OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, April 27, 2025

 सम्प्रतिवार्तायाः संस्कृतवार्ताप्रस्तुतिपरिशीलनं सम्पन्नम्।

  गुरुवायूर्>  केन्द्रियसंस्कृत-विश्वविद्यालयस्य  सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सम्पन्नम् सि एस् यू संस्थायाः गुरुवायूर् परिसरे आसीत् परिशीलनम्। 

     केरलस्य विविधजनपदेभ्यः विद्यालयेभ्यः चिताः पञ्चाशत् छात्राः दिनद्वयात्मके परिशीलनकार्यक्रमे भागं गृहीतवन्त‌ः। 

  छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं तेषां भाषाशुद्धीकरणाय च इयम्  अभियोजना  प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः  मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्। 

   परिशीलनकार्यक्रमस्य उद्घाटनम् आकाशवाणी -दूरदर्शनकेन्द्रस्य  तृशूर् निलयस्य प्रसारणकार्यकर्त्री (Transmission Executive) अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः कार्यक्रमे अध्यक्षः अभवत्। कलालये वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां कृतवती। 

  सम्प्रतिवार्तायाः प्रबन्ध- सम्पादकः (Managing editor) एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, ऐवर्काला रविकुमारः, रमा टि के, डो. माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः।


 ऐ एस् आर् ओ संस्थायाः पूर्वाध्यक्षः के कस्तूरिरङ्गः दिवंगतः। 


बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः भूतपूर्वः अध्यक्षः, शैक्षिकविचक्षणः च के कस्तूरिरङ्गः बङ्गलुरुनगरस्थे स्वभवने दिवंगतः अभवत्। पञ्चाशीतिवयस्कः आसीत्। 

 नववर्षाणि यावत् इस्रो सम्स्थायाः अध्यक्षः आसीत् डो  के कस्तूरिरङ्गः। ततः सः राज्यसभायां सदस्यपदम् अलङ्कृतवान्। तस्मिन् सन्दर्भे आसूत्रणसमित्यंगः आसीत्। 

  नरेन्द्रमोदीसर्वकारस्य नूतनशैक्षिकनयस्य समित्यध्यक्षः के कस्तूरी रङ्गवर्य आसीत्। पश्चिमपर्वतसानुसंरक्षणाय नियुक्तस्य आयोगस्य अध्यक्षः आसीदयम्। केन्द्रप्रशासनेन पद्मविभूषणपुरस्कारेण सम्मानितः अयं १९४० तमे वर्षे एरणाकुलं जनपदे लब्धजन्मा अभवत्। पितरौ तु केरलमध्युषितौ तमिलनाट् प्रदेशीयौ आस्ताम्।

 पहल्गामभीकराक्रमणे पाकिस्थानस्य भागधेयं  भारतं सप्रमाणं प्रबोधयति।

नवदिल्ली> पहल्गामे भीकरैः कृतायाः नरहत्यायाः पृष्ठभूमौ पाकिस्थानस्य भागभागित्वमस्तीति  विदेशराष्ट्राणि भारतेन सप्रमाणं प्रबोधितानि।  गुप्तान्वेषणसंस्थाभिः उपसंक्रमितानां साङ्केतिकप्रमाणानाम् आधारे अस्ति भारतस्य विश्वासयोग्यं प्रबोधनम्। 

  दृक्साक्षिभिरपि सम्पादितानि प्रमाणानि अपि उपयुज्य पाकिस्थानस्य भागधेयं प्रमाणीकर्तुम् अशक्यत। गतदिनेषु विविधलोकराष्ट्रप्रतिनिधिभिः सह कृते आशयविनिमये आसीत् भारतस्य इदम् उद्बोधनम्।

Saturday, April 26, 2025

 'सम्प्रतिवार्तायाः' संस्कृतवार्ताप्रस्तुतिपरिशीलनं समारब्धम्। 

गुरुवायूर्>  केन्द्रियसंस्कृतविश्वविद्यालयस्य [CSU] सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सि एस् यू संस्थायाः गुरुवायूर् परिसरे समारब्धम्। छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं छात्राणां भाषाशुद्धीकरणाय च अभियोजनेयं प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः  मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्। 

