नेपाल् प्रलयदुरन्तः
भारतेन ६८. ५ टणमिताः दुरिताश्वाससामग्र्यः दत्ताः।
काठ्मण्डुः> आकस्मिकप्रलयेन दुरितमनुभूयमानाय नेपालराष्ट्राय भारतेन ६८. ५ टणमिताः दुरिताश्वाससामग्र्यः दत्ताः इति नेपालस्थेन भारतस्थानपतिकार्यालयेन निगदितम्। एतदतिरिच्य भारतात् साङ्केतिक-वैद्यकीयसंघाः 'फोरन्सिक्'विभागाभिज्ञाः च दुरन्तनिवारण-समाश्वासप्रवर्तनेषु भागं गृहीतवन्तः। डि एन् ए परिशोधनाभाण्डाः, रक्षाप्रवर्तने उपयुज्यमानानि आधुनिकोपकरणानि च भारतेन दत्तानि।
११ टण् मितं दुरिताश्वाससामग्रीं वहत् भारतस्य चतुर्थं विमानं नेपालं प्राप्तमिति विदेशकार्यमन्त्रालयेन 'एक्स्'माध्यमद्वारा निगदितम्। सेतुनिर्माणाय उपयुज्यमानानि उपकरणानि वहन्ति १६ ट्रक् यानानि नेपालं प्राप्तानि। सप्त 'बेय्लि' सेतून् निर्मातुं उपकरणान्यपि दास्यन्तीति भारतेन निगदितम्।