OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 21, 2019

दहल्यां भीकराक्रमणभीषा- सुरक्षा शाक्तीकृता।
  दहली >  दीपावलिदिनेषु दहल्यां भीकराक्रमणानि भविष्यन्ति इति रहस्यान्वेषणविभागस्य सूचनायाः आधारेण जनबाहुल्यकेन्द्रेषु सुरक्षा शाक्तीकृता। पाकिस्थाने प्रवर्तमानायाः जय्षे मुहम्मद् आतङ्गवादसंघः दीपावलिवेलासु आक्रमणाय गूढसंविधानं करोति इति रहस्यान्वेषणविभागेन सूचितम्। एतदनुसारं दह्लेः प्रधानमण्डलेषु सुरक्षा शाक्तीकृता। नियमनिर्माणसभामन्दिरं, प्रधानमन्त्रिणः कार्यालयः, राष्ट्रपतिभवनं, सेनाभवनम् इत्यादिषु अतीवसुरक्षा क्रमीकृता। प्रधाननगरप्रदेशाः, व्यापारवाणिज्यकेन्द्राणि, आराधनालयाः, रेल्यानकेन्द्राणि इत्येवं जनबाहुल्यं प्रतीक्षमाणेषु मण्डलेषु अपि सुरक्षा शाक्तीकृता।