अधिकमूल्ययुक्तपुस्तकानि क्रेतु छात्रान् निर्बद्धमानान् विद्यालयान् विरुध्य सि बि एस् इ।
नवदिल्ली> ये विद्यालयाः स्वायत्तसंस्थया प्रकाशितानामधिक-मूल्ययुक्त-पाठपुस्तकानां तथा गणवेषं, टिप्पणिपुस्तकानि, पठनोपकरणानि च क्रेतुं छात्रान् निर्बन्धयन्ति तेषामवरोधः नियमानुसारं करिष्यति इति सि बि एस् इ स्पष्टीकरोति। छात्रेभ्यः केन्द्र-सर्वकारनियुक्ताभ्यां एन् सि आर् टि, सि बि एस् इ संस्थाभ्यां सज्जीकृतपाठ्यसरणियुक्तानि पुस्तकान्येव विद्यालयाधिकृतैः दातव्यानि इति सि बि एस् इ संस्थया २०१६ तमे वर्षे निर्देशः दत्तः आसीत्। यानिकान्यपि वाणिज्यप्रवर्तनानि विद्यालयेषु नियमदृष्ट्या नाङ्गीक्रियन्ते। समीपकाले देहल्यां द्वादशकक्षायै स्वायत्तसंस्थाप्रकाशितपुस्तकेषु स्त्रीणाम् सावमानचित्राणां मुद्रितविषये विवादः सञ्जातः आसीत्। देशे १८००० विद्यालयाः सि बि एस् इ संस्थया बद्धाः सन्ति। १०१६ तमे वर्षे निर्देशपालनमकुर्वतां विद्यालयानाम् अङ्गीकारस्य निरासम् करोति इति सि बि एस् इ असूचयत् ।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, April 24, 2017
चतुर्दशलक्ष जनानां तान्त्रिक विशदांशाः सर्वकारस्य अन्तर्जालपत्रे प्रकाशिताः।
राञ्चि>तन्त्राधिगमस्य अनधिकृतोपयोगेन झारखण्ड् राज्ये चतुर्दशलक्ष जनानां तन्त्रिकविशदांशाः सर्वकार अन्तर्जालपत्रे प्रकाशिताः।राष्ट्रे वार्धक्य आर्थिकसाहाय्यं स्वीकृतवतां चतुर्दशलक्ष वृद्धजनानां नामानि,सङ्केतः,अधार अङ्कः, बांक् क्रमाङ्कः इत्यादि विशदांशाः सन्ति सर्वकार अन्तर्जालपत्रे।
राष्ट्रे आहत्य षोडशलक्ष जनाः सर्वकारस्य आर्थिकसाहाय्यं स्वीकुर्वन्तः सन्ति। तेषु चतुर्दशलक्षाः आर्थिकसाहाय्यं आर्थिकालयात् स्वीकर्तुं स्व आधार अङ्केन सह आर्थिकालय क्रमसंख्या बन्धितवन्तः। सर्वकार सेवायै आधारः अनिवार्यः न करणीयः इति न्यायशाला तथा प्रतिपक्षदलानि निर्णयस्वीकरणालोचनायामस्ति एषा घटना।
संस्कृतभाषापठने वर्तमानकालीना सुविधा न निषिद्धव्या - संस्कृताध्यापक फेडरेषन्।
तृश्शिवपेरूर्>केरळे वर्तमानकालीनायां शैक्षिकप्रणाल्यां मलयालभाषाशिक्षणं ओर्डिनन्स् द्वारा अवश्यंकारिते सन्दर्भे प्रथमभाषारूपेण संस्कृतम् अरबी उर्दु भाषाशिक्षणं कर्तुं छात्राणां वर्तमानकालीना सुविधा अनुवर्तनीया इति केरळस्य संस्कृताध्यापकानां संघटनया संस्कृताध्यापक फेडरेषन् संस्थया अभियाचितम्। कैरळीशिक्षणं समूलं तिरस्कुर्वन्तः आङ्गलमाध्यमविद्यालयान् उद्दिश्य सर्वकारेण विज्ञापितम् आदेशम् उपयुज्य कैश्चन न्यूनपक्षभाषाः विरुध्य प्रकाशिताः प्रस्तावाः न आशास्याः अपि तु भाषाप्रेमिषु छात्रेषु अस्वस्थजनकाश्च इति संस्थायाः राज्यस्तरीयसमित्या निर्णीता।
