विश्व पिञ्छकन्दुकवीरतास्पर्धा।
पूर्वान्त्ये भारतस्य वीरपराजयः, कांस्यपदकम्।
नव दिल्ली> विश्व पिञ्छकन्दुकवीरतास्पर्धायाः पूर्वान्त्यचक्रे भारतमहिलयोः वीरोचितः पराजयः। विश्वे प्रथमश्रेण्यां वर्तमानात् चीनसख्यात् पराजयं स्वीकृत्य कांस्यपदकेन भारतस्य ट्रीसा जोली - गायत्री गोपी चन्दसख्यं भारतस्य यशः परिपालयामास।
चीनस्य टान् निङ् - लियू षेङ् षू सख्यं प्रति प्रथमगणं विजित्य [२१-१८] तदनन्तरं गणद्वये पराजयः अनुभूतः [१३-३१, ८-३१]।
रविवासरे दक्षिणकोरियां विरुध्य अस्ति चीनस्य अन्त्यस्पर्धा।