OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 15, 2019

2000 इति रूप्यकपत्रस्य  मुद्रणम् अवसितम् इति आवेदनम्।
    नवदिल्ली> रूप्यकपत्रेषु २००० इत्यस्य  मुद्रणं अवसितम् इति आवेदनम् अस्ति। न्यू इन्द्यन् एक्स् प्रस् इत्यस्यै दैनिकपत्रिकायै सूचनाधिकारनियमानुसारं भारतीय रिज़र्व वित्तकोशतः लब्धे प्रत्युत्तरे रूप्यकपत्राणां मुद्रणम् अवसितं भवति इति लिखितम्। अस्याम् आर्थिकसंवत्सरे २००० रूप्यकाणां एकमात्रमपि न मुद्रितमित्यपि लिखितम् अस्ति। 
     धनादानयन्त्रात् धनस्वीकरण समये २००० इत्यस्य रूप्यकपत्रस्य संख्या न्यूना जाता। व्याजधनस्य विनिमय-निवारणं लक्षीकृत्य भवति अतिमूल्य रूप्यकपत्राणां निर्व्यापनम् इति मन्यते।