केरले 'ओणोत्सवः'।
राष्ट्रपतेः श्रावणोत्सवाशंसाः।
अनन्तपुरी> समृद्धेः परस्परप्रेमस्य एकतायाश्च सन्देशमुद्घोषयन् आविश्वं केरलीयाः ओणोत्सवम् [श्रावणोत्सवः] आमानयन्ति।
नवदिल्ली> भारते विदेशे च वसतां सर्वेषां केरलीयसोदराणां कृते राष्ट्रपतिः द्रौपदी मुर्मू श्रावणोत्सवस्य हार्दिकशुभकामनाः आशशंस। नानात्वे एकत्वं प्रोत्साहमाणः अयमुत्सवः सर्वेषां जीवने सन्तोषं समृद्धिं शान्तिं च प्रदास्यतीति सा आशंसितवती।

