OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 21, 2019

संस्कृतभाषया ट्वीट् कृत्वा विख्यातपोप् गायिका लेडी गागा।
  न्यूयोर्क्> विश्वस्य नानाभागस्थानां लक्षाधिकानां सङ्गीतास्वादकानाम् इष्टगायिका भवति अमेरिक्कस्य विख्यातपोप् गायिका लेडी गागा। इदानीम् एकट्वीट्द्वारा भारतीयाराधकान् सन्तोषयन्ती भवति लेडी गागा। ट्विट्टर् माध्यमद्वारा तया संस्कृतभाषया कृतम् एकं ट्वीट् एव आराधाकानां सन्तोषस्य कारणम्। गतदिने गागायाः पक्षतः संस्कृतभाषया आगतं 'लोकाः समस्ताः सुखिनो भवन्तु'  इति ट्वीट् भारतीयैः आराधकैः आह्लादपूर्वकं स्वीकृतं वर्तते। केचन, वाक्यमिदं तस्याः नूतनसड्गीतखण्डस्य नाम भवतीति अभिप्रयन्। कैश्चित् आराधकैस्तु 'जय् श्रीराम्' इति प्रतिवचनट्वीट् कृतं दृश्यते