प्रजातन्त्रे प्रश्नपृच्छनं नागरिकधर्मः।
विचारणीयदृढमतैः न्यायाधीशाः। 
न्यायाधीश उज्जल भूयानः।
नवदिल्ली> प्रजातन्त्रव्यवस्थायां प्रश्नोन्नयनं नागरिकधर्म इति वरिष्ठाः न्यायाधिपाः उद्बोधयामासतुः। दिल्ल्यां राष्ट्रिय नियम विश्वविद्यालये [National Law University] एल् एल् एम् बिरुददानकार्यक्रमे भाषणं कृतवन्तः सर्वोच्चन्यायालये न्यायाधीशौ उज्जल भुयानः, बि वी नागरत्ना इत्येतौ, तथा डि एस् बोर्कर् अनुस्मरणप्रभाषणे ओडीशा उच्चन्यायालयस्य पूर्वीयः मुख्यन्यायाधिपः डो एस् मुरलीधरः च चर्च्यमानं दृढमतमुन्नीतवन्तः।
अधिकारिणः प्रति प्रश्नान् उन्नीतवन्तः इत्यतः छात्रान् विरुध्य भीषाप्रस्तावः दण्डविधिः इत्यादिकं संविधानविरुद्धमिति न्याया. उज्जल भुयानः अवदत्। प्रश्नान् पृच्छतीति प्रजातन्त्रे न धिक्कारः किन्तु नागरिकत्वस्य स्वतन्त्रतायाः च शासनसंविधानपरम् उत्तरदायित्वमिति तेनोक्तम्।