वातावरणे समस्या। मौनेन तिष्ठति स्वीडन् राष्ट्रम्।
OUR YouTube Channel 1. SampratiVartah |
marquee
Sunday, November 27, 2022
विश्वचषकपादकन्दुकक्रीडा - खत्तरः बहिर्गतः; इरानस्य विजयः।
दोहा> आतिथेयराष्ट्रं खत्तरः विश्वचषकपादकन्दुकक्रीडापरम्परातः बहिर्गतः। शुक्रवासरे सम्पन्ने प्रतिद्वन्द्वे आफ्रिक्कीयदलेन सेनगलेन पराजितः, तथा च अन्यस्मिन् प्रतिद्वन्द्वे इक्वडोरेण सह नेतर्लान्ड् समातां प्राप्तवत् इत्यनेन च खत्तरस्य बहिर्गमनं अनिवार्यमभवत्।
शुक्रवासरस्य स्पर्धायामन्यस्यां एष्याविजयेभ्यः अनुस्यूततां प्रदाय इरानः वेयिल्स् दलं प्रत्युत्तरहीनेन लक्ष्यकन्दुकद्वयेन पराजितवान्। अनेन इरानाय त्रयः अङ्काः लब्धाः।
अपरिमितस्य ईश्वरस्य सन्तानोऽहम्। प्रत्यागमिष्यामि इति नेय्मर्।
सेवामार्गे अतिकठिनकालेन सह गच्छन् अस्मि। विश्वचषके व्रणितः इत्येतत् हृदयवेदनाजनकं भवति इति ब्रसीलस्य उत्तमक्रीडकः नेय्मरः वदति। अपरिमितस्य ईश्वरस्य पुत्रोऽहम्। मम विश्वासः अनन्तः इत्यपि तेन मुखपुस्तके उक्तम्। विश्वचषके सेर्बियं विरुध्य प्रचलितायां प्रतियोगितायां व्रणितः सन् बहिः गते सन्दर्भ एव नेतःय्मरेण मुखपुस्तके एवं लिखितम्। तस्मै आगामि स्पर्धाद्वयोः भागं स्वीकर्तुं न शक्यते।
Saturday, November 26, 2022
पि एस् एल् वि - सि५४ विक्षिप्तः। भूनिरीक्षणकृत्रिमोपग्रहः भ्रमणपथे।
श्रीहरिक्कोट्टा> भारतस्य भूनिरीक्षण कृत्रिमोपग्रहः-६ (Earth observation sattlite-6 ) आहत्य नव उपग्रहैः साकं ऐ एस् आर् ओ संस्थायाः पि एस् एल् वि ५४ आकाशबाणः विक्षिप्तः। श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशनिलयात् एव विक्षेपणं सम्पन्नम्। ओष्यन् साट्ट् परम्परयां समुत्पन्नं भौमनिरीक्षणोपकरणमेव प्रधानम्। अन्ये नानो कृत्रिमोपगहाः भवन्ति। पि एस् एल् वि एक्स् एल् विभागस्य२४ तमः विक्षेपणमस्त्येतत्।
Friday, November 25, 2022
S S L C परीक्षाः मार्च् नवमदिनाङ्कतः ; H S S परीक्षाः दशमदिनाङ्कतः।
अनन्तपुरी> केरलेषु दशमीकक्ष्याछात्राणां सामान्य परीक्षा - एस् एस् एल् सी नामिका- मार्च्मासस्य नवमे दिनाङ्के आरप्स्यते। उच्चतरविद्यालयीयछात्राणां परीक्षा दशमदिनाङ्के च आरप्स्यते। ह्यः केरलस्य शिक्षामन्त्री वि शिवन्कुट्टी वर्येण विधत्ते वार्ताहरसम्मेलने एवं निगदितम्।
एस् एस् एल् सी परीक्षाः प्रभाते ९. ३० वादने भविष्यन्ति। मूल्यनिर्णयः एप्रिल् तृतीयदिनाङ्के आरप्स्यते। आदर्श परीक्षा फेब्रुवरी २७ तः मार्च् ३ पर्यन्तं भविष्यति।
