नेपालप्रलयः
मरणानि ६००; अदृश्यमानाः २४००।
अदृश्यमानाः भारतीयाः ३२०।
काठ्मण्डुः> नेपाल-टिबटसीमायां बुधवासरे दुरापन्ने आकस्मिकप्रलये मृतानां संख्या ६०० अतीता। नेपालात् ५९० मृतशरीराणि अधिगतानि। सप्त शरीराणि प्रवाहे भारतनद्यां प्राप्तानि। टिबटदेशे 'गैैरोङ्' इति प्रलयबाधितप्रदेशे पञ्च जनाः मृताः इति चीनसर्वकारेण निगदितम्।सूचनाः आधारीकत्य २४०० तः अधिके जनाः अदृश्यमानाः वर्तन्ते। तेषु ३२० भारतीयाः सन्ति।
अधिकपरिमाणे शिलापङ्कसंयुक्तानि जनाधिवासस्थानेषु प्रक्षिप्तानि इत्यतः रक्षाप्रवर्तनानि दुष्करं वर्तन्ते। अतः मत्युसंख्या वर्धेत। त्रिशूलीनद्याः प्रान्तेषु अनुस्यूततया वर्षति इत्येतत् रक्षाप्रवर्तनाय प्रतिकूलः अस्ति। अपि च नदीतीरमार्गाः सेतवश्च भग्नाः इत्यतः रक्षाप्रवर्तकसंघः दुरन्तस्थानं प्राप्तुं न शशाक। किन्तु विविधप्रदेशेभ्यः उपद्विसहस्रं जनाः क्षतैरपि रक्षिताः सुरक्षितस्थानेषु प्रापिताः सन्ति।
