेषु अष्टसेतवः भग्नाः अपसृताश्च। चत्राजनपदे जयप्रकाश् नारायण् जलसम्भरण्यां छिद्रः जातः। जलधारा अनुभूता वर्तते।

ऐषमः  राष्ट्रपतिसम्मान-महर्षि-बादरायण-व्यास- सम्मानयोः उद्घोषणा सञ्जाता |

महामहिमराष्ट्रपति: संस्कृतभाषायाः  कृते  सहर्ष सम्मान-प्रमाणपत्रम् एभ्यः प्रदास्यते  तेषु

1. श्री आर. वेंकटरमन:
2. श्री विष्वनाथगोपालकृष्ण:
3. श्री जियालालकम्बोज:
5. डॉ. भवेन्द्रझा
6. प्रो. प्रियतमचन्द्रशास्त्री
7. प्रो. गुरूपाद. के.हेगडे
8. प्रो. एस.टी नगराज:
9. श्री सनातनमिश्र:
10. श्री एस.एल.पि.आज्जनेयशर्मा
11. प्रो. (श्रीमती) लक्ष्मीशर्मा
12. प्रो. विष्वनाथभट्टाचार्य:
13. प्रो. रामानारायणदास:
14. डॉ. रामशङ्करअवस्थी
15. श्री हृदयरंजनशर्मा
16. प्रो. (डॅा.) जानकीप्रसादद्विवेदी सम्मिलिताः सन्ति

संस्कृते अंताराष्ट्रियसम्मानाय श्री फरनांडोतोला प्रचितः |

संस्कृते महर्षिबादरायनव्याससम्मानम्
1. डॉ. महानन्दझा
2. डॉ. सुन्दरनारायणझा
3. डॉ. जि.एस.वि. दत्तात्रेयमूर्ति
4. डॉ. विष्वनाथधितालः
5. डॉ. शंकरराजारमनः

एतेषु प्रदास्यते |
 
ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।    
                 नवदेहल्ली >  125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति । ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्। 
नवदिल्ली - पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।


 भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम् 

भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात् प्रारप्स्यते |

 श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका। 
अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुजरातस्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।

 इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता।
  इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रीयमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् ।द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।

जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  
नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।
संस्कृतदिने अध्यापकानां स्पर्धा
अनन्तपुरी >संस्कृत-दिनाचरणस्य अङ्गतया केरळराज्यस्य शैक्षिक विभागेन  अध्यापकानां कृते चत्वारः स्पर्धा : आयोजिता:। 1कथा रचनायां विषयः प्रत्यागमनम् । २  कवितारचनायां विषय: निरालंबा । 3 समस्या पूरण विषयः पिबाम संस्कारसुधारसं सदा । 4 उपन्यासरचनायां विषय : शिक्षाक्षेत्रे नव माध्यमानां प्रसरः ।  स्पर्धासु ये भागं स्वीकर्तु मिच्छन्ति ते  २३ तमे दिनांके सायं पञ्चवादनात्  पूर्वं रचनाः तिरूवनन्तपुर्यं  DPI कार्यालये पाप्तव्याः॥

संस्कृतसप्ताहाचरणसम्बन्धाः कार्यक्रमाः जनं टीवी मध्ये भविष्यति
सायङ्काले 5.15 तः  5.30/5.45 पर्यन्तम्।
*15.08.2016 - एकपात्राभिनय:  *16.08.2016 - काव्यालापनम्   *17.08.2016 - संवाद:       *18.08.2016 - ह्रस्वचलच्चित्रम्  - अन्नदाता  *19.08.2016 - बालनिकुञ्जम्  *20.08.2016 - डा. पी नन्दकुमारमहोदयेन सह अभिमुखम्  *21.08.2016 - सांस्कृतिककार्यक्रमः।   प्रतिदिनं 5 वादनतः 5.15 वादनपर्यन्तं संस्कृतवार्ता (वार्तासंस्कृतम्) च ।

Sunday, August 14, 2016

ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।
                  नवदिल्ली>125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति। ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्।
नवदिल्ली>पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।

भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम्|
भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात्  प्रारप्स्यते |
 काश्मीर् सङ्घर्षः- स्वाभिमतान्  प्रस्ताव्य प्रधानमन्त्री।
  नवदहली > समीपकाले काश्मीरस्य विविधेषु प्रदेशेषु सञ्जाताः सङ्घर्षाः अन्यं कमपि भारतीयम्‌ इव मामपि दुःखयन्तीति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरसङ्घर्षाणां सन्दर्भे दहल्यां जाते सर्वकक्षियोगे भाषयन् आसीत् मोदी। काश्मीरस्य नेतृभिः जनपक्षतः विश्वासः आर्जनीयः, एतत्तु अत्यन्तापेक्षितः इति मोदी अवदत्। काश्मीरस्य सामूहिकस्थितिः इतोऽपि सङ्घर्षपूर्णा चेत् तत्रत्यानां साधु जनानां जीवनव्यवस्था अतिशोचनीया भविष्यतीति तेन सूचितम्।

बि एस् एन् एल् संस्थायाः रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते।
  नवदहली > बि एस् एन् एल् दूरवाणी उपभोक्तृणां कृते प्रख्यापितं रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते। रविवासरेषु बि एस् एन् एल् दूरवाणीतः सर्वान् सेवनदातृन् प्रति उपयोगाय शुल्कव्यवस्था न भविष्यति। अपि च बि एस् एन् एल् संस्थया दीयमानं रात्रिकालनिशुल्कसेवनम् अनुवर्तयिष्यति इति अधिकृतैः सूचितम्।


 मेसी राष्ट्रान्तरक्रीडां प्रत्यागमिष्यति।
  बूणस् ऐरिस् > अर्जन्टीना क्रीडकः लयणल् मेसी राष्ट्रान्तरपादकन्दुकक्रीडां प्रत्यागमिष्यति। अर्जन्टीना परिशीलकेन एड्गार्डो बौसेन सह स्पेयिन् मध्ये कृतात् अभिमुखभाषणात् परं दत्तायां प्रस्तावनायाम्‌ एव मेसी एतत् असूचयत्। अर्जन्टीनायाः कृते स्वपक्षतः इतोऽपि योगदानं करणीयम् इति इच्छा एव विरामनिर्णयस्य परिवर्तनकारणं इति सः अवदत्। कोपा अमेरिका अन्तिमक्रीडायाः पराजयात्परं तेन विरामप्रख्यापनं कृतमासीत्।

आमसोण् अन्तर्जालव्यापारसङ्घात् 
गोमयः अपि लप्स्यते।

नवदेहली > इ-कोमेर्स् मण्डलस्य प्रमुखेन आमसोण् व्यापारसङ्घेन गोमयव्यापाराय पर्यालोच्यते। गोमयस्य प्राधान्यमङ्गीकृत्य द्वित्राः इ-कोमेर्स् सङ्घाः गोमयव्यापारम् आरब्धवन्तः आसन्। एतेषां मध्ये आमसोण् सङ्घस्य प्रवेशः अन्तर्जालव्यापारमण्डले गोमयव्यापारे नूतनं परिवर्तनं भविष्यति। मण्डलेऽस्मिन्, धेनोः लभ्यमानानाम् उत्पन्नानामेव विपणनं कुर्वतः Gaukranti.org सङ्घस्यैव प्रामुख्यं वर्तते।

 केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे- इ पि जयराजः। 
कोष़िकोट् > केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे एव दातुं सर्वकारपर्यालोचना अस्तीति व्यावसायिकसचिवः इ पि जयराजः। एतदर्थम् आवश्यकं नयरूपीकरणम्‌ अचिरादेव करिष्यतीति मन्त्रिणा सूचितम्‌। व्यावसायिकानुमत्यै उपयुज्यमानम् एकजालकसंविधानं परिवर्त्य सर्वाः अपि अनुमतीः एकमासाभ्यन्तरे पूर्तीकर्तुं नूतनः व्यावसायिकनयः आविष्क्रियते इति तेन उक्तम्।


