प्रजातन्त्रे प्रश्नप्रच्छनं नागरिकधर्मः।
विचारणीयदृढमतैः न्यायाधीशाः।
![]() |
| न्यायाधीश उज्जल भूयानः। |
नवदिल्ली> प्रजातन्त्रव्यवस्थायां प्रश्नोन्नयनं नागरिकधर्म इति वरिष्ठाः न्यायाधिपाः उद्बोधयामासुः। दिल्ल्यां राष्ट्रिय नियम विश्वविद्यालये [National Law University] एल् एल् एम् बिरुददानकार्यक्रमे भाषणं कृतवन्तः सर्वोच्चन्यायालये न्यायाधीशौ उज्जल भुयानः, बि वी नागरत्ना इत्येतौ, तथा डि एस् बोर्कर् अनुस्मरणप्रभाषणे ओडीशा उच्चन्यायालयस्य पूर्वीयः मुख्यन्यायाधिपः डो एस् मुरलीधरः च चर्च्यमाने अस्मिन् विषये दृढमतमुन्नीतवन्तः।
अधिकारिणः प्रति प्रश्नान् उन्नीतवन्तः इत्यतः छात्रान् विरुध्य भीषाप्रस्तावः दण्डविधिः इत्यादिकं संविधानविरुद्धमिति न्याया. उज्जल भुयानः अवदत्। प्रजातन्त्रीयायां व्यवस्थायां वैकल्ये प्रतिप्रश्निते,सः न धिक्करणीयः भवति। शासनसंविधानाधारत्वेन नागरिकेभ्यः स्वतन्त्रतायाः अंशत्वेन च अङ्गीकृतं उत्तरदायित्वमेवेति च तेन प्रोक्तम्।




















