संस्कृतभाषा भारतीयज्ञानपरम्परायाः महत्त्वपूर्णा संवाहिका-
"प्रो.पी.वी.बी.सुब्रह्मण्यम् निदेशक: के.सं.सं देवप्रयाग:"
पौडी, उत्तराखण्डम्> डॉ. बी. जी. आर. पौड़ीपरिसरे संस्कृतविभागेन सप्तदिवसीयस्य संस्कृतसप्ताहस्य शुभारम्भः कृतः। अस्मिन् संस्कृतसप्ताहे सप्तदिनपर्यन्तं विविधविषयेषु विशेषज्ञाणां व्याख्यानानि आयोज्यन्ते, येषां मुख्योद्देश्य: संस्कृतभाषाया:, साहित्यस्य तथा भारतीयज्ञानपरम्परायाः समकालीनप्रासङ्गिकताया: प्रकाशनम् अस्ति।
कार्यक्रमे विशिष्टातिथिरूपेण प्रो. अनूपडोबरियालः उपस्थितः आसीत्। तदतिरिक्तं प्रो. यू. सी. गैरोलः, निदेशकः डॉ. बी. जी. आर. परिसरस्य; प्रो. कुसुमडोबरियालः, प्रो. अनीतारुदोला तथा प्रो. एस. सी. गैरोलः अपि गरिमामय्याः उपस्थितेः शोभां ववृधुः।
कार्यक्रमस्य सञ्चालनं डा. दिनेशचन्द्रपाण्डेयः, संस्कृतविभागाध्यक्षः, अकरोत्। तेन संस्कृतसप्ताहस्य आयोजनस्य उद्देश्यः तथा सप्तदिवसीयव्याख्यानश्रृङ्खलायाः विस्तृतविवरणं प्रदत्तं, अतिथीनां प्रतिभागिनां च स्वागतं कृतम्।
कार्यक्रमस्य अन्ते डा. बालकृष्णबडानी, संस्कृतविभागस्य सहायकाचार्यः, धन्यवादज्ञापनम् अकरोत्। तेन मुख्यातिथेः, विशिष्टातिथेः, परिसरनिदेशकस्य, उपस्थितानां प्राध्यापकाणां, विद्यार्थिनां तथा कार्यक्रमे सहयोगं कृतवतां सर्वेषां प्रति हार्दिकः कृतज्ञताभावः व्यक्तीकृतः।
अस्मिन् कार्यक्रमे परिसरस्य शिक्षकाः विद्यार्थिनश्च उपस्थिताः आसन्। संस्कृतसप्ताहस्य आगामिषु षट्सु दिवसेषु अपि विविधविशेषज्ञैः संस्कृतभाषा-साहित्य-भारतीयज्ञानपरम्परासम्बद्धविषयेषु व्याख्यानानि प्रस्तूयन्ते।

