नेपालदुरन्तहेतुः भूस्खलनम्।
१६० मरणानि; ८४४ अदृष्टाः। 
दुरन्तस्थानस्य आकाशदृश्यम्।
काठ्मण्डुः> नेपालराष्ट्रे बुधवासरे दुरापन्नस्य आकस्मिकप्रलयस्य कारणं न भूकम्पः तीव्रं भूस्खलनमिति United States Geological Survey (USGS) संस्थया निगदितम्। ४. ४ तीव्रताङ्कितः भूकम्पः जात इति संस्थया निगदितमासीत्। अनुभूतं प्रकम्पनं शक्तेन भूस्खलनेन जातमस्ति।भोट्टे कोशी नद्याः लेन्डे खोलानामकशाखायां शक्तः भूविच्छेदः आपन्नः।
दुरन्तभूमौ रक्षाप्रवर्तनानि चटुलं प्रचलन्ति। १६० मरणानि अभवन्निति इतःपर्यन्तं दृढीकृतम्। मृत्युसंख्या वर्धिष्यते इति सूच्यते। ८४४ जनाः अप्रत्यक्षाः जाताः। तेषु १४२ भारतीयाः सन्ति। विदेशराष्ट्रेभ्यः प्राप्ताः विनोदयात्रिकाः अपि दुरन्ते अदृष्टेषु अन्तर्भवन्ति।