कैरळीमाध्यमेनैव चरित्र शास्र गणित विषयान् अध्यापनं कुर्वत्सु ओरियन्टल् विद्यालयेषु नूतनादेशमनुसृत्य संस्कृतभाषापठनं तिरस्क्रियमाणं प्रवर्तनम् उपेक्षणीयमिति च समित्या निर्दिष्टम्।
राज्याध्यक्षस्य वेणु चोव्वल्लूर् वर्यस्य आध्यक्ष्ये आयोजितं सम्मेलनं संस्थायाः सचिवप्रमुखेन पि जि अजित्प्रसादेन समुद्घाटितम्। सङ्घटना धुरन्धराः पद्मनाभः गुरुवायूर्, सुरेशः, रविकुमारः, मधुसूदनः, जयदेवः इत्येते भाषणं कृतवन्तः। राज्यसचिवः सि पि सनल् चन्द्रः स्वागतं अजयकुमारः कृतज्ञतां च प्रकाशितवन्तौ।
Sunday, April 23, 2017
भाजपस्य विजयाभियानम् अप्रतिहतम्
मुम्बै >महाराष्ट्रराज्ये भारतीयजनतापक्षस्य विजयाभियानम् अप्रतिहतरीत्या प्रचलति। राज्ये महानगरपालिकायाः निर्वाचनं गते गुरुवासरे अभवत्। तन्मध्ये द्वे महानगरपालिकायायां भाजपदलेन जयम् प्राप्तमस्ति।दिवंगतस्य केंद्रियमंत्री विलासरावदेशमुखस्य स्वग्रामे लातूरनगरे अपि भाजपदलः जेतारूपेण उद्भूतः अस्ति। तत्र ७० स्थानात् ४१ स्थानानि विजित्य भाजपेन नवेतिहासः लिखितः अस्ति। स्वातंत्र्यप्राप्त्यानंतरम् काँग्रेसदलं पराजित्य यः कः अपि दलः अत्र सत्ताम् प्राप्तुम् एतत् अस्ति प्रथमः प्रसंगः। चंद्रपूरनगरे अपि भाजपेन सत्तां हस्तगता। तत्र भाजपेन ६६ स्थानात् ३६ स्थानानि विजितानि।
परभणीनगरे काँग्रेसदलम् अनपेक्षिततया विजयं प्राप्तवान्। तत्र राष्ट्रवादीकाँग्रेसदलः पराजितः आसीत्।
Saturday, April 22, 2017
गूढसङ्ख्या नावश्यकी ; अङ्गुलीमुद्राङ्कितसमपत्राणि आगच्छन्ति ।।।
वाषिङ्टण् > ए टी एम् गूढसङ्ख्या विस्मृतेति इत:परं खेद: मास्तु --- गूढसङ्ख्यानां सुरक्षासङ्केतानां च स्थाने अङ्गुलीमुद्रया निक्षेपस्वीकारादि-कार्यकरणसमर्थानि समपत्राणि आगतानि। अमरीकीयया मास्टर् कार्ड् कार्यशालया एतादृशजैवचालकीयसमपत्राणां परीक्षणोपयोग: दक्षिणाफ्रिकायां कृत:। इतोपि कृतपरीक्षणे समाप्ते वर्षान्ते एतत् विज्ञानं समपत्रे बहिरानेतुमेव कार्यशालाया: उद्देश:। अधिकसुरक्षया साकं सरलसक्रियोपयोग: साध्य: इति एतेषां समपत्राणां सौकर्यमिति मास्टर् कार्ड् सुरक्षाकार्यदर्शिना भारतवंशजेन अजयभल्लेनोक्तम्। वित्तकोशात् समपत्रस्वीकारावसरे उपयोक्तु: अङ्गुलीमुद्रापि रेखाङ्किता भवेत्। एतत् समपत्रे सूक्ष्मसङ्ख्याफलकरूपेण संरक्ष्यते। साधारणसमपत्रवत् ए टी एम् , पी ओ एस् यन्त्रेषु उपयोक्तुं च शक्यते। सूचीसङ्ख्यास्थाने अङ्गुलीमुद्रां रेखाङ्कितुं तत्स्थाने अङ्गुली स्थापनीया। यूरोपे एष्यायां च आगामिमासे समपत्रस्य परीक्षणोपयोगं करिष्यन्ति ।