तीरदेशपालननियमे नव प्रतीक्षायाम् केरलम् ।। 
कोच्ची>तीरदेशपरिपालननियमः  पश्चिमघट्टसंरक्षणनियमः  एतयोः विषययोः केरलानाम् आश्वासहस्तैस्सह केन्द्रसर्वकाराः । मत्स्यबन्धनं कुर्वताम् गुणकरं परिवर्तनं नियमेषु परिगणयेयुः इति केन्द्रवनपरिस्थितिमन्त्रिणा अनिल् माधवदावे महाशयेन उक्तम् । पश्चिमघट्टसंरक्षणाय नूतनसमीपनञ्च आविष्करणीयमिति सर्वकारैः सूचितम् ।

वार्तामुक्तकानि
*विदेशमन्त्रिण्या सुषमास्‍वराजवर्यया  चीनस्य विदेशमन्त्रिणा साकं  परमाण्वापूर्तिकर्त्रृसमूहे भारतस्य सदस्‍यताविषयः  विस्‍तारेण चर्चितः । पाकिस्‍तानस्यावैधतयाधिकृत कश्‍मीरस्य चीन-पाकिस्‍तानार्थिकमार्गस्योपरि भारतेन चिन्‍ता प्रकटिता।
* देशस्य विभिन्नभागेषु तिरंगा इति त्रिवर्णध्वजयात्रा प्रारब्धा । गृहमंत्री राजनाथसिंहः झारखंडे वीर स्‍वतन्त्रतासेनानिने बिरसामुण्‍डाय श्रद्धाजलिस्समर्पितवान् ।
*बलुच् रिप्पब्लिकन् पार्टी इति दलस्याध्‍यक्षः ब्रहमदागबुगती बलुचिस्‍ताने भारतस्य  हस्‍तक्षेपस्याह्वानमकरोत् । तेन पाकिस्‍तानाधिकृतकाश्‍मीरे प्रधानमन्त्रिणः नरेन्‍द्रमोदिनः कृतटिप्‍पण्याः  स्‍वागतम्।

Saturday, August 13, 2016

इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता। 
 इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रियमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् । द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।

 जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।
  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।
सीमायां तालिबान् आक्रमणाय साध्यतेति पाकिस्तान्।
लाहोर्>भारतस्य स्वातन्त्र्यदिनाघोषमनुबन्ध्य वाग-गन्दसिंहसीमायां तालिबानस्य आत्मघात्याक्रमणसाध्यता अस्तीति पाकिस्तानस्य तीव्रवादविरुद्धसेनायाः  जाग्रतासूचना।
    तेहरिक् इ तालिबान् फसलुल्ला नामकस्य भीकरविभागस्य द्वौ आत्मघातिसङ्घाङ्गौ प्रस्तुतप्रविश्यां निलीय प्रविष्टवन्तौ इति सेनावक्त्रा उक्तम्। आगस्त् १३- १५ दिनाङ्काभ्यन्तरे स्यात् आक्रमणमिति सूचना।



राष्ट्रे ९८३ रेलयानालयेषु निरीक्षणचित्रग्राहिण्यः स्थापयिष्यति - केन्द्रसर्वकारः।
 नवदहली > वनितायात्रिकानां सुरक्षायै राष्ट्रे ९८३ रेलयानालयेषु सिसिटिवि चित्रग्राहिण्यः स्थापयिष्यतीति केन्द्रसर्वकारेण राज्यसभायां प्रख्यापितम्। निर्भया धनपद्धतेः साहाय्येनैव पद्धतिरियं संस्थाप्यते इति केन्द्ररेलसहमन्त्री राजेन् होगेयिन् सभायाम् अवदत्। धनसाहाय्यस्य लभ्यताम् अनुसृत्य पद्धतेः व्यापनमपि उद्‌दिश्यते इत्यपि सः अवदत्।

केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य विमर्शनम्।
 नवदहली > केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य दण्डनव्यवहारः रूक्ष विमर्शनं च । राष्ट्रस्य वाहनापघातान् सम्बन्ध्य विशदीकरणं दातुं केन्द्रसर्वकारस्य विलम्ब एव विमर्शनस्य कारणम्I उच्चतरन्यायालयव्यवहार: ग्रामपञ्चायत् व्यवहाराः  इव न द्रष्टव्याः इति उच्चतरन्यायालयाध्यक्षेण टि एस्‌ ठाकुरमहोदयेन स्मारितम्। गतागतमन्त्रालयपक्षतः द्वयोः वर्षयोः विशदीकरणम् एतावता न लब्धम्, एतत् अङ्‌गीकर्तुं नैव शक्यते इति अध्यक्षेण सूचितम्‌।२५००० रूप्यकाणि दण्डनव्यवहाररूपेण   समर्पणीयानि इति न्यायालयेन निर्देश: दत्तः। सप्ताहत्रयाभ्यन्तरे उचितं विशदीकरणं दास्यतीति सर्वकारपक्षतः अट्टोर्णी जनरलेन उच्चतरन्यायालयं प्रति बोधितम्।

 वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः। 
 नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरं निरोधितः वर्तते। वैमानिकाभ्यां गुरुतरःकृत्य विलोपः एव कृतः इति व्योमया नामन्त्रालयः सूचितमासीत् ।

 भ्रष्टाचारविरुद्धप्रवर्तनं विद्यालयादेव आरम्भणीयम् - डो.जेक्कब् तोमसः।
कोच्ची> भ्रष्टाचारान् विरोद्धुं क्रियाविधयः विद्यालयेभ्य एव आरम्भणीय इति केरलस्य दक्षतासंस्थायाः अधिकारी डो. जेक्कब् तोमसेन प्रस्तुतम्। एरणाकुलं सेन्ट् तेरेसास् कलालये आयोजितायां "यूत् फोर् स्वच्छ् आन्ड् सच्चा भारत्" नामिकायाः सङ्गोष्ठ्याः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
केवलबोधवत्करणेन प्रयोजनं न लभते !  भ्रष्टाचाराचरणस्य मानसिकावस्था परोक्षतया अपि विद्यालयतः एव प्रारभते इति तेनोक्तम्। लक्षशः रूप्यकाणि दत्वा अध्यापकवृत्तिं प्रविष्टमानः प्रत्यक्षेषु वर्तमानेषु भ्रष्टाचारेषु निस्सहायः वर्तेत। ईदृशीं निस्संगतां निर्विकारतां च त्यक्त्वा प्रतिकरणशेषिं प्रवर्धेत इत्यस्ति विद्यालयेषु भ्रष्टाचारविरुद्धप्रवर्तनानां मुख्योद्देश्यः इत्यपि जेक्कब् तोमस्वर्येण उक्तम्।

कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयः सूचितमासीत्।
 जम्मु> काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।

Friday, August 12, 2016

साक्कीर् नायिक्कस्य आर्थिकविनिमयम् अन्वेष्टुं मुम्बई आरक्षकाः केरळं प्रति। 
मुम्बई - इस्लामिकधर्मप्रभाषकस्य साक्किर् नायिकः इत्यस्य आर्थिकविनियोगम् अधिकृत्य महाराष्ट्रारक्षकैः अन्वेषणम् आरब्धम्।
  संवत्सरत्रयाभ्यन्तरे नायिक्कस्य संख्या स्थानं प्रति त्रयेभ्यः विदेशराष्ट्रेभ्यः षष्ठिकोटिपरिमितं रूप्यकाणि प्राप्तानीति प्रत्यभिज्ञातम्। विदेशधनं किमर्थमुपयुक्तमिति अन्वेष्टव्यम्। केरलतः अप्रत्यक्षाभ्यां युवाभ्यां नायिक्कस्य ऐ आर् एफ् संस्थया धनसाहाय्यमभवत् इति सन्देहः वर्तते।
   केरलतः प्रस्थितस्य अष्फाख् मजीदस्य बान्धवान् प्रति आशयविनिमयः एव मुम्बई आरक्षकानां सन्दर्शनस्य प्रमुखोद्देश्यः।