बहुपत्नीत्वं, निक्काह्, हलाला - साधुतापरिशोधनाय नूतनः नीतिपीठः।
नवदिल्ली> इस्लामीयपुरुषाणां बहुपत्नीत्वं, निक्काह्, हलाला इत्येतेषां नीतिसाधुतापरिशोधाय नूतनं पीठं रूपीकर्तुं सर्वोच्चन्यायालयेन निश्चितम्। पूर्वं प्रकरणानि परिगणितवतः नीतिपीठात् इन्दिरा बैनर्जी , हेमन्तगुप्तः इत्येतौ नीतिज्ञौ सेवानिवृत्तौ इत्यत एवायं निर्णयः।
Wednesday, November 23, 2022
बालभारती पब्लिक् विद्यालये त्रिदिवसीया संस्कृतोत्सवप्रदर्शनी सम्पन्ना
अनेन भव्य आयोजनेन
Monday, November 21, 2022
बृहत् भूचलनेन इन्डोनेष्या प्रकम्पिता। जावाद्वीपे १६२ जनाः मृत्युमुपगताः।
बहवः जनाः भवनावशिष्टेषु निमग्नाः।
जक्कार्ता> इन्डोनेषियायाः जावा नामके द्वीपे गतदिने दुरापन्ने महति भूकम्पे १६२ जनाः मृत्युमुपगताः। ७०० अधिकाः जनाः आहताः। द्विसहस्राधिकानि भवनानि, नैके विद्यालयाः, आतुरालयाः निरवधिकानि अन्यानि भवनानि च विनाशं गतानि। २७ कोटि परिमितस्य जनसंख्यायुक्तस्य मुख्यद्वीपो भवति जावा।
रिक्टर् स्केयिल् इत्यस्मिन् ५. ६ तीव्रता अङ्किता आसीत्। दुरन्तमुखे स्थीयमानाय राष्ट्राय भारतमभिव्याप्य बहूनि राष्ट्राणि साहाय्यमकुर्वन्।
Sunday, November 20, 2022
विश्वजनसंख्या इदानीं ८०० कोटिः अभवत्।
ऐक्यराष्ट्रसभायाः गणनानुसारं विश्वजनसंख्या इदानीं ८ कोटिः अभवत्। यु एन् इत्यस्य नूतनप्रवचनानुसारम् आविश्वजनसंख्या २०३० संवत्सरे इयं संख्या ८.५ कोटिः, २०५० संवत्सरे ९.७ कोटिः, २०६० संवत्सरे १०.४ कोटिः इति क्रमेण वर्धिष्यते इति सूचना अस्ति। एकसंवत्सरानन्तरं भारतं विश्वजनसंख्यायां प्रथमस्थानं प्राप्स्यति इति प्रतिवेदने सूचयति।
Saturday, November 19, 2022
साहाय्यनिधिः निर्णयरहिता अभवत्। वातावरण-शिखरसम्मेलनं दीर्घितम्।
COP 27
षरम् अल् षेय्ख्> ईजिप्तस्थे षरम् अल् षेय्ख् इति स्थाने आयोजिते COP 27 इति वातावरण-शिखरसम्मेलनं शनिवारपर्यन्तं दीर्घितम्। आगोलतापाधिक्यात् दुरितबाधितेभ्यः विकस्वरराष्ट्रेभ्यः धनसाहाय्यं दातुं निर्णयस्वीकरणे विलम्बः भविष्यति इत्यासीत् शिखरमेलनस्य दीर्धीकरणहेतुः।
समुद्रस्य जलवितानम् क्रमेण उन्नतिं प्राप्नोति इत्यनेन द्वीपराष्ट्राणि भीषायां सन्ति। प्रकृतेः दुरन्तेन ऋणबन्धने पतितान् राष्ट्रान् उद्धर्तुम् आसीत् धनराशिसाहाय्यम्। किन्तु साहाय्यदाने विकसितराष्ट्राणाम् अभिप्रायभिन्नता एव वर्तते।