मदिरानिरोधानन्तरं बीहाराय दशसहस्रकोटि लाभः, आराष्ट्रं निरोधः अपेक्षते - नितीष्कुमारः।
पाला [केरळम] >बीहारराज्ये सम्पूर्णमदिरानिरोधेन प्रारम्भे पञ्चसहस्रकोटिरूप्यकाणां नष्टम् अभूदपि दशसहस्रकोटिरूप्यकाणां लाभः प्राप्त इति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्।सम्पूर्णमदिरानिरोधव्यवस्थापनेन सर्वकाराणां आर्थिकनष्टं भविष्यतीति वादः व्यर्थ इति आर्थिकावलोकनेन तेन समर्थीकृतम्। अतः भारते सर्वत्र सम्पूर्णमदिरानिरोधः प्रतिष्ठापनीयः इति तेन अपेक्षितम्।
गतदिने केरले भरणङ्ङानं प्रदेशे केरला कातलिक् बिषप् कौण्सिल् संस्थायाः मदिराविद्धसमित्याः राज्यस्तरीयमेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् नितीष् वर्यः।
मदिरानिरोधानन्तरं बीहारे महत् सामाजिकपरिवर्तनं सञ्जातम् अपराधकृत्यानां यानदुर्घटनानां संख्या न्यूनीभूता। हत्या तु प्रतिशतं एकविंशतेः न्यूनता जाता। अन्येषां न्यूनीकृतापराधानाम् अवलोकनमपि तेन कृतम्।
बीहारे सम्पूर्णमदिरानिरोधनं संस्थाप्य एकसंवत्सरः अतीतः। एतावदाभ्यन्तरे राज्ये क्षीर-वस्त्र-गृहोपकरण-भोज्यादीनां विक्रयः वर्धितः। अतः केरले अपि सम्पूर्णमदिरानिरोधनं व्यवस्थापनीयमिति नितीष्कुमारेण आवेदितम्।
महाभारतसम्बन्धिन्याः कैरल्याख्यायिकायाः चलच्चित्ररूपान्तरं, सहस्रकोटिरूप्यकाणां व्ययः, मोहन्लालः भीमसेनः।
कोच्ची> व्यासभारतमवलम्ब्य विख्यातकैरलीसाहित्यकारेण एम् टि वासुदेवन् नायर् महाभागेन विरचिता 'रण्टामूष़म्' नामिका प्रसिद्धा आख्यायिका महाभारतम् इतिनाम्ना चलच्चित्ररूपेण निर्मीयते। प्रमुखः प्रवासी वणिक् श्रीमान् बि आर् षेट्टि अस्य चित्रस्य निर्माता। भारते इतःपर्यन्तं निर्मितेषु चलनचित्रेषु बृहत्तमं धनव्ययात्मकं चित्रं भविष्यति "महाभारतम्"! सहस्रकोटि रूप्यकाण्येव अस्य दृश्याद्भुतस्य व्ययः इति प्रतिक्षन्ते। रण्टामूष़े मुख्यकथापात्रत्वेन वर्तमानं भीमसेनं कैरल्याः महानटः मोहन्लालः अवतारयति। दृश्यकथारचनां आख्यायिकाकर्ता तथा च स्वयं दृश्यकथानिपुणः एम् टि वासुदेवन् नायरः एव करिष्यति विख्यातः घोषणानिदेशकः वि ए श्रीकुमार् मेनोन् अस्यापि दृश्यभाष्यस्य निर्देशकत्वं विधास्यति।
इदंप्रथमतया एव महाभारतस्य कथा तस्याः एव व्याप्त्या चलच्चित्ररूपमापाद्यते। अत एव अस्य चित्रस्य भागद्वयं कल्प्यते। प्रथमभागस्य चित्रीकरणं आगामिनि संवत्सरस्य सेप्टम्बर् मासे समारभ्य २०२०तमे संवत्सरे प्रकाशयिष्यते। तदनन्तरं नवति दिनाभ्यन्तरे एव द्वितीयो भागो पि प्रदर्शनाय सिद्धः भविष्यति। मलयालं , हिन्दी , आङ्गलेयः , तमिल् , तेलुगु भाषासु अपि चित्रीकरणं भविष्यति।
Friday, April 21, 2017
