अजित् डोवलः चीनराष्ट्रे।
सीमातर्केषु अद्य बीजिंगे चर्चा।
अजित् डोवलः।
नवदिल्ली> भारतचीनयोः सीमाविषयकतर्कान् चर्चितुं भारतस्य राष्ट्रिय सुरक्षा उपदेष्टा अजित् डोवलः चीनां प्राप्तवान्। कुजवासरे चीनस्य प्रतिनिधिः तथा विदेशकार्यमन्त्री च वाङ् यि इत्यनेन सह बीजिंग् मध्ये मेलनं भविष्यति।
३४८८ कि मी दैर्घ्योपेतां भारत-चीनासीमाम् अधिकृत्य विद्यमानानां तर्काणां परिहारः, सैनिकसान्निध्यस्य लघूकरणम् इत्यादय एव मुख्यचर्चाविषयाः।