 दिनद्वयात्मकस्य  परिशीलनस्य उद्घाटनं आकाशवाणी - दूरदर्शनकेन्द्रस्य  तृशूर् निलयस्य प्रसारणकार्यकर्त्री [Transmission Executive] अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः आध्यक्ष्यमावहत्। परिसरे वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां समार्पयत्। 

  सम्प्रतिवार्तायाः  एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, एवर्काला रविकुमारः, रमा टि के, डो माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः। केरलस्य भिन्नानां  जनपदानां  विद्यालयेभ्यः चिताः  पञ्चाशत् छात्राः परिशीलने भागं स्वीकुर्वन्ति।

 पहल्ग्राम् भीकराक्रमणम्: यु एन् सुरक्षासमित्या सशक्तम् अपलपितम्।

  संयुक्तराष्ट्रसख्यम्> जम्मूकाश्मीरे दुरापन्नं भीकराक्रमणं यु एन् सुरक्षासमित्या सबलम् अपलपितम्। आक्रमणे अन्तर्भूतान् सर्वान् प्रत्यभिज्ञाय नियमस्य पुरतः आनेतव्यमिति सुरक्षासमित्या प्रोक्तम्। भीकराक्रमणे कारणभूतान् अपराधीन् , संघाटकान् , धन साहाय्यं दत्तान् सर्वान् गृहीत्वा न्यायालयस्य पुरतः अवश्यम् आनेतव्यमिति सुरक्षासमित्यङ्गाः सर्वे सुदृढम् अपेक्षितम् इत्यासीत् माध्यमप्रस्तावः। सुरक्षासमित्याः अध्यक्षेणैव संघाङ्गानां कृते प्रस्तावोऽयं बहिः प्रकाशिता।

Friday, April 25, 2025

 भारतं प्रतिप्रहरति। 

पाकिस्थानीयाः पलायनीयाः।

+ सिन्धूनदीजलसन्धिः जडीकृतः। + भारतस्य नयतन्त्रप्रतिनिधयः प्रत्याहूताः। + वागा-अट्टारि सीमा पिहिता।  +पाकिस्थानेभ्यः विसापत्रं न दास्यति। 

नवदिल्ली> गतदिने पहल्गामे दुरापन्नायां नरहत्यायां भारतस्य प्रतिप्रहारप्रक्रमाः आरब्धाः। भारते वर्तमानाः पाकिस्थानीयनागरिकाः क्षणेनेव भारतात् प्रतिगन्तव्याः इति सर्वकारेण आदिष्टम्। सिन्धुनदीजलं उपयोक्तुं पाकिस्थानाय दत्तः अनुज्ञासन्धिः शिथिलीकृतः। 

  पाकिस्थाने वर्तमानाः भारतस्य नयतन्त्रप्रतिनिधयः  प्रत्याहूताः। तथा च भारतात् पाकिस्थानस्य प्रतिनिधिभिः अचिरादेव राष्ट्रं त्यक्तव्यमिति आदिष्टम्। 

  वागा-अट्टारि सीमा कतिपयकालं यावत् भारतेन  पिहिता। नूतनानि विसापत्राणी पाक्-नागरिकेभ्यः न दास्यन्ति इति च भारतसर्वकारेण निगदितम्।

Thursday, April 24, 2025

पहल्गाम आक्रमणं - भीकराः पाकिस्थानेन परिशीलिताः।
 श्रीनगरं> जम्मु-काश्मीरस्थे पहल्गामे गतदिने विधत्तायाः नरहत्यायाः पृष्ठभूमिकायां पाकिस्थानस्य भागभागित्वं प्रकाश्यमानं वर्तते। सैनिकवेषेण आगत्य पर्यटकान् विरुध्य भुषुण्डिप्रयोगं कृतवन्तः भीकराः पाकिस्थानेन परिशीलनं लब्धवन्तः इति अन्वेषणसंस्थया निगदितम्। आक्रमणं कृतवतां त्रयाणां पाक् -भीकराणां रेखाचित्रं ऐ एन् ए संस्थया बहिर्नीतम्। एतैः सह आक्रमणं कृतवन्तौ द्वौ काश्मीरीयौ अपि पाकिस्थाने परिशीलनं लब्धवन्तौ इति सूच्यते। एतेषां भावचित्राणि समाजिकमाध्यमेषु प्रचरन्ति। आक्रमणं कृतवन्तः 'दि रसिस्टन्स् फ्रन्ट्' इति भीकरसंघटनस्य प्रवर्तकाः सैन्येन वलयीभूताः इति वृत्तान्तमस्ति।

