OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 24, 2019

विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय सामान्यपरीक्षासम्प्रदायः- चर्चाः आरब्धाः।
      नवदहली > राष्ट्रस्य विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय देशीयस्तरे सामान्यपरीक्षासम्प्रदायाय पर्यालोचनाः आरब्धाः इति केन्द्रमानवविभवशेषिमन्त्री डा.रमेष्‌ पोख्रियाल्। देशीयपरीक्षाविभागः प्रवेशनपरीक्षां सञ्चालयिष्यति। विविधानां प्रवेशनपरीक्षाणां लेखनेन छात्रैः अनुभूयमानानां क्लेशानां न्यूनीकरणाय नूतनपरीक्षासम्प्रदायः उपकरिष्यतीति मन्त्री अवदत्। देशीयशैक्षिकनयस्य अन्तिमं स्थूलचित्रम् विना विलम्बं सर्वकारः प्रसिद्धीकरिष्यति। तस्मिन् प्रवेशनपरीक्षां सम्बन्ध्य निर्देशानपि अन्तर्भावयितुमेव चर्चाः आरब्धाः। प्रधानमन्त्रिणः आध्यक्षे सम्पद्यमाने मन्त्रिसभामेलने एतत्सम्बन्ध्य निर्णयः स्वीक्रियते।