राष्ट्रं सायुधसेनाः प्रबलीकरोति - द्रौपदी मुर्मू।
एष़िमला> सायुधसेनायाः शक्तीकरणे, समुद्रबलस्य वर्धापने च भारतम् अतिशीघ्रं पुरोगच्छतीति राष्ट्रपतिः द्रौपदी मुर्मू अवोचत्। एष़िमलायां [केरले] भारतीय नाविक अकादमी इत्यत्र Passing out pared समारोहे अभिवाद्यं स्वीकृत्य भाषमाणा आसीत् मुर्मू वर्या।
६९ महिला अधिकारिणः अभिव्याप्य ४२७ परिशीलिताधिकारिणः [Officer trainees] शरत्कालीय विजयसमारोहे भागं कृतवन्तः। सौहृदविदेशराष्ट्रेभ्यः आगत्य १८ विदेशीयाः अपि सिद्धपरिशीलिताः सन्ति। राज्यपालः ओं प्रकाश माथुरः , नौसेनाधिकारी अड्मिरल् कृष्णस्वामिनाथः, नौसेनायाः इतरे अधिकारिणश्च समारोहे भागं गृहीतवन्तः।