संस्कृतप्रणयभाजनं पि टी कुरियाक्कोस् मास्टर् अनुस्मरणं सम्पन्नम्।
वैयाकरणः डो पि नारायणन् नम्पूतिरिः समादृतः॥
पावरट्टी साहित्यदीपिकायाः संस्कृत विद्यालयसंस्थापकस्य संस्कृतप्रणयभाजनस्य पि टी कुरियाक्कोस् मास्टर् वर्यस्य अनुस्मरणं
तन्नाम्नि आयोजितस्य पारितोषिकस्य समर्पणञ्च सुसम्पन्नम् । गुरुवायूर परिसरे समायोजितां सभां
केन्द्रीयसंस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो : श्रीनिवासवरखेडी वर्यः उदघाटयत्। संस्कृतअक्कादम्याः अध्यक्षः डा. के टी माधवन् अध्यक्ष-पदमलङ्कृतवान्। कोषिक्कोट् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षपदाद् विरताय डो पि नारायणन् नम्पूतिरिमहोदयाय तेन पुरस्कारश्च समर्पितः। 25000 रूप्यकाणि प्रशस्तिपत्रं फलकं च भवति पुरस्कारस्वरूपम् ।
Monday, November 14, 2022
इन्द्रवज्रान् रोद्धुं भीमाकारः प्रकाशदण्डः।
विद्युल्लतां प्रतिरोद्धुं भीमाकारस्य प्रकाशदण्डस्य साहाय्येन अनुसन्धानं प्रचलति। जनीव विश्वविद्यालयस्य गवेषकाः एव अनुसन्धानं कृतवन्तः। अयं दण्डः आल्पस् पर्वतोपरि सान्टिस् गिरिश्रृङ्गे संस्थापितः अस्ति। २० संवत्सराणि यावत् विष्येऽस्मिन् गवेषणं कृतवन्तः भवन्ति एते। षोण् पियेर् वूल्फ् इति नामकः वैज्ञानिकः भवति अस्य अनुसन्धान-विषयस्य मुख्यः नियन्ता। परीक्षणानि अनुवर्तन्ते इति वूल्फ् महाभागेन उक्तम्।
Sunday, November 13, 2022
Saturday, November 12, 2022
हिमाचलप्रदेशे अद्य निर्वाचनम्।
सिम्ला> हिमाचलप्रदेशे विधानसभानिर्वाचनम् शनिवासरे सम्पद्यते। ६८ विधानसभामण्डलानाम् अधीशत्वाय शासनपक्षीयः भा ज पा दलः, विपक्षीयः कोण्ग्रसदलः, तृतीयः आम् आद्मी पार्टिदलश्च स्पर्धिष्यन्ते।
सघोषप्रचारणं गुरुवासरे समाप्तम्। शुक्रवासरस्य निश्शब्दप्रचरणे सामान्यरीतिं विना सामाजिकमाध्यमद्वारा शक्तं प्रचारणं च राजनैतिकदलैः विधत्तम्।
Friday, November 11, 2022
टि-विंशति विश्वचषकस्पर्धायाम् इङ्लण्ट् - पाकिस्तानयोः अन्तिमस्पर्धा।
अड्लैड्> टि-विंशति विश्वचषकस्पर्धायाः पूर्वान्त्यचक्रे भारतस्य दुर्योगः। इङ्लण्ट्दलं प्रति स्पर्धायां भारतं दशानां कन्दुकताडकानां दयनीयपराजयं स्वीकृतवत्। रविवासरे मेल्बणे सम्पद्यमाने अन्त्यप्रतिद्वन्द्वे इङ्लण्टः पाकिस्थानेन सह स्पर्धिष्यते।
गिनिसमुद्रे पण्यमहानौका प्रतिरुद्धा - १६ भारतीयैः सह २६ सेवकाः साहाय्यमपेक्षन्ते।
