कीव् मध्ये रष्यायाः मिसैल-ड्रोण् आक्रमणं - १६ मरणानि।
कीव्> युक्रैनस्य राजधान्यां समीपप्रदेशेषु च रष्या बुधवासरे रात्रौ विधत्ते तीव्रे व्योमाक्रमणे १६ जनाः मृताः। ४० जनाः क्षताः।
समीपकाले युक्रैनं विरुध्य रष्या 'बालिस्टिक्' अग्निशस्त्राणि उपयुज्य कठिनम् आक्रमणं करोति।'बालिस्टिक्' अग्निशस्त्राणि प्रतिरोद्धुं शक्तं पेट्रियट् मिसैल् आयुधस्य दौर्लभ्यं युक्रैने अस्ति च।