'ग्रान्ड् चेस्' किरीटं प्रग्नानन्दाय।
सेन्ट् लूयिस् [यू एस् ए]> ग्रान्ड् चेस् नामकचतुरङ्गस्पर्धायां विजित्य प्रथमक्रीटधारी भारतीयः इति ख्यातिः आर् प्रग्नानन्दः स्वायत्तीचकार। अत्यन्तम् उत्साहयुक्ते अन्तिमप्रतिद्वन्द्वे वर्तमानीनवीरः फाबियो करुवाना इत्येनम् अमेरिकीयं पराजित्य [१५ - १३] एव प्रग्नानन्दः विजयीभूतः।
क्लासिक् नामकस्य स्पर्धाविभागस्य प्रथमक्रीडायां पराजितः प्रग्नानन्दः द्वितीयक्रीडायां समस्थितये वशंवदः अभवच्च। किन्तु रापिड् नामकद्रुतक्रीडायां क्रीडाद्वयमपि विजित्य भारतक्रीडकः अग्रमागतः।