 पहल्ग्राम् भीकराग्रमणम् - अद्य नवदिल्ल्यां सर्वदलमेलनं भविष्यति।

    नवदिल्ली> २६ जनानां मृत्युकारणभूतस्य पहल्ग्राम भीकराक्रमणस्य सन्दर्भे भारतसर्वकारेण अद्य सायङ्काले षट्वादने संसदभवने सर्वदलमेलनम् आयोक्ष्यते। मेलने प्रतिरोधमन्त्री राजनाथसिंहः आध्यक्षम् अवाप्स्यति। कोण्ग्रस्, डि एम् के, टि एम् सि, टि डि पि शिवसेना, आ र्जे डि, जे डि यु इत्यादि संघस्य विपक्षदलनेतारः भागं अवाप्स्यन्ति। भीकराक्रमणस्य विशदांशानि, स्वीकृताः प्रक्रमाः च मेलने विश्दीकरिष्यन्ति।

Wednesday, April 23, 2025

 पहल्गाम भीकराक्रमणम् 

प्रधानमन्त्री नरेन्द्रमोदी सौदीतः प्रतिनिवृत्तः। 

गृहमन्त्री श्रीनगरं प्रस्थितः। 

विश्वनेतृभिः आक्रमणमपलपितम्। 

नवदिल्ली>  काश्मीरे पहलगामप्रदेशे आपन्नस्य आतङ्कवाद्याक्रमणस्य गौरवमालक्ष्य सौदीराष्ट्रसन्दर्शनार्थं प्रस्थितवान् प्रधानमन्त्री नरेन्द्रमोदी कार्यक्रमान् संक्षिप्य राष्ट्रं प्रत्यागतवान्। प्रधानमन्त्रिणः निर्देशमनुसृत्य गृहमन्त्री अमित शाहः रात्रावेव श्रीनगरं प्राप्तवान्। सेनायाः अन्वेषणसंस्थायाश्च उन्नतस्तरीयमेलनम् आयोज्य दुरन्तविशकलनं कृतम्। आक्रमणकारिणः वृथा न विमोक्ष्यन्ते इति अमित शाहेन प्रस्तुतम्। 

  सर्वे विश्वनेतारः आक्रमणं नरहत्यां च अपलपितवन्तः। भीकरनिर्मार्जने भारतेन सह वर्तते इति यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रोक्तम्।

 झार्खण्डे अष्ट मावोवादिनः निहताः। 

राञ्ची> झार्खण्डे बोकारो इत्यत्र सुरक्षासेनया सह प्रतिद्वन्द्वे अष्ट मावोवादिनः व्यापादिताः। मृतेषु विवेकः इत्याहूयमानः प्रयाग माञ्चिः    एक कोटिरूप्यकाणि शिरोमूल्यविज्ञापितः अस्ति। संघटनस्य केन्द्रियसमित्यङ्गः भवत्ययम्। अन्येषु द्वावपि मावोवादिनां मुख्यनेतारौ स्तः।

 काश्मीरे भीकराणां नरहत्या।

भुषुण्डिप्रयोगेण २६ विनोदसञ्चारिणः हताः। 

+ पुल्वामप्रकरणानन्तरं बृहत्तमम् आक्रमणम्। 

+ उत्तरदायित्वं स्वीकृत्य टि आर् एफ् इति संघटनम्। 

दुरन्तस्थानं प्रति सुरक्षाभटानां विन्यासः। 

श्रीनगरं> किञ्चित्कालविरामानन्तरं जम्मु काश्मीरे सामान्यजनान् लक्ष्यीकृत्य भीकराणाम् आक्रमणम्। ह्यः अनन्तनागजनपदस्थे पहल्गाम् इत्यत्र बैसरणं सन्द्रष्टुमागतानां विनोदसञ्चारिणां विरुध्य कृतेन भुषुण्डिप्रयोगेण २६ सामान्यजनाः निहताः। १५ जनाः क्षताः। तेषु पञ्चानामवस्था तीव्रतरा इति सूच्यते। 

