नेपालदुरन्तः
भारतस्य साहाय्यहस्तः।
बिहारे उत्तरप्रदेशे च जागरूकता।
दुरन्तदृश्यम्।
नव दिल्ली> भूविच्छेदेन दुरितमनुभूयमानाय नेपालाय भारतस्य उदारः साहाय्यहस्तः। दश टण् मितानि दुरितसमाश्वासवस्तूनि औषधानि च नेपालं प्रापितानि।
नेपालदुरन्तस्य अंशतया बिहारे उत्तरप्रदेशे च जागरूकता निर्दिष्टा। बिहारस्थे पश्चिमचम्पारन् सीमाप्रदेशे निरीक्षणं शक्तायितम्। गण्टकनदीतीरे जागरूकताम् उद्घोषिता। ५००० जनाः सुरक्षितस्थानं नीताः।
उत्तरप्रदेशे महाबादगञ्च्,, कुशीनगरं जनपदयोः अतीवजागरूकता निर्दिष्टा। दुरन्तनिवारणसेनायाः [NDRF] २० संघाः विन्यस्ताः।