निजीयक्षेत्राणां कृते मिसैल् साङ्केतिकविद्या।
केन्द्रप्रशासनस्य अनुज्ञा लब्धा।
अनन्तपुरी> राष्ट्ररक्षागवेषणसंस्था डि आर् डि ओ [Defence Research and Development Organisation] इत्यनेन साक्षात्कृता अग्निशस्त्रसाङ्केतिकविद्या [Missile Technology] प्रतिरोधमण्डले प्रवर्तमानेभ्यः निजीयसमवायेभ्यः समर्पयितुं रक्षामन्त्रालयेन अनुज्ञा दत्ता। अनेन डि आर् डि ओ संस्थया विकसितानि अग्निशस्त्राणि निजीयसमवायैः निर्मातुं शक्यन्ते।
प्रथमस्तरे परम्परागता मिसैल् साङ्केतिकविद्या एव हस्तान्तरीक्रियते तथापि क्रमेण तन्त्रप्रधाना बालिस्ट्क् मिसैल् शस्त्राणां विकासाय निर्माणाय च निजीयसमवायेभ्यः अवकाशः लप्स्यते। तन्त्रप्रधानायुधानां निर्माणाय ये सज्जाः तादृशान् समवायान् अधिगन्तुं DRDO संस्थया तात्पर्यपत्रम् आमन्त्रितमासीत्।
'आत्मनिर्भर भारतम्' अभियोजनया विभाविता स्वयंपर्याप्तता रक्षामण्डले अपि स्वायत्तीकर्तव्या इत्यस्ति अस्य नयपरिवर्तनस्य कारणत्वेन कथ्यते। रक्षाविभागेन DRDO संस्थया च निश्चितानि सुरक्षातत्वानि मानदण्डान् च ये समवायाः अनुपालयन्ति तेभ्य एव अनुज्ञा लप्स्यते।