उत्तराखण्डे मृत्प्रपातः।
बदरीनाथयात्रा स्थगिता। 
उत्तराखण्डे दुरापन्नः मृत्पातः।
चमोली> उत्तराखण्डे अद्य प्रत्युषसि जाते मृत्प्रपाते बदरीनाथराष्ट्रियमार्गः विनाशितः। चमोली जनपदे जोषिमठ-मार्वारी सेतुसमीपं वीथी विशीर्णः। बहवः तीर्थाटकाः प्रदेशवासिनश्च तत्र लग्नाः। जीवहानिः इतःपर्यन्तं न वत्तान्तीकृतः।