V I P संस्कृतेः अन्त्यः, अतिप्रमुखपुरूषाणां वाहनेषु रक्तवर्णदीपाय निरोधः।
नवदिल्ली>भारते अतिप्रमुखपुरुषाणां (VIPs) वाहनेषु अधिकारस्य चिह्नत्वेन प्रयुज्यमानान् रक्तवर्णदीपान् [Beacon Light] मेय् प्रथमदिनाङ्कादारभ्य अपाकर्तुं केन्द्रमन्त्रिमण्डलेन निर्णीतम्। राष्ट्रपतिः प्रधानमन्त्री इत्यादीनाम् अतिप्रमुखव्यक्तीनां वाहनेष्वपि उपरिदीपाः न प्रयोक्ष्यन्ते। किन्तु रुग्णयानम् , आरक्षकयानम् अग्निशमनवाहनम् इत्यादिषु अवश्यसेवनयानेषु उपरिदीपान् उपयोक्तुं शक्यन्ते।
"एकैकः भारतीयः सविशेषः, तथा एकैकः भारतीयः अतिप्रमुखपुरुषः च भवति" - प्रधानमन्त्रिणा नरेन्द्रमोदिना ट्विटर् मध्ये लिखितं च।
व्याजधनम्- पाक्किस्थान प्रधानमन्त्रिणं नवास षेरीफं प्रति अन्वेषणाय विज्ञापनम्।
इस्लामाबाद्>पनामा गेट्ट् विवादे पाक्किस्थान प्रधानमन्त्रिणं नवासषेकीफं तथा परिवारं प्रति अन्वेषणाय पाक्किस्थान उन्नतन्यायालयस्य विज्ञापनम्। षष्ठि दिनेष्वन्तरे प्रतिवेदनं समर्पणीयमित्यपि न्यायालयेन विज्ञापितम्। षेरीफ् पुत्रौ हसन्, हुसैन् च साक्षात् आगन्तव्याः सन्ति।१९९० संवत्सरे प्रधानमन्त्रितया शासनकाले व्याजरुप्यकमुपयुज्य लण्डन् देशे गृहाणि तथा भूक्रयणम् अकरोत् इत्यस्ति आरोपणम्। षेरीफ् कुटुम्बस्य ब्रिट्टन् राष्ट्रे वर्तमानानाम् आर्थिकस्थितीनां विवरणं पनामा दुर्व्यय रेखासु वर्तते।
रषिया राष्ट्रपतिः व्लाटिमिर् पुटिन्,चैना राष्ट्रपतिः षी चिन्पिङ्,पाक्किस्थान प्रधानमन्त्री नवास षेरीफ् ,अन्ये द्वादश राष्ट्राधिकारिणः,सप्तत्यधिक राष्ट्राणां १२८ उन्नत राजनैतिक नेतारः,विश्वस्य शतशः कोटिपत्यः च पनामा आस्थानवत्या संस्थया अनधिकृतं धनव्ययम् अकुर्वन् इति सूचनाः बहिरागच्छन्ति।
मातृराष्ट्रस्य करनियमान् उल्लंघ्य अनधिकृत धननिक्षेपकेषु पञ्चशताधिकाः भारतीयाः अपि सन्ति। तेषु चलनचित्र अभिनेता अमिताभ बच्चः,अभिनेत्री ऐष्वर्या रायः,डी एल् एफ् संस्थायाः अधिपः के पी सिङः,विनोद अडानी,दिवंगतः इक्बाल् मिर्ची इत्यादयाः सन्ति। रेखासु पादकन्दुक क्रीडाकारः लयणल् मेस्सी,पूर्व क्रीडाकारः मिषेल् प्लाट्टिनि, नटः जाक्कि तान् इत्यादयः अपि व्याजधननिक्षेपकाणां सूच्यां सन्ति।
श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारिताविषयिणी कार्यशाला
