एस् सि ओ शिखरसम्मेलनम्
प्रधानमन्त्री उस्बकिस्थाने। 
नरेन्द्रमोदिनं उस्बकिस्थानस्य राष्ट्रितिः स्वीकरोति।
ताष्केन्ट्> दिनद्वयात्मकसन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्र मोदी उस्बकिस्थानराष्ट्रं सम्प्राप। सोमवासरे किर्गिस्थाने आरभ्यमाणे 'षाङ्हाय् सहयोग शिखरसम्मेलने' [एस् सि ओ] भागग्रहणस्य अंशतया अस्ति मोदिवर्यस्य उस्बकिस्थानसन्दर्शनम्।
सोम - मङ्गलवासरयोः किर्गिस्थानस्य राजधानी बिष्कन्ट् इत्यत्र एव २६ तमं एस् सि ओ सम्मेलनं सम्पद्यते। भारतमतिरिच्य रष्या, चीनः, इरानं, पाकिस्थानं, बलरूस्, ताजिकिस्थानम्, उस्बकिस्थानं,किर्गिस्थानं, कसाकिस्थानम् इत्येतानि राष्ट्राणि च एस् सि ओ मण्डले सदस्याः सन्ति।
शनिवासरे उस्बकिस्थानं प्राप्तवन्तं नरेन्द्र मोदिनं ताष्केन्ट् विमाननिलये उस्बकिस्थानस्य राष्ट्रपतिः षाव् कात् मिर्सियोयेव् इत्यस्य नेतृत्वे स्वीचकार। विविधविषयेषु उभयपक्षसम्बन्धं प्रबलीकर्तुम् उच्चस्तरीयचर्चाः सम्पत्स्यन्ते।