संस्कृतभाषाप्रचारणमण्डले संस्कृतभारत्याः योगदानं महत्तरं - एम् सि दिलीप् कुमारः।
![]() | |
|
अस्मिन् संस्कृतसङ्गमे संस्कृतशास्त्रपण्डितः ग्रन्थकारश्च वारणक्कोट्ट् गोविन्दन् नम्पूतिरिः , रेखाचित्रकारः वेणु वारियत्त् इत्येतौ पण्डितरत्नपुरस्कारेण आदृतौ। संस्कृतभारत्याः अखिलभारतीयसंघटनाकार्यदर्शी दिनेश् कामत्त् वर्यः मुख्यभाषणमकरोत्। राज्याध्यक्षः डो. पि के माधवः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। उपाध्यक्षः डो. ई एन् ईश्वरः स्वागतं, पि एम् जोषी कृतज्ञतां च प्रकाशितवन्तौ।











