OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 12, 2019

विश्वशान्ति-नोबेल् पुरस्कारः एत्योप्यास्य प्रधानमन्त्रिणे
 स्टोक् होम् > विश्वशान्तये कृतप्रयत्नाय २०१९ तम वर्षस्य नोबेल् पुरस्कारः  एत्योप्यास्य प्रधानमन्त्रिणे अबि अहम्मद् अलिवर्याय लभते। एरित्रियया सह विद्यमान सीमाधिकारवादे  अबि अहम्मद् अलिवर्येण स्वीकृतानि शान्तिदूतप्रवर्तनानि सम्माननस्य अर्हतायाः निकषः अभवत्।
  स्वीडनस्य परिस्थिति प्रवर्तका ग्रेट्टातुन्बेर्ग् अपि पुरकारसमितेः परिगणनायाम् आसीत्l २२३ व्यक्तयः ७८ संस्थाः च स्पर्धायाम् आसीत्। २०१८ एप्रिल् मासे आसीत् अबि अहम्मद् अलि महोदयस्य प्रधानमन्त्रिपद नियुक्तिःI  स्थानारोहणानन्तरं षण्मासाभ्यन्तरे चिरकालीनेन शत्रुराष्ट्रेण सह शान्त्रिभाषणं कृतवान्। एरित्रा एत्योप्यायाः मध्ये विद्यमानाः शत्रुता एवं शीघ्रं विलीना। अस्य महोदयस्य नयतन्त्रक्षमता भवति अस्य शान्ति व्यापनस्य  पृष्टतः इति पुरस्कार-समित्यङ्गाः निर्णीताः