विश्वपिच्छकन्दुकवीरतास्पर्धा
युगले भारतं पूर्वान्त्ये; पदकं निश्चितम्। 
गायत्री, ट्रीसा च।
नव दिल्ली> विश्वपिच्छकन्दुकवीरतास्पर्धायाः महिलानां युगलप्रतिद्वन्द्वे भारतस्य ट्रीसा जोली - गायत्री गोपी चन्द्रसख्यं पूर्वान्त्यचक्रं प्राविशत्। पूर्वान्त्यचक्रे पराजयं भवेदपि कांस्यपदकं लभेत।
प्रपूर्वान्त्ये चीनस्य सख्यं पराजित्य अस्ति भारतसख्यस्य पूर्वान्त्यप्रवेशः। भारतस्य प्रमुखपिच्छकन्दुकक्रीडकस्य पुल्लेल गोपीचन्दस्य पुत्री भवति गायत्री। ट्रीसा जोली केरलीया चास्ति।
१५ वर्षेभ्यः परमेव भारताय महिलानां युगले पदकप्राप्तिः। २०११ तमे वर्षे अश्विनी पोन्नप्पा - ज्वाला गुट्टा संख्येन कांस्यपदकं लब्धमासीत्।