भारत-श्रीलङ्का द्वितीयनिकषे समस्थितिः।
भारतस्य परम्पराप्राप्तिः।
कोलम्बो> 'सिंहलीस् स्पोर्ट्स् क्लब्' क्रीडाङ्कणे सम्पन्ना भारत-श्रीलङ्कयोः द्वितीया क्रिकेट निकषस्पर्धा समस्थितौ परिसमाप्ता। प्राप्ताङ्कसूचिका - प्रथमचरणे भारते ५०३/९ इति प्राप्ते क्रीडासमाप्तिम् उदघोषयत्। श्रीलङ्कायै २९० धावनाङ्के लब्धे सति सर्वे बहिर्नीताः। द्वितीयचरणे अनुस्यूतक्रीडां [follow on] कृतवान् लङ्कागणः नव ताडकानां विनष्टे ४२९ धावनाङ्कान् सम्प्राप। क्रीडा समस्थितौ परिसमाप्ता।
प्रथमचरणे भारताय देवदत्त पटिकल् [११७], ध्रुव जुरैल् [११५] इत्येतौ शतकं प्राप्तवन्तौ। श्रीलङ्कागणस्य संग्रामवीर्यः समस्थितिप्राप्तये निर्णायकभागम् अवहत्। तेषां सोनल् दिनुषनामकः १३३ धावनाङ्कान् सम्पाद्य अपराजितः जातः। स एव श्रेष्ठक्रीडकः। परम्पराद्वये अपि शतकं प्राप्तवान् भारतक्रीडकः देवदत्त पटिकलः परम्परायाः श्रेष्ठक्रीडकरूपेण चितः।