आदर्शशालिनः भारतीयाः, केरळाः एव- न्यायाधिपः मार्कण्डेय कट्जू। 
नवदहली > केरलीयेभ्यः न्यायाधिपस्य मार्कण्डेयकट्जू महोदयस्य प्रशंसावचनानि। केरलीयाः एव यथार्थभारतीयाः इति फेय्स् बुक् माध्यमद्वारा महोदयेन लिखितम्‌। यथार्थभारतीयानां प्रतिनिधयः केरलीयाः एव, सर्वानपि अङ्‌गीकर्तुं योग्यं मनः केरलीयानामेव वर्तते इति सः सूचयति। विविधराष्ट्रेभ्यः आगतैः जनैः सम्पूर्णे भारते सर्वानपि एकमनसा स्वागतम् आशंसयन् भावः केरलीयानामेव वर्तते, द्राविडाः, आर्याः, आङ्गलाः, इस्लामधर्मानुयायिनः, क्रैस्तवाः चेति बहूनां वैदेशिकानाम्‌ आगमनं भारतस्य अन्यान् प्रदेशान् अपेक्ष्य केरलान् प्रत्येव आसीदिति सः स्वलेखने सूचयति। के उत्तमाः भारतीयाः? इति फेय्स् बुक् मध्ये स्वयमेव प्रश्नमवतार्य लेखनं कुर्वन्नासीत् कट्जू महोदयः।
 स्वातन्त्र्यदिने श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका।

  अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुर्जर स्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।


 रियो ओलिम्पिक्स्- भारतस्य कृते जयपराजययोः दिनम्।
  रियो डी जनीरो > रियो ओलिम्पिक्स् मध्ये षष्ठं दिनं भारतस्य कृते जयपराजययोः दिनम्। बाड्मिण्डन् मध्ये पि वि सिन्धू स्वप्रथमस्पर्धायां जयं प्राप्तवती। किन्तु पुरुषाणां बाड्मिण्डन् द्वन्द्वस्पर्धायां भारतसङ्घः पराजितः। पुरुष-वनिताटेन्नीस् स्पर्धायां बोप्पण्णा-सानिया सख्येन विजयः प्राप्तः।धनुर्विद्यास्पर्धायां दीपिका कुमारी, बोम्बैला देवी च निष्कासिते। मुष्टियुद्धस्पर्धायां भारतस्य पराजयः एव। होलण्ट्सङ्घेन सह होकी स्पर्धायामपि भारतसङ्घः पराजितः।

उत्तरप्रदेशस्य गाजियाबादजनपदे गतरात्रौ भाजपानेतुः  ब्रजपालतेवतियावर्यस्योपरि गोलिकाप्रहारः
गोलिकाप्रहारेण ब्रजपालः तस्य सुरक्षाकर्मी च व्रणितौ, उभौ गभीरस्थितिमवाप्तौ | प्रकरणेsस्मिन् सप्तजनाः व्रणिताः ३ इति संसूच्यते| सम्प्रति नोएडायां फोर्टिस चिकित्सालये उभाभ्यामुपचारः सम्प्रचलति |
  ध्यातव्यमिदं यत्  ब्रजपाल तेवतिया भारतीयजनतापार्टीतिदलस्य वरिष्ठ नेता वर्तते , असौ 2012 तमे वर्षे  मुरादनगरविधानसभातः निर्वाचने भाजपायाः प्रातिनिध्यं कृतवान् |


कस्तूरिरङ्गन् रेखाः - आशङ्कां निवारयिष्यतीति प्रधानमन्त्री।
 नवदहली > कस्तूरिरङ्गन् रेखामधिकृत्य जायमानाः आशङ्काः निवारयितुम् आवश्यकः व्यवहारः स्वीक्रियते इति प्रधानमन्त्री। केरलीयान् क्रैस्तवसभानेतृन् प्रत्येव प्रधानमन्त्रिणा एवं सूचितम्। न्यायालयपक्षतः जायमानः विरोधः तथा सन्नद्धसङ्घानां निस्सहकरणमनोभावः च समस्यापरिहारचर्चायै विघातः भवतीति प्रधानमन्त्रिणा उक्तम्। पश्चिमपर्वतततिसानुभप्रदेशानां संरक्षणाय समर्पितायाः कस्तूरिरङ्गन् रेखायाः उपरि उन्नीताः आशङ्काः परिहरणीयाः इति निवेदनं समर्प्य केरलीयाः क्रैस्तवसभानेतारः राज्य-लोकसभयोः केरलीयाः सामाजिकाः च प्रधानमन्त्रिणा सह चर्चाम्‌ अकुर्वन्।

Thursday, August 11, 2016

संस्कृतभाषायां ह्रस्व-चलनचित्रस्पर्धा
कोच्ची> कालटी श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयेन संस्कृतभाषायाः प्रचारणं तरुणानां समूहेषु नूतनतया भवतु इति विचारेण लघु-चलनचित्र स्पर्धा आयोजयिष्यते। आगस्ट्ट् मसस्य अष्टाटादश दिनाङ्कात्‌ एकत्रिंशत् दिनपर्यन्तम् आयोज्यमाने संस्कृतोत्सवे इयं स्पर्धा प्रचलिष्यते। “Sanskrit Short Film”  स्पर्धायां ये भागं स्वीकर्तुं इच्छन्ति ते 2016 आगस्ट् मासस्य 25 तम-दिनाङ्गात् पूर्वं सविवरणं ह्रस्वचित्राणि(DVD) प्रेषणीयानि। विद्युद्-पत्रिका द्वारा अपि प्रवेश-पत्राणि स्वीकरिष्यन्ते natesanskt2000@gmail.com इति भवति सङ्केतः तस्मिन्  विवरणम् PDF भवेयम् अधिकविवरणार्थम् – 9447380373 इति दूरवाणी संख्या उपयोक्तव्या

  स्पर्धायां प्रथम द्वितीय स्थानं प्राप्तवतां कृते प्रमाणपत्रं गौरवधनं च सम्मानरूपेण प्रदास्यते ३० दिनाङ्गे आयोज्यमाने संस्कृतोत्सवस्य समापनसम्मेलने विजयीभ्यः सम्मानं वितरिष्यति इति व्याकरणविभागाध्यक्षः डा.एम्.मणिमोहनः अवदत्। एषः चलनचित्र-स्पर्धायाः मुख्यसंयोजकः भवति
     
वार्षिकायः ६ लक्षात् न्यूनं चेत् केन्द्रसर्वकारस्य साहाय्यम् ।
  नवदहली > वार्षिकायः ६ लक्षात् न्यूनं चेत् गृहनिर्माणाय परिष्करणप्रवर्तनेभ्यः च केन्द्रसर्वकारस्य धनसाहाय्यम् । केवलं ६.५% वृद्ध्यनुपाते धनं लप्स्यते। नगरप्रदेशेषु जीवतां निर्धनानां कृते एव इदं साहाय्यम् । केन्द्रसर्वकारेण आयोजितां 'प्रधानमन्त्री आवासयोजना' पद्धतिम्‌ अनुसृत्यैव इदं साहाय्यम्। पद्धतेः प्रथमवार्षिकावलोकन वेलायामेव केन्द्रसर्वकारेण एतत् सूचितम्।' २०२२ अभ्यन्तरे सर्वेभ्यः गृहम्' इति पद्धतेः प्रथमसोपानमेव इयं योजना। एतावता लक्षाधिकैः जनैः एतस्य प्रयोजनं स्वीकृतम्।

