‘दशमहाविद्यास्वरूपम्’ इति विषमधिकृत्य द्विदिवसीय-राष्ट्रियसङ्गोष्ठी सुसम्पन्ना
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्य-संस्कृतिपीठान्तर्गत-पुराणेतिहासविभागेन ‘दशमहाविद्यास्वरूपम्’ इति विषयमधिकृत्य मार्चमासस्य प्रथम-द्वितीय-दिनाङ्कयोः द्विदिवसीय-राष्ट्रियसङ्गोष्ठी समायोजिता। तत्र प्रथमे दिनाङ्के उद्घाटनसत्रे अध्यक्षरूपेण असमप्रान्तस्थ-कुमारभारस्करवर्मापुरातन-अध्ययनविश्वविद्यालयस्य कुलपतिः प्रो.प्रह्लादजोशी समागतोऽऽसीत्। सत्रेऽस्मिन् मुख्यातिथित्वेन श्रीमनोजकुमारद्विवेदी (IAS, Delhi) समुपस्थितोऽऽसीत्। कार्यक्रमस्य भिन्न-भिन्नसत्रे भिन्न-भिन्नाचार्येण सत्राध्यक्ष्यत्वं विशिष्टातिथित्वं सत्रसंयोजनञ्च निर्वाहितम्। कार्यक्रमेऽस्मिन् प्रो.रामसलाहीद्विवेदी-प्रो.मारकण्डेयनाथतिवारी- डॉ. कीर्तिकान्तमहोदयानां विशिष्टव्याख्यानं जातम्। सत्रे नैकैः प्रतिभागिभिः तथा च डॉ.विजयगुप्ता-डॉ.मोहनलालशर्मः-श्रीलेखराजसिंहः-डॉ.योगेशकुमारमिश्रेणापि शोधपत्रप्रवाचनं कृतम्। कार्यक्रमस्यास्य सम्पूर्तिसत्रे स्वामीपरानन्दतीर्थैः आध्यक्ष्यपदमलङ्कृतम्। अनेन दशमहाविद्याविषये अत्यन्तसारगर्भितं व्याख्यानं कृतम्। तन्त्रागमानुसारं दशमहाविद्या अलौकिका विद्या विद्यते। तेषामुपासनया अलौकिकं फलं समुपलभ्यते। अस्यां सङ्गोष्ठ्यां दशमहाविद्याविषये सम्यग्रूपेण प्रतिपादनं जातम्।

.webp)

.jpg)







.webp)


.jpg)
.webp)


