OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 5, 2019

जम्मूकाश्मीरम् - नेतृृणां मोचनम् विलम्बते।
     श्रीनगरम् >  ३७० अनुच्छेदस्य निष्कासनात् पूर्वं गृहबन्धनम् अनुभवतां नेतृणां मोचनम् अचिरात् न भविष्यति। नाषणल् कोण्फरन्स् दलनेता ओमर् अब्दुल्ला, पि डि पि दलस्य नेता मेहबूबा मुफ्ती इत्येतेषां प्रमुखानां नेतृणां मोचनमेव विलम्बते। जम्मूकाश्मीरे जायमानायाः प्रादेशिकनिर्वाचनप्रक्रियायाः पूर्वं नेतृणां मोचनम् आवश्यकमिति परिदेवनादिकम् उद्भूतमासीत्। किन्तु मोचनं सम्बन्ध्य सर्वकारेण कोऽपि निर्णयः नैव स्वीकृतः। नेतृणां गृहबन्धनेन जम्मूकाश्मीरे कलहादीनां नियन्त्रणं साधितं भवतीति राज्यपालस्य सत्यपाल् नायिकस्य अवलोकनं मोचनविलम्बस्य कारणं स्यात् इत्यपि सूचना वर्तते।