  २०१९ तमे वर्षे आपन्नस्य  पुल्वामभीकराक्रमणस्य अनन्तरं भारते जायमानं बृहदाक्रमणं भवत्येतत्। मङ्गलवासरे मध्याह्नानन्तरं त्रिवादने पहल्गामतः षट् किलोमीटर् दूरे बैसरणं नामिकामधित्यकां सन्द्रष्टुं प्राप्तवतां जनान् लक्ष्यीकृत्य सैनिकवेषेण आगताः सप्त भीकराः अनिर्गलतया  भुषुण्डिप्रयोगं कृतवन्तः। 

  हताः विनोदसञ्चारिणः विविधराज्येभ्यः प्राप्तवन्तः सन्ति। केचन विदेशीयाः अपि तेषु अन्तर्भवन्तीति सूच्यते। एन् ऐ ए संस्थया प्रकरणस्य अन्वेषणं स्वीकृतम्।

Tuesday, April 22, 2025

 मार्पापावर्यस्य देहवियोगः आविश्वं दुःखसागरे। 

सेन्ट् पीटेर्स् देवालये बुधवासरे सामाजिकदर्शनम्। 


वत्तिकान सिटि> करुणार्द्रप्रेमस्य मूर्तिमद्रूपस्य, फ्रान्सिस् मार्पापावर्यस्य इहलोकवियोगे विश्वस्मिन् सर्वत्र जनाः विश्वासिसमूहश्च दुःखसागरे मग्नाः वर्तन्ते। लोकनेतारः हृदयशोकं प्रकाशितवन्तः। अनुकम्पा, विनयः, आत्मीयता इत्येतेषां प्रकाशमानमूर्तिरासीत् फ्रान्सिस् मार्पापा इति भारतप्रधानमन्त्री नरेन्द्रमोदी प्रावोचत्। 

  "फ्रान्सिस् परमेश्वरस्य धामं प्रतिनिवर्तितवान्" इति  वत्तिकानस्य हर्म्यनिदेशकेन कर्दिनाल् केविन् फेरल् इत्यनेनेन आधिकारिकतया निगदितम्। येशुदेवस्य पुनरुज्जीवनदिने [ईस्टर्], गते रविवासरे पापावर्यः सेन्ट् पीटेर्स् चत्वरे सम्मिलितान् विश्वासिजनान् अभिसम्बोधयति स्म। तदेव तस्य अन्तिमः सामाजिककार्यक्रमः। 

  बुधवासरे पापावर्यस्य भौतिकं शरीरं वत्तिक्कानस्थे सेन्ट् पीटेर्स् देवालये सामाजिकदर्शनाय स्थापयिष्यति। अन्त्यविश्रान्तिस्थानं तु सान्ता मरिया मार्जरि देवालयः भवति।

Monday, April 21, 2025

 फ्रान्सिस् मार्पापावर्यः परमधाम्नि विलयं प्राप।


वत्तिकान् सिटी> क्रिस्तीयधर्मे आगोलकत्तोलिकासभायाः परमोन्नतः आत्मीयाचार्यः फ्रान्सिस् मार्पापावर्यः नित्यतां विलयं प्राप। अद्य भारतीयसमयानुसारं मध्याह्नात्पूर्वं ११. १५ आसीत्तस्य वियोगः। ८८ वयस्कः सः कत्तोलिकासभायाः २६६ तमः मार्पापापदीयः अस्ति। 

 क्रिस्तीयधर्मे मानविकतामूल्यानुसारं परिष्करणाय प्रयतितवान्। महिलानां बालकानां चाधिकाराय सदा व्यवहृतवान्। धार्मिकसाहोदर्याय निरन्तरं प्रयत्नं कृतवान् मार्पापावर्यः मानवप्रेमस्य महनीयादर्शरूपेण वर्तमानः आसीत्।