कोच्ची> समुद्रसीमा उल्लंघनमकरोत् इत्यारोप्य गिनि नामकेन आफ्रिक्काराष्ट्रेण प्रतिरुद्धायां पण्यवस्तुयुक्तायां महानौकायां कर्म कुर्वन्तः २६ महानौकाकर्मकराः गतमङ्गलवासरादारभ्य कारागारवासलुल्यं जीवनमनुभवन्ति। कर्मकराणां मध्ये १६ भारतीयाः अपि अन्तर्भूताः सन्ति। एतान् नैजीरियां नेतुं तद्राष्ट्रस्य सेनया प्रयत्नः आरब्धः।
नोर्वे आस्थानभूतायाः 'ओ एस् एम्' नामकसंस्थायाः स्वामित्वे वर्तमानं हेरोयिक्
कुरियाक्कु मास्टर् स्मारक पुरस्कारसमर्पणम् नवम्बर् 18 तमे दिनाङ्के।
गुरुवायूपुरम्> कुरियाक्कु मास्टर् स्मारकपुरस्कार-समर्पणं तथा स्मारकप्रभाषणं च अस्य मासस्य 18 तमे दिनाङ्के प्रातः सार्धदश वादने पुरनाटुकरा संस्कृत-महाविद्यालयपरिसरे भविता। केन्द्रीय -संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोः श्रीनिवास वरखेडी वर्यः पुरस्कारसमर्पणं करिष्यति। कोषिक्कोट् विश्वविद्यालयस्य संस्कृतविभागाध्यक्षपदवीतः विरतो डा. पि नारायणन् नम्पूतिरिः भवति पुरस्कारविजेता। 25000 रूप्यकाणि, फलकं, प्रशस्तिपत्रञ्च भवति पुरस्कारस्वरूपम्।
संस्कृत-प्रणयभाजनं पि टि कुरियाक्कु मास्टर् (पि टि कुर्याक्कोस्) पावर्टी संस्कृत-महा
Wednesday, November 9, 2022
६९ वयस्काया शुभाङ्गी आप्टे महाभागया १०२ विश्वाभिलेखाः सम्प्राप्ताः।
संस्कृतभाषायाः प्रथमवनितानिर्देशिकायाः चलनचित्रं काश्मीरेषु तथा मणालि प्रदेशेषु च छायाग्रहणं प्रचलति।
मणाली> केरले आलप्पुष़ा जिल्लायां तृक्कुन्नप्पुष़ा इत्यत्र स्थितस्य एम्. टि. यू पि विद्यालयस्य संस्कृताध्यापिका श्रीमती श्रुति सैमण् 'धर्मयोद्धा' नाम चलनचित्रस्य छायाग्रहणे इदानीं व्यापृता भवति। अस्य चलनचित्रस्य निर्देशिका भवति एषा। आविश्वं संस्कृतभाषायाः प्राधान्यं न्यवेदयितुं संस्कृतं सार्वजनिकं कर्तुं च भवति तस्याः प्रयत्नः।
'देशरक्षा परमो धर्मः' इति शीर्षकात् केरलसर्वकारस्य षष्टकक्ष्यायाः संस्कृतपाठात् प्रभाविता भवति अस्य चलनचित्रस्य उद्यमः इति श्रुति महाभागया उक्तम्।
विक्रं रजपुत् इति व्योमसैनिकः काश्मीर पाकिस्थानयोः सीमनि उदग्रयानदुर्घटनायाम् आपन्नः। ततः रक्षां प्राप्य गिरीन् अतिक्रम्य तस्य प्रत्यागमनं भवति कथातन्तुः। छात्रेभ्यः इष्टतमान् विषयान् स्वीकृत्य चलनचित्रं निर्मीयते चेत् संस्कृतभाषाम् अवगन्तुं ते उत्सुकाः भवेयुः इति श्रुति महाभागया उक्तम्।