 वैदेशिकधनसाहाय्यम् धर्मपरिवर्तनाय- केन्द्रसर्वकारः।
  नवदहली > विवादधर्मप्रभाषकस्य सकीर् नायिकस्य कृते लब्धं वैदेशिकं धनसाहाय्यं भारते धर्मपरिवर्तनाय उपयुज्यते इति केन्द्राभ्यन्तरमन्त्रालयः। कतिपयदिनेभ्यः पूर्वं राष्ट्रे धर्मस्पर्धायाः वर्धनात्मकरीत्या धर्मप्रभाषणम् अकरोत् इत्यारोप्य सकीर् नायिकम् उपरि अन्वेषणं प्रख्यापितमासीत्।  सकीर् नायिकस्य नेतृत्वे प्रवर्तमानस्य एन् जि ओ सङ्‌घस्य उपरि अन्वेषणं शक्तं करिष्यतीति केन्द्राभ्यन्तरमन्त्रालयेन प्रख्यापितम्।सकीर् नायिकस्य धर्मप्रभाषणानि राष्ट्रे धर्मस्पर्धायाः वर्धनकारणानि भवन्तीति संसूच्य गतदिने मुंबई आरक्षकवृन्देन अन्वेषणरेखाः समर्पिताः वर्तन्ते।

 आरन्मुला विमानालयः - पुनरपि परिस्थिति पठनाय केन्द्रानुमतिः। 
  नवदहली > केरलेषु आरन्मुला विमानालयनिर्माणाय पुनरपि परिस्थितिपठनं कर्तुं केन्द्रसर्वकारस्य अनुमतिः। के जि एस् सङ्‌घस्य आवेदनं परिगणय्य एव केन्द्रवनं-परिस्थितिमन्त्रालयः अनुमतिम् अयच्छत्। परिस्थितिमन्त्रालयस्य नियन्त्रणे प्रवर्तमानया विदग्धसमित्‍या एव आवेदनं परिगणितम्। विमानालयस्य आवश्यकतामधिकृत्य प्रदेशवासिनाम् अभिप्रायान्  क्रोडीकर्तुं समितिः निर्देशम् अयच्छत्। पूर्वतनसर्वकारेण दत्ता अनुमतिः केन कारणेन प्रतिनिवर्तिता इत्यपि समित्‍या पर्यालोचितम्।
 कुडनकुलमपरमाणु-ऊर्जापरियोजनायाः प्रथमम् एककं राष्ट्राय समर्पितम्

नवदेहल्ली>प्रधानमंत्री नरेन्द्र मोदी  रूसस्य राष्ट्रपतिः ब्लादिमिर पुतिनः वीडियोकांफ्रेसिंग इति दृश्यश्रव्यसञ्चारमाध्यमेन कुडनकुलमपरमाणु-ऊर्ज़ापरियोजनायाः प्रथमम् एककं  देशाय समर्पितम् ।
कार्यक्रमस्मिन् तमिलनाडोः  मुख्यमंत्री जयललितापि  वीडियोकॉन्फ्रेंसिंग इतिदृश्यश्रव्यसञ्चारमाध्यमेन समुपस्थिता अवर्तत।

अध्यापकशून्यताः सूचिताः-  पी एस् सी  नियमने उदासीनतां प्रकटयति ।।
             कोच्ची> अध्यापकानां दौर्लभ्येन  केरळेषु सर्वकारीयविद्यालयाः क्लेशमनुभवन्ति । परीक्षायाम् आसन्नायां  स्थितिरेषा छात्रानपि कष्टतागर्तं पातयन्ति ।  कण्णूर् मण्डले एव उप अशीति 70 सङ्ख्यकाः कर्मस्थानानि  रिक्तानि सन्ति ।  घट्टद्वयेन पी एस् सी अधिकारिणः ज्ञापिताः चेदपि फलं नाभवदिति अत्यन्तं कष्टकरम्।

Wednesday, August 10, 2016

 रेलयाने बृहत् मोषणम् : कोटीनां नष्टः जातः।
  चेन्नै > सेलम् - चेन्नै रेलयाने बृहत् मोषणं सञ्जातम्। सेलं तः चेन्नै रिसर्व्बाङ्क् कार्यालयं प्रति आनीतं धनमेव तस्करैः अपहृतम्। पुरातना: तथा नाशोन्मुखा: च २३ आचितः (टण्) चीका: रेलयाने स्थापिता: आसन्। ३४२  कोटि मूल्यपरिमितं धनं २२८ पेटिकासु स्थापितमासीत्। रेल्यानस्य उपरिभागस्य वेधनं कृत्वैव धनापहरणं कृतं वर्तते।

ए टि एम् द्वारा धननष्टम् अनुभूतेभ्यः धनं प्रत्यर्पयिष्यति - एस् बि टि ।
 तिरुवनन्तपुरम् > ए टि एम् द्वारा तस्करैः अपहृतं धनं प्रत्यर्पयिष्यतीति एस् बि टि अधिकृतैः सूचितम्। धननष्टम् अनुभूतानां वित्तलेखाः जडीकृताः वर्तन्ते। तेभ्यः नूतनं ए टि एम् पत्रं दीयते। तिरुवनन्तपुरं नगरे आल्तरा,कवटियार्, वट्टियूर्काव् इत्यादिभ्यः स्थलेभ्यः एस् बि ऐ , एस् बि टि ए टि एम् तः एव धनापहरणं सञ्जातम्। अपि च ए टि एम् प्रकोष्ठानां सुरक्षाव्यवहारः शक्तं करिष्यति इति अधिकृतैः सूचितम्।

 आर् बि ऐ धनानुपाते परिवर्तनं नास्ति।  
मुम्बई > वृद्ध्यनुपाते विना परिवर्तनं नूतनः नयः रिसर्व्बाङ्क् अधिकृतैः प्रख्यापितः ।अध्यक्षेण रघुरामराजेनैव प्रख्यापनं कृतम्। रिप्पो अनुपातः ६.५% रिसर्व्बाङ्‌क् मध्ये पाल्यमानस्य संरभकधनस्य अनुपातः ४% च भवतः। अग्रिमे आर्थिकवर्षे आभ्यन्तरोन्नतिः ७.६% मध्ये पालनं भवति मुख्यं लक्ष्यम्। राष्ट्रस्य आर्थिकस्थिति: भद्रा एव , धनवर्धनानुपातस्य नियन्त्रणमेव मुख्यं कार्यम् इत्यपि अध्यक्षेण रघुरामराजेन उक्तम्। अध्यक्षस्थानस्य कालावधिः आगस्त्मासे तेन पूर्तीक्रियते। अध्यक्षस्थानमलङ्कृत्य रघुराम राजपक्षतः इदं नयप्रख्यापनम् अन्तिमं भवेत्।

 दक्षिणचैनासमुद्रे चैनायाः सैनिकविन्यासः- चित्राणि प्रत्यक्षीकृतानि।
 वाषिङ्टण् > दक्षिणचैनासमुद्रे चैनया सैनिकविन्यासः क्रियते इति 'दि न्यूयोर्क् टैं' पत्रेण रेखीकृतम्। एतत् दृढीकुर्वन्तानि उपग्रहचित्राणि तैः प्रत्यक्षीकृतानि। द्वीपस्य फियरि क्रोस्,सुबि,मिस्चीफ् रीफ्स् इत्यादिषु मण्डलेषु एयर्क्राफ्ट् हाङ्गर् उपकरणानि चैनया निमीयन्ते इति उपग्रहचित्राणि सूचयन्ति।
सोपानम् -09 Aswaini MS CRHS Kuttippuzha Aluva.
पाकिस्तान चिकित्सालये आत्मघाति आक्रमणं - सप्तति मरणानि।
कराची>पाकिस्ताने  क्व‍ट्टा प्रविश्यायां सर्वकारचिकित्सालये आत्मघातिनः आक्रमणम्। सप्तत्यधिकं जनाः हताः,पञ्चाशदधिकैकशतं जनाः आहताश्च। व्रणितेषु उपविंशतीनाम् अवस्था गुरुतरा वर्तते। आक्रमणस्य उत्तरदायित्वं पाक् तालिबानस्य विभागेन जमा अत् उर् अह्रार् नामकेन स्वीकृतम्।

