'ओपरेषन् सिन्दूरे' भञ्जितम् आस्थानं जय् षे निर्ममौ।
इस्लामबादः> ओपरेषन् सिन्दूरं सैनिकप्रक्रमे भारतेन भञ्जितम् जय् षे मुहम्मद् नामकस्य भीकरसंघटनस्य आस्थानं १५ मासैः संघटनेन पुनर्निमितम्। भारतस्य गुप्तान्वेषणसंस्थायाः सूचनामनुसृत्य पुनर्निर्माणाय पाकिस्थानप्रशासनेन विविधचरणैः जेय् षे संघटनाय २५ कोटिमितानि पाकिस्थानरूप्यकाणि दत्तानि।
पाकिस्थाने बहवलपुरम् इत्यत्र वर्तमानस्य 'मर्कस् सुबहान् अल्ला' इति आस्थानभवनस्य नवीकरणमस्ति सम्पन्नम्। आक्रमणे भग्ने भवनसमुच्चये वर्तमानानि वासस्थानानि, प्रार्थनामन्दिरम् इत्यादीनि अपनीय नूतनानां निर्माणमारब्धम्।
२६ विनोदयात्रिकाणां प्राणहरणे हेतुभूतस्य पहलगामभीकराक्रमणस्य प्रत्युत्तररूपेण आसीत् ओपरेषन् सिन्दूरम्।