एतस्यै अध्यापनाय लब्धम् प्रथमं निष्कृतिम् उपयुज्य कर्णाटकस्य मत्तूरु संस्कृतग्रामस्य कथां ह्रस्वचित्ररूपेण निर्मितवती। मात्तूर् ग्रामवासिनां संस्कृतानुबन्धि चलनचित्रम् अनेकेषां बहुवारं पुरस्कृतानां स्वीकतृ भवति।
अस्मिन् विक्रं रजपुतस्य कथापत्रम् आल्विन् जोसफ् पुतुश्शेरि वर्येण केन्द्रकथापत्रेभ्यः नट्यानुकरणं करोति। षिफिन् फात्तिमा, सजिता मनोज्, षफीख् रहिमान् च अन्ये केन्द्रकथापात्राणां नाट्यानुकरणं कुर्वन्ति।
चित्रस्य निर्देशिका - श्रुति सैमण्, छायाग्रहणं - चिञ्चु बालन्, कथा पटकथा च - इम्मानुवेल् एन् के, मुख्य सहकारिनिर्देशकः - अनूप् शान्तकुमारन्, सहकारिनिर्देशकः आल्ड्रिन् चेरियान्, सम्पादकः - विघ्नेष्, भाषिकानुवादः - सै जु ऐक्करक्कुटि, गीतनिर्माता - अय्यम्पुष़ हरिकुमारः, संस्कृतभाषासहायी - राजेष् कालटी, प्रसाधनम् - हमीर् खान्, आशयः - रामभद्रन् तम्पुरान्, निर्माणकार्यकर्ता - लिलु टि पोल्, नटनभूमिप्रबन्धकः - निसां मणालि, कथाफलकं - जोजि जोस्, विज्ञप्तिविधानं - सुजित् डिसैन् च भवन्ति।
Monday, November 7, 2022
टान्सानियायां विमानं भूस्पर्शनावसरे तटाकं पतितवत्।
दारुसलाम्> टान्सानियादेशे भूस्पर्शावसरे विमानं तटाकं पतितवत्। वैमानिकं ऋते आहत्य ४२ यात्रिकाः विमाने आसन्। तेषु २६ यात्रिकान् रक्षित्वा आतुरालये नीतवन्तः इति प्रतिवेदनमस्ति। रक्षाप्रवर्तनानि अनुवर्तन्ते। ह्यः प्रातःकाले एव दुर्घटनेयं दुरापन्ना। प्रतिकूलवातावरणमेव अपघातस्य कारणमिति निर्णीतमस्ति।
Saturday, November 5, 2022
भारतम् अग्निशस्त्रपरीक्षणाय सज्जा; गुप्तचरमहानौकां प्रेषयन् चीनः।
२२०० कि मी सञ्चरितुं शक्तमग्निशस्त्रं ओडीषातीरस्थितात् अब्दुल् कलामद्वीपात् नवंबर् दशमे वा एकादशे दिनाङ्के विक्षिप्यते इति मन्यते। अग्निशस्त्रस्य मार्गः, वेगः, सूक्ष्मता इत्यादीनां सूचनाः चीनाय लभन्ते वा इत्याशङ्कायां भवति भारतम्।
Friday, November 4, 2022
गुजराले निर्वाचनम् उद्घुष्टम्।
चरणद्वयं; डिसम्बर् १, ५।
नवदिल्ली> गुजरातराज्ये विधानसभानिर्वाचनदिनाङ्कः केन्द्रनिर्वाचनायोगेन उद्घुष्टः। डिसम्बरमासस्य १, ५ दिनाङ्कयोः चरणद्वयमालम्ब्य मतदानं विहितम्। हिमाचलप्रदेशेन समं डिसम्बरमासस्य अष्टमे दिनाङ्के मतगणना भविष्यति।
राज्ये आदर्शव्यवहारनियमः प्राबल्यमागतः। डिसम्बर् १तमस्य प्रथमे चरणे ८९ मण्डलेषु पञ्चमे दिनाङ्के ९३ मण्डलेषु च निर्वाचनं विधास्यति।
.webp)




.webp)










.jpg)