केन्द्रसेवानिवृत्तानाम् अत्यल्पं विश्रान्तिवेतनम् नवसहस्रम्।
नवदिल्लि> केन्द्रसेवामण्डतात् निवृत्तानां न्यूनातिन्यूना विश्रान्तिवेतनं नवसहस्रं रूप्यकाणि भविष्यन्ति। सप्तमवेतनसमित्याः निर्देशमनुसृत्य २०१६ जनुवरि प्रथमदिनाङ्कादारभ्य अस्य प्राबल्यमस्ति।
   
 इरों शर्मिला - ऐतिहासिकसमरस्य परिसमाप्तिः
इम्फाल्>मणिपुरस्य सामाजिककार्यकर्तृ इरोम शर्मिला विगतषोडषवर्षेभ्यः प्रवर्तमानं अनशनं मंगलवासरे त्यक्तवती .
मणिपुरस्य राजधान्यां इंफ़ालनगर्यां वार्ताहरान् सम्मुखीकुर्वती इरोमवर्यया प्रोक्तवती यत् सा कापि देवी नास्ति अपितु सापि सामान्या एव। मणिपुरे  आफ़्सपा इति  सशस्त्रबलविशेषाधिकाराधिनियममं विरुद्ध्य सा  अनशनम् आचरति स्म।
तस्याः निराहारान्दोलनं ५७५७ दिनानि अतीतानि आसन्। स्वकीयानशनसमरस्य परिसमाप्तिं कृत्वा अनन्तरं माध्यमप्रवर्तकान् अभिमुखीकृत्य आगामिनि संवत्सरे प्रचाल्यमाने विधानसभानिर्वाचने स्वतन्त्राभ्यर्थिरूपेण स्पर्धिष्यतेति तया उक्तम्। मणिप्पूरराज्यस्य मुख्यमन्त्रणी भवितुमच्छतीत्यपि निगदितवती सा अधिकारप्राप्तिः भवेत्तर्हि अफ्स्पां निराकरिष्यतीत्यपि स्पष्टीकृतवती।

 वयं काश्मीरस्य विकासं वाञ्च्छामः
 मंगलवासरे  स्वतंत्रतासेनानिनः चंद्रशेखर आज़ादस्य जन्मभूमौ मध्यप्रदेशस्य अलीराजपुरजनपदस्य भाबराग्रामे '70 साल आजा़दी , याद करो क़ुर्बानी' इत्याख्यः कार्यक्रमः प्रारब्धः, जनसभायां प्रघानमन्त्री नरेन्द्रमोदी  स्वीयसम्बोधने काश्मीरस्य विशेषोल्लेखं कृतवान् सममेवोक्तवान् यत् काश्मीरः शान्तिं वाञ्छति।
जीविकायां कश्मीरवासिनः यदिच्छन्ति केंद्रप्रशासनं तेषां साहाय्यं करिष्यति। वयं काश्मीरस्य विकासं वाञ्च्छामः |
जम्मूकश्मीर प्रशासनं अथ केंद्रप्रशासनं  विकासद्वारा सर्वविधसमस्यासमाधानम् अन्विषन्ति| अस्माभिः कश्मीरस्य स्थितिनिभालनाय सुविचार्य प्रयत्नो विधेयः इत्यपि तेनोक्तम् |

Tuesday, August 9, 2016

 जि एस् टि - लोकसभायाः अनुमतिरपि लब्धा।
    नवदहली > राष्ट्रस्य करसम्प्रदाये बहुविधपरिवर्तनेभ्यः निदानं भविष्यतीति चिन्त्यमानस्य जि एस् टि नियमपत्रस्य कृते लोकसभायाः अनुमतिः लब्धा। गतसप्ताहे राज्यसभायाः अनुमतिं प्राप्तस्य जि एस् टि पत्रस्य पुरतः इदानीं राज्यानामनुमतिरेव अवशिष्यते। लोकसभायां ४२९ अङ्‌गानां सहयोग: पत्राय लब्ध:I ए ऐ डि एम् के दलेन सम्मतिदानप्रक्रिया बहिष्कृता। केन्द्रधनसचिवः अरुण् जयटली सर्वकारपक्षतः पत्रावतरणमकरोत्। काण्ग्रस् दलं पत्रम् आनुकूल्य सम्मतिदानम् अकरोत्। बहुविधचर्चायाः अनन्तरं परिवर्तनैः सहैव पत्रं लोकसभायां समर्पितम् वर्तते।

रियो ओलिम्पिक्स् - भारतस्य कृते निराशा एव।       
        रियो डि जनीरो > रियो ओलिम्पिक्स् मध्ये भारतसङ्घः निरन्तरपराजयम् अनुभूय अग्रेसरति। वरिष्ठक्रीडकस्य लियाण्टर्पेसस्य पराजयादारभ्य तृतीयदिनपर्यन्तं पराजयः एव वर्तते। ह्य: अवसिते गोलीप्रहारणस्पर्धा भारतस्य अभिनवबिन्द्रस्य कृते चतुर्थं स्थानमेव लब्धम् । होकी मत्सरे पुरुष-वनिताविभागौ अपि पराजयमनुभूतौ। अपि च तरणक्रीडायां भारतसङ्‌घस्य पराजयः एव आसीत्। अधुना अप्रतीक्षिततया कायिकाभ्यासप्रदर्शने अन्तिमचक्रं प्रविष्टा दीपा कर्मार्कर् एव भारतस्य प्रतीक्षा।

केरळेषु सामूहिकविद्यालयेषु एकीकृतवस्त्रधारणम् आवश्यकम् - मुख्यसचिवः।
 तलश्शेरी  > केरळेषु सामूहिकविद्यालयेषु एकीकृतवस्त्रधारणसम्प्रदायः आवश्यकः इति मुख्यसचिव: पिणरायि विजयःI एतदर्थम् आवश्यकं व्यवहारं स्वीकर्तुं शैक्षिकविभागाय निर्देशः दीयते इत्यपि तेन सूचितम्। तलश्शेरी सेन्ट् जोसफ् उच्चतरविद्यालये भूतपूर्वछात्रै: संघटितस्य आगोलसङ्गमस्य उद्घाटनवेलायामेव मुख्यसचिवेन एतत् सूचितम्। सामूहिकोन्नमनमेव विद्याभ्यासस्थापनानां परमं लक्ष्यं भवतु इत्यपि तेन स्मारितम्।
इरानीयः आणवशास्त्रज्ञः मृत्युपाशेन व्यापादितः। 
टेह्रान् >स्वकीयानि सुप्रधानानि आणवरहस्यानि अमेरिक्काये समार्पयत् इत्यारोप्य इरान् राष्ट्रेण स्वाणवशास्त्रज्ञः षह्राम् अमीरी नामकः मृत्युपाशेन मारितः। इरानस्य न्यायालयवक्त्रा एषा घटना स्थिरीकृता।
    इरान् राष्ट्रस्य आणवपद्धतिमधिकृत्य सूक्ष्मज्ञानम् आर्जितवान् अमीरी २००९ तमे मक्का तीर्थाटनकाले अप्रत्यक्षः आसीत्। संवत्सरैकानन्तरं सः अमेरिक्कायां दृष्टः । ततः २०१०तमे तम् आघोषपूर्वं स्वीकृत्य स्वदेशम् इरानं प्रत्यानीतवन्तः। अमेरिक्कया अपहृतः सः इरानस्य आणवरहस्यानि विज्ञापयितुं निर्बन्धितः इति तेनैव निगदितम्। किन्तु सः स्वयमेव अमेरिक्कां प्राप्य रहस्यानि दत्तवानिति अमेरिक्कया विज्ञापितम्।
    अनन्तरं कृते अन्वेषणे अमीरिणा चारवृत्तिः कृता इति विज्ञाय सः मृत्युदण्डेन विहित इति इरान् राष्ट्रेण स्पष्टीकृतम्।