 ट्रम्पं विरुध्य अमेरिक्कायां महान् प्रतिषेधः। 


न्यूयोर्क्> वाषिङ्टणः, न्यूयोर्क् इत्यादिनगरस्थेषु वीथिषु राष्ट्रपतिनं डोणाल्ड् ट्रम्पं विरुध्य महान् जनप्रतिषेधः प्रचलति। ५०५०१ इति कृतनामधेये अस्मिन् प्रतिषेधे सहस्रशः जनाः भागं कुर्वन्ति। ५० राज्यानि, ५० प्रतिषेधाः, एकं लक्ष्यम् इत्यर्थः कल्प्यते अस्यान्दोलनस्य। 

  कर्माचारसंस्थाभ्यः  सेवकानां विसर्जनं, देशाधिवासिनाम् अपनयनं, व्ययाकुञ्चनस्य प्रक्रमाः इत्यादयः राष्ट्रे मूल्यवर्धनस्य कारणं भविष्यतीत्याशङ्का अस्ति। 

  १७७५ एप्रिल् १९ तमे दिनाङ्के सम्पन्ने 'अमेरिकीयान्दोलनस्य' २५० तमे वार्षिकदिने - शनिवासरे- आसीदयं प्रक्षोभः आरब्धः।

 केरले विद्यालयाः जूण् द्वितीये दिनाङ्के उद्घाटयिष्यन्ते।

अनन्तपुरी> केरले सामाजिकविद्यालयाः ग्रीष्मकालीनविरामानन्तरं जूण् मासस्य द्वितीये दिनाङ्के उद्घाटयिष्यन्ते इति  शिक्षामन्त्रिणा वि शिवन्कुट्टिना प्रोक्तम्। राज्यस्तरीयं प्रवेशोत्सवम् आलप्पुषा जनपदे आयोजयिष्यति। मन्त्रिणा निगदितं यत् अस्मिन् वर्षे परिष्कृतानां पाठ्यपुस्तकानां  प्रकाशनं बुधवासरे अनन्तपुर्यां मुख्यमन्त्रिणा पिणरायि विजयेन निर्वक्ष्यति।

 अमेरिकस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतम् आगच्छति।

    अमेरिकादेशस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतदेशं प्रति आगच्छति। दिनचतुष्टयस्य भारतसंदर्शनाय सः स्वकुटुम्बसहितम् आगच्छति। अद्य प्रभाते पाळं-विमानपत्तने समागच्छन्तं तं विदेशकार्यमंत्रालयस्य अधिकारिणः स्वागतं कुर्वन्ति।

   अद्य सायं वान्सः भारतप्रधानमंत्रिणा नरेन्द्रमोदिना सह मेलिष्यति, वाणिज्य-शुल्कसम्बद्धविषयानपि च प्रमुखतया चर्चिष्यन्ति।

Sunday, April 20, 2025

 खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एसात् निगृहीतः। 

वाषिङ्टणः> पञ्चाबे विधत्तेषु बहुषु भीकराक्रमणेषु भागं कृतवान् इत्यतः भारतेन मार्ग्यमाणः खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एस् राष्ट्रात् एफ् बि ऐ इति राष्ट्रियान्वेषणसंस्थया कालिफोर्णियात एव सः निगृहीतः। तस्य निग्रहणं यू एसेन आधिकारिकतया भारतं निगदितम्।

 डेविड् हेड्ली पुनरपि परिप्रष्टव्यः  स्यात्। नवदिल्ली> मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः डेविड् कोल्मान्  हेड्ली पुनरपि एन् ऐ ए संस्थया परिपृच्छाविधेयः भविष्यति। एन् ऐ ए संस्थायाः निग्रहणे वर्तमानस्य तेहावूर राणस्य परिपृच्छायाः आधारे एव एन् ऐ ए संस्थया अयं निर्णयः कृतः। एतदर्थं यू एस् राष्ट्रस्य साह्यं भारतेन क्रियते इति सूच्यते।