नवदिल्ली >गतदिने नवदिल्लीस्थे श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारितासम्बद्धा कार्याशाला समायोजिता |विद्यापीठस्य कुलपतेः प्रो.रमेशचन्द्रपाण्डेयवर्यस्य आध्यक्षे भारतीयजनसंचारसंस्थानस्य निदेशकः के.जी.सुरेशः मुख्यातिथिरूपेण आकाशवाण्याः सहायकनिदेशिकां डॉ ललिताचतुर्वेदिवर्या विशिष्टातिथिरूपेण आकाशवाण्याः संस्कृतएकांशस्य पूर्वप्रभारी डॉ. बलदेवानन्दसागरः Times Of India इति वार्ताः पत्रस्य प्राक्तन क्षेत्रीयसम्पादकः राजेन्द्रभारद्वाजश्च समुपातिष्ठन्त।संस्कृतपत्रकारितायाः कृते IIMC इति भारतीयजनसंचारसंस्थानेन विद्यापीठेन साकं सम्मिल्य संयुक्तपाठ्यक्रमसंचालनविषयेSपि मन्त्रणा सञ्जाता | कार्यशालायाः औद्घाटनिकसत्रे मुख्यातिथिना संस्कृतपत्रकारितायां न्यूजलैटर-कम्यूनिटिरेडियो चेति विषयद्वये व्याख्यानं प्रदत्तम् | आकाशवाण्याः सहायकनिदेशिकावर्यया रेडियोफीचरलेखनम् इति विषये स्वीयानुभवः विज्ञापितः | द्वितीयसत्रे डॉ. बलदेवानन्दसागरेण पत्रकारितायां प्रतिवेदनस्वरूपं विशदं वर्णितम् |
अधिकद्वितीयकक्ष्याच्छात्रेण(+2) चालितं कारयानम् अटनमार्गम् अतिक्रम्य; द्वयोर्मरणम्।।
नवदिल्ली > द्वादशकक्ष्यावार्षिकपरीक्षायां समाप्तायाम् तस्य आघोषाय प्रस्थितै: छात्रै: सञ्चालितं कारयानम् अटनमार्गे सुप्तानामुपरि प्रविश्य द्वौ मृतवन्तौ । त्रयाणाम् अवस्था अतीव गुरुतरा वर्तते । उत्तरदिल्ल्यां कश्मीरकवाटसमीपे प्रात: ५.४५ वादने इयं घटना । अमितवेगेन आगतं कार् यानं नियन्त्रणमतिक्रम्य अटनमार्गं प्रति अपक्रान्तम् । दिल्ल्या: प्रमुखविद्यालयस्थछात्रा: चत्वारः(४) एव कारयाने आसन् तै: एव यानं चालितं च। घटनासम्बद्धौ द्वौ छात्रौ आरक्षका: गृहीतवन्त:। द्वावपि यानचालनाय अप्राप्तवयस्कौ। द्वौ तत: पलायितवन्तौ च। छात्रा: मद्यपिता: वेति निरीक्षणाय वैद्यसाहाय्यं स्वीकरिष्यन्ति।Thursday, April 20, 2017
ग्रीन्लाण्ड् द्वीपे बृहत् छिद्रम्। वैज्ञानिकानां पूर्वसूचना।
नासा>विश्वस्य बृहत्तमस्य द्वीपस्य ग्रीन्लाण्डस्य हिमावरणेषु दीर्घं छिद्रम्
दृष्टम्। द्वीपस्य प्रधाने भागे पीट्टरमेन् हिमान्यां सञ्जातस्य छिद्रस्य
चित्राणि नासा बहिः प्रैषयत्। सामान्यतया हिमान्याः पार्श्वेषु छिद्राणि
दृश्यन्ते।किन्तु पीट्टरमेन् हिमान्याः मध्यभागे एव छिद्रम् अभवत्। अस्य
छिद्रस्य कारणमन्विष्य वैज्ञानिकाः आकुलाः भवन्ति।हिमान्याः पूर्वे पार्श्वे पूर्वागतम् एकं छिद्रं शन्नैः मध्यभागं चलदस्ति। एतौ द्वौ छिद्रौ मिलति चेत् तत्कारणेन जायमानः पारिस्थितिकपरिणामः भीकरमेव भविष्यति।
इदानीं भीत्याः आवश्यकता नास्तीति वैज्ञानिकाः वदन्ति। द्वयोः छिद्रयोः मेलनस्य अवकाशः अपि इदानीं नास्ति।
१०१० तमे २०१२ तमे च पीट्टरमेन् हिमानीतः बृहत् हिमखण्डानि विच्छिद्य पतितानि आसन्। २०१० आगस्तमासे पतितस्य हिमखण्डस्य मानहट्टन् नगरस्य द्विगुणाकारम् आसीत्। तत् यु एस् कोण्ग्रस् सभायामपि चर्चाविषयं जातम्।
Subscribe to:
Comments (Atom)