Monday, August 8, 2016

गोमृत्युः पलास्तिकभोजनेन - प्रधानमन्त्री।
नवदिल्ली> पलास्तिकभोजनेनैव प्रायेण भूरि गावः मृत्युमाप्नुवन्ति इति प्रधानमन्त्री नरेन्द्रमोदी। प्रत्युत मांसार्थं हननेन नेति सः अवोचत्।
   अतः ये गोसंरक्षणम् इच्छन्ति ते गवां पलास्तिकभोजनं निवारणीयम्। पलास्तिकवस्तूनि वीथीं प्रति क्षेपणं कुर्वतां जनानां बोधवत्करणम् आवश्यकम्। केन्द्रसर्वकारस्य मै गवण्मेन्ट् इति नवसाङ्केतिकसंरम्भस्य द्वितीयवार्षिकसमारोहे भाषमाणः आसीत् प्रधानमन्त्री। गोभक्ताः गोसेवकाश्च विभिन्नाः भवन्ति।

 विजय रूपाणिः सत्यप्रतिज्ञां कृतवान्।
गान्धिनगरम् >गुजरात्तस्य नूतनमुख्यमन्त्रिरूपेण विजयरूपाणिः राज्यपालस्य ओ पि कोलि वर्यस्य सकाशे सत्यप्रतिज्ञां कृत्वा स्थानारोहणं कृतवान्। अनेन सह वरिष्ठनेता नितिन् पटेलः उपमुख्यमन्त्रिरूपेण च सत्यनिष्ठामुक्तवान्।
  आनन्दिबन् पटेलस्य स्थानत्यागेनैव नूतनमन्त्रिसभायाः रूपवत्करणमभवत्।
गुजरातस्य गांधीनगरे समायोजितसमारोहेsस्मिन्  लालकृष्ण आडवाणी, अरुणजेटली, भाजपाध्यक्षं अमितशाहं समेत्य गणमान्यनेतारः समुपस्थिताः आसन् |

माणिविभागः यू डि एफ् दलं त्यक्तः।
चरल्क्कुन्न्> केरळे यूडिएफ् इति राजनैतिकसंघस्य प्रमुखं दलं , केरळ कोण्ग्रस् - एम् सख्यं समाप्तवत्। पत्तनंतिट्ट जिल्लायां चरल्क्कुन्न् प्रदेशे  प्रवृ्त्तया राज्यसमित्या एवायं निर्णयः स्वीकृतः।
   शासनपक्ष विपक्ष दलाभ्यां सह समदूरमेव पालयिष्यतीति केरळकोण्ग्रस् एम् नेत्रा के एम् माणिना उक्तम्। अनया घटनया ३४ संवत्सराणां बन्धस्य अन्त्यः अभवत्।

Sunday, August 7, 2016

क्षीरे अन्यवस्तूनां योजनं,आयुर्दण्डः दातव्यः- सर्वोच्चन्यायालयः।
नवदेहल्ली>भक्ष्य-सुरक्षा अधिकारिभिः आभारतं कृतेषु पठनेषु क्षीरे रास-वस्तूनां योजनं अदृष्टम् । सप्तषष्ठि शतांशस्य क्षीरस्य विक्रयणे एतादृशं दोष-युक्तं विक्रयणं प्रचलन्नस्ति। एतत् प्रतिरोद्धुं कर्कश-नियमस्य निर्माणं करणीयमिति केन्द्रसर्वकारं प्रति उच्चतर  न्यायालयः निरदिशत्। शिशोः मुख्यां भक्ष्य-वस्तुः भवति क्षीरम्। इदानीं रास-वस्तुसङ्कलितस्य क्षीरपानेन स्वास्थ्ये दोषाः अभवन् इति न्यायालयेन निरीक्षितः।
रियो ओलिम्पिक्स् - प्रथमं सुवर्णम् अमेरिकायाः ।
रियो डि जनिरो> वनिताविभागस्य दशमीट्टर् वायूनालिकाशस्त्रस्य स्पर्धायां  विर्जीनिया त्राषर् महाभागया प्रथमं सुवर्णं प्राप्तम्। योग्यतायाः परिवृत्ते षष्टम स्थानीया विर्जीनिया अन्तिम स्थरे सुवर्णेन विजयी अभवत्॥
ओलिम्पिक्स्- भारतस्य विजयारम्भः।
रियो ओलिम्पिक्स् मध्ये यष्टिक्रीडायां भारतस्य विजयेन प्रारम्भः। पुरुषहोक्की स्पर्धायाः प्रथमपादे अयर्लान्ट् राष्ट्रं श्रीजेषेन नीतेन  भारतदलेन ३-२ इति लक्ष्यकन्दुकैः पराजितम्। रूपीन्दरपालसिंहः लक्ष्यकन्दुकद्वयं लब्धवान्।

Saturday, August 6, 2016

रियो ओलिम्पिक्स् वार्ताः.......
अद्य ऐषमः रियो अोलम्पिक  स्पर्धायाः भव्यतापुरस्सरं उद्‌घाटनं सञ्जातम् । अवधेयमिदं यत्  एकत्रिंशत्ततम्यां स्पर्धायामस्यां २०६ राष्ट्रेभ्यः ११००० स्पर्धार्थिनः स्पर्धिष्यन्ते ।
 उद्धाटनकार्यक्रमे त्रिवर्णध्वजेन साकं अभिनवबिन्द्रा भारतस्य प्रतिनिधित्वम् कृतवान् |
उद्घाटनकार्यक्रमोsयं ब्राजीलस्य रियो डि जेनेरियो क्षेत्रे माराकानाक्रीडांगडे  आयोजितः |
भारतम् अन्टार्टिका च एकं भूतलखण्डम् - प्रमाणं लब्धम्।

कोल्कत्ता > शतकोटि संवत्सरात् पूर्वं भारत- उपभूखण्डम् अण्टार्टिका भूखण्डस्य भागः आसीत् इत्यूहः सत्यमिति भूगर्भ वैज्ञानिका: सप्रमाणम् वदन्ति । मानवानां उत्पत्तेः पूर्वें  भूमेः प्रतलचलनानानि एव भूखण्डस्य संयोग-वियोगयोः कारणमिति अनुमानं सत्यमिति भौम -परिणाम संबन्धतया अनुसन्धानं कृतवता भारत स्विस्सर्लन्ट् संयुक्त वैज्ञानिकानां दलेन एव सप्रमाणं प्रकाशितम्। ओडीषा जार्खण्ड मण्डलयोः पूर्वघट्ट पर्वत-भागेषु कृतानुसन्धानमेव प्रमाणलब्धेः कारणमिति देवाशिश् उपाध्यायः अवदत् । एषः खर्गपुर ऐ.टी संस्थायाः भैमवैज्ञानिकः भवति।
असमराज्ये आतङ्कवाद्याक्रमणं - चतुर्दश मरणानि।
कोक्रजारः > असमराज्ये कोक्रजारनामकप्रदेशे जनसम्मर्दभूते आपणकेन्द्रे दुरापन्ने आतङ्कवादीनाम् आक्रमणे १४ जनाः मृत्युमुपगताः। विंशत्यधिकाः आहताः च।
   निरोधितसंस्थया नाषणल् फ्रण्ट् ओफ् बोडोलान्ट् इत्यनया एव आक्रमणं कृतमिति सूचना। मुखावरणं धृत्वा प्राप्ताः आतङ्कवादिनः जनसञ्चयान् प्रति भुषुण्डिप्रयोगम् अकुर्वन्। १२ जनाः तत्क्षणमेव मृताः।  भीकरेष्वेकः सुरक्षासेनया हतः।

गजं प्रत्यानेतुं त्रयांगसंघः बांग्लादेशे।
धाक्का - ब्रह्मपुत्र नद्यां जलोपप्लवे स्रवित्वा बंग्लादेशं प्राप्तं भारतीयगजं प्रत्यानेतुं द्वे राष्ट्रे मिलित्वा  प्रयत्नः आरब्धः।एतदर्थं सेवानिवृत्तस्य कस्यचन मुख्यवनपालकस्य नेतृत्वे त्रयांगसंघः बंग्लादेशे उत्तरजमालपुरे शारिशबारिनामकप्रदेशं प्राप्तः।
  मृगवैद्याः निद्रास्त्रप्रयोगविदग्धाश्च बंग्लादेशसर्वकारेण साहाय्यार्थं नियुक्ताः सन्ति। भारतं प्रत्यानेतुं न शक्यते तर्हि अस्माभिरेव गजः संरक्षितव्य इति धाक्कायाः मुख्यवनपालकः मुहम्मद यूनुस् अलिः उक्तवान्।

 विजय रूपाणिः गुजरातमुख्यमन्त्री।

अहम्मदाबाद् > गुजरातराज्यस्य नूतनमुख्यमन्त्रिरूपेण भाजपादलस्य राज्याध्यक्षः विजयरूपाणिः निश्चितः।

   नितिन् पटेलः उपमुख्यमन्त्रिः भविष्यति। भाजपा देशीयाध्यक्षः अमित् षा , केन्द्रमन्त्री नितिन् गट्करी, दलनेता सरोजपाण्डे इत्येतेषां सान्निध्ये सम्पन्ने उपवेशने एव ईदृशः निश्चय अभवत्।

Friday, August 5, 2016

ओलिम्पिक्स् स्पर्धायै ब्रसीलः
रियो डि जेनैरो> शनिवासरे प्रभाते भारत- समये सार्ध चतुर्वादने  स्पर्धायाः उद्‌घाटनं भविष्यति। सप्तदश दिनानि यावत्‌ स्पर्धायाः दिनानि एव। एकत्रिंरिंशत्ततम ओलिम्पिक्स् एव भवति एतत् । आगस्ट् मासस्य एक विंशति दिने स्पर्धाः सम्पूर्णतां प्राप्स्यन्ते । २०६ राष्ट्रेभ्यः ११००० स्पर्धार्थिनः स्पर्धिष्यन्ते ।

भीकराणां महत्ववत्करणं नाभिलषणीयमिति राजनाथसिंहः। 
इस्लामबाद्>भीकरप्रवर्तकान् बलिदानिनः इति संस्तुत्य महत्ववत्कृत्य संरक्षितुं प्रयत्नः अपलपनीय इति भारतस्य गृहमन्त्री राजनाथसिंहः अवोचत्। इस्लामबादे दक्षिणेष्यन् राष्ट्राणां सम्मेलने भाषमाणः आसीत् केन्द्रगृहमन्त्री।
   पूर्वं काशमीरे हिस्बुल् मुजाहिदीन् संस्थायाः नेता बुर्हान् वानी इत्यस्य मरणं बलिदानमिति पाक् प्रधानमन्त्रिणा नवास् षरीफेन प्रकीर्तितमासीत्। तस्मादारभ्य भारत-पाकिस्तानयोः मध्ये अस्वारस्यः समजायत।
   भीकराणां मध्ये श्रेष्ठः नीचः इति सङ्कल्पनम् असमीचीनमिति भारतगृहमन्त्रिणा स्पष्टीकृतम्। तादृशानां संरक्षणं प्रोत्साहनं च येनकेनापि राष्ट्रेण क्रियते चेत् तत् शान्तिमिच्छतां देशानां विपरीताय भविष्यतीति तेनोक्तम्।

Thursday, August 4, 2016

जि एस् टि - राज्यसभायाम् अनुमतिः लब्धा।
    नवदहली > जि एस् टि  कृते राज्यसभायाम् अनुमतिः लब्धा। राष्ट्रस्य करसम्प्रदाये महत्परिवर्तनाय सज्जं जि एस् टि  नियमपत्राय राज्यसभाङ्गानां सम्मतिदानेनैव अनुमतिः दत्ता। सभायाम् अण्णा डी एम्‌ के दलेन सम्मतिदानं बहिष्कृतम्। अन्येषां सर्वेषामपि अङ्गानां सम्मतिदानं सम्पाद्य ऐक्यकण्ठेनैव केन्द्रसर्वकारेण अनुमतिः प्राप्ता वर्तते। २०१५ तमे वर्षे लोकसभायां समर्पितं जि एस्‌ टि नियमपत्रं परिवर्तनैः सहैव राज्यसभायां समर्पितम्। अतः नियमपत्रं पुनरपि लोकसभायां समर्पणीयं वर्तते। तत्र भूरिपक्षः वर्तते इत्यतः अनुमतये केन्द्रसर्वकारस्य तावान् क्लेशः न स्यात्। ततः राज्यस्तरीयानां नियमसभानाम् अङ्गीकारः प्राप्तव्यः, ततः राष्ट्रपतेः हस्ताक्षरेण एव नियमपत्रस्य प्राबल्यं भविष्यति। प्राबल्यं सम्पादयितुम् अर्धानां राज्यानाम् अड्गीकारः आवश्यकः अस्ति।

 तिरुवनन्तपुरं-दुबाय् विमानं दग्धम् - यात्रिकाः सुरक्षिताः।
 
दुबाय् >  तिरुवनन्तपुरात् दुबाय् प्राप्तम् एमिरेट्स् विमानम् आरोहणसमये दग्धम्। दुबाय् विमाननिस्थाने एव अपघातः सञ्जातः। विमानस्य प्रवर्तनयन्त्रभागादेव अग्निबाधा आरब्धा। पश्चात् अग्निः प्रसरितः च। विमानं पूर्णतया दग्धं वर्तते। किन्तु सर्वेऽपि यात्रिकाः सुरक्षिताः एव। यात्रिकाणां यात्रासाधनानि पूर्णतया दग्धानि। विमाने २८२ यात्रिकाः आसन्। अग्निबाधया औद्योगिकरेखाः नष्टानां यात्रिकाणां कृते परिहारव्यवहारः स्वीक्रियते इति अधिकारिभिः सूचितम्। विमानचालकस्य मनस्सान्निध्येन महान् दुरन्तः निवारितः इति विदग्धैः अभिप्रेतम्।

 चैनां प्रतिरोद्धुं सीमायां १०० ब्रह्मोस् क्षेपणायुधाः।
 नवदहली > सीमायां चैनायाः सैनिककेन्द्राणि लक्ष्यीकृत्य १०० ब्रह्मोस् क्षेपणायुधाः भारतेन विन्यस्यन्ते। एतदर्थं प्रधानमन्त्रिणः अध्यक्षतायां संवृत्ते योगे निर्णयः स्वीकृतः। २.८ माच् वेगतायां गम्यमानः ब्रह्मोस् विश्वस्य सर्वोत्तमः क्षेपणायुधः भवति। ४३०० कोटि रुप्यकाणां व्ययेन निर्मीयमानस्य नूतनस्य ब्रह्मोस् ब्लोक् ३ विभागस्य सैन्यव्यूहः एव सीमायां विन्यस्यते।

 रियो ओलिम्पिक्स् - प्रथमः विजयः स्वीडन् कृते।
    रियो डी जनीरो > रियो ओलिम्पिक्स् २०१६ मध्ये प्रथमः विजयः स्वीडन् दलेन प्राप्तः। अत्लटिक्स् इतरस्पर्धासु पादकन्दुकक्रीडायामेव स्वीडन् दलस्य विजयः। वनितानां पादकन्दुकक्रीडायाः प्रथमस्पर्धायां स्वीडन्‌ दलं दक्षिणाफ्रिका दलं १-० इत्यनुपाते अपराजयत्। स्पर्धायाः द्वितीयपादे निल्ला फिषर् स्वीडन् कृते लक्ष्यं प्राप्तवती। फिफायाः उत्कर्षपट्टिकायां षष्ठे स्थाने भवति स्वीडन्।

अतिवृष्ट्या सेतुः भग्नः-विंशति जनाः अदृष्टाः!
मुम्बई- महाराष्ट्रायां महाड् प्रदेशे सावित्री नद्यां विद्यमानः सेतुः अतिवृष्ट्या भग्नः अभवत्! अतिप्रवाहे द्वे बस् याने  नैकानि कार् यानानि च पतित्वा अदृष्टानि। विंशत्यधिकाः यात्रिकाः स्रवन्ति स्म इति सूचना। द्वौ मृतदेहौ दृष्टौ।
     मुम्बई तः १७०  कि मी दूरे मुम्बई-गोव देशीयमार्गे अर्धरात्रौ एव दुर्घटना जाता। रक्षाप्रवर्तनानि आरब्धानि सन्त्यपि महती वृष्टिः प्रतिबन्धः अभवत्। स्थल- नाविक-व्योमसेनयाः साहाय्येनैव रक्षाप्रवर्तनं अग्रगामी अस्ति।

Wednesday, August 3, 2016

सोपानम् - 08 Fathima Mundeth BSUPS Kalady
सौदीम् अनुगम्य ओमाने अपि कर्मप्रतिसन्धिः , अनुवैद्याः बहिर्गमयन्ते। 

कोच्ची >सौदी अरेब्यायां दशसहस्रशः भारतीयाः वृत्तिनष्टेन बहिष्कृताः इत्यनुगम्य ओमान् देशे अपि वृत्तिप्रतिसन्धिः। स्वदेशवत्करणमनुसृत्य विदेशीयाः अनुवैद्याः बहिष्कर्तुं ओमान्सर्वकारः क्रियाविधिमारब्धवन्तः। शताधिकाः केरलीयाः च अन्तर्भवन्ति।
  सल्ला, इब्रा, रुस्ताख् ,खौल, निस्वा इत्यादिषु प्रदेशेषु सर्वकारातुरालयेषु वर्तमानाभ्यः अनुवैद्याभ्यः कर्मविमुक्तिसूचनाः दत्ताः।

Tuesday, August 2, 2016

सेल्फी दुरन्तः - देशीयक्रीडका वाप्यां निपतिता मृता च। 
भोप्पाल् > देशीयक्रीडका सेल्फीस्वीकरणसमये वाप्यां पतित्वा मृता। उत्तराखण्डस्वदेशिन्या: पूजा कुमार्याः एव दुरन्तः सञ्जातः। भोप्पाल् कायिकसमितेः कलालये एव अपघातः जातः। साय् संस्थायाः कर्मकराः रक्षाप्रवर्तनं कृतवन्तः , तथापि तां रक्षितुम् अशक्ताः अभवन्। सेल्फीभ्रमः एव अपघात्स्य कारणमिति कर्मकरै: सूचितम्‌।


 प्रवासिजनेभ्यः समाश्वासेन सह विमानसंस्थाः।
 मस्कट् > उत्सवकालेऽस्मिन् समये ओमान् तः प्रवर्तमानाभिः विमानसंस्थाभिः प्रवेशपत्रमूल्यं न्यूनीकृतम्। श्रावणोत्सव: , बक्रीद्, मुहरम् इत्यादयः उत्सवा: अग्रिममासेषु आघुष्यन्ते। एतदाधारीकृत्यैव विमानसंस्थानाम् अयं मत्सरः। केरलं प्रति तथा भारतस्य विविधानि राज्यानि प्रत्यपि प्रवेशपत्रमूल्यं न्यूनीकृतं वर्तते। ओमान् एयर् संस्थया इदानीं मूल्यं न्यूनीकृतमस्ति। अचिरादेव खत्‍तर् एयर्वेय्स् , फ्लै दुबाय् , जेट्‌ एयर्वेय्स् इत्यादिभिः अपि मूल्यस्य न्यूनीकरणं क्रियते इति प्रतीक्ष्यते।

इन्धनमूल्यं न्यूनीकृतम् । 
 नवदहली > राष्ट्रे इन्धनमूल्यं पुनरपि न्यूनीकृतम्। पेट्रोल् कृते १.४२ रूप्यकाणि डीसल् कृते २.०१ रूप्यकाणि च न्यूनीकृतं वर्तते। ह्यः अर्धरात्रितः नूतनानुपातः प्राबल्यमागतः। एकमासाभ्यन्तरे एतत् तृतीतय वारमेव इन्धनमूल्यं न्यूनीकृतं वर्तते। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य तथा डोलरेण सह विनिमयानुपाते भारतधनस्य (रूपायाः) च आगतं व्यतियानमेव मूल्यन्यूनीकरणाय मुख्यं कारणमिति भारतीयतैलवितरणसमितिः प्रस्तावनायाम् अवदत्।


कश्मीरसङ्घर्ष: - बालकानां उपयोग: अपि। 
श्रीनगर् > कश्मीरस्य शान्तेः अन्तरिक्षं कलुषं कर्तुं बालकानाम् उपयोगः अपि आक्रमणकारिभिः क्रियते इति मुख्यसचिवा मेहबूबा मुफ्ती। आक्रमणपरम्परया का समस्या नैव परिह्रियते , समग्रचर्चा एव आवश्यकी-तया सूचितम्। समस्याः स्रष्टुं लघुबालकाः अपि भीकरै: उपयुज्यन्ते, एतदर्थं विविधाः शक्तयः कठिनप्रयत्नं कुर्वन्ति इत्यपि तया योजितम्।


रियो ओलम्पिक्स् - नरसिंह एव स्पर्धिष्यते ।
उत्तेजक औषधविवादे बहिर्गन्तुं प्रेरितः नरसिंहः न्यायालयेन दोषविमुक्तो भूत्वावा प्रत्यागतः।


राष्ट्रविरोधकेभ्यः पाठनम् आवश्यकम् - परिकरः
पुणे > राष्ट्रराजधान्यां स्थित्वा कथमेवं जनाः राष्ट्रविरुद्धोक्तिं कर्तुम् साहसं धारयन्ति। येन केनापि समर्थनम् न क्रियते चेत् एवं न भविष्यति। अतः राष्ट्रविरोधकेभ्यः उचित दण्डनपाठः आवश्यकः इति राष्ट्रसंरक्षणमंत्रीवर्येण मनोहरपर्रिकरेन उक्तम्।
पर्रीकरवर्येण उक्तम् यत् राष्ट्रनागरिकैः राष्ट्रप्रेमस्य प्रथमं पाठं स्वस्य गृहात् एव पठनीयः। तदा येन केनापि राष्ट्रविरोधवाक्यं क्रियते तर्हि तैः सोढुं न शक्यते। अतः विचारयामि यत् जनाः स्वयंमेव राष्ट्रविरोधकेभ्यः पाठं पाठयिष्यन्ति।,” एवमपि  तेन उक्तम्।
संरक्षणविषयाभ्यासकेन नितीनगोखलेवर्येण लिखितम् ‘सियाचिन - धगधगते हिमकुंड‘ इति मराठी भाषायां विरचितं पुस्तकं तथा हिंदी भाषायां एतस्य पुस्तकस्य अनुवादस्य च  प्रकाशनवेलायां  पर्रीकरवर्यः स्वविचारान् प्रकटितवान्।
लेफ्टनंट जनरल संजयकुलकर्णीः (अवकाशप्राप्तः), एअर मार्शल भूषणगोखलेः (अवकाशप्राप्तः),'पुणे इंटरनॅशनल सेंटर' संस्थाउपाध्यक्षः डॉ. विजयकेळकरः अन्ये च गणमान्याः अवसरेsस्मिन् उपस्थिताः आसन् । पत्रकारः प्राध्यापकश्च विनयचाटी महोदयः एव  पुस्तकस्य अनुवादकः।