OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 22, 2019

यु ए इ मध्ये लुलु संघस्याभिमुख्ये काश्मीर् प्रचारसप्ताहः आयोज्यते।
   नवदहली > गल्फ् राष्ट्रेषु प्रवर्तमानेषु लुलु वाणिज्यकेन्द्रेषु इतःपरं काश्मीरस्य सेवम् अपि लभ्यते। काश्मीरस्थानाम् उत्पन्नानां क्रयविक्रयणाय यु ए इ मध्ये लुलु वाणिज्यकेन्द्रेषु काश्मीर् प्रचारसप्ताहः आयोज्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः यु ए ई सन्दर्शनवेलायां लुलु संघाध्यक्षः एम् ए यूसफ् अलिः विषयेऽस्मिन् मोदिना सह चर्चां कृतवान् आसीत्। तदानीं लुलु वाणिज्यकेन्द्रेषु काश्मीरस्थानाम् उत्पन्नानां साक्षात् क्रीणनं करिष्यतीति तेन वाचा उक्तमासीत्। तदनुसृत्य २०० टण्‌ सेवफलं काश्मीरात् साक्षात् क्रीणनं कर्तुम् अनुमतिः लुलु संघेन प्राप्ता। काश्मीर् प्रचारसप्ताहे एवं क्रीणनं कृतानां काश्मीरसेवानां विक्रयणं भविष्यति। अनेन काश्मीरस्थानां सेवकर्षकानाम् आशङ्का अपि दूरीकृता। अन्यानि कार्षिकोत्पन्नानि क्रेतुमपि लुलु संघः उद्युक्तः भवति। तदर्थं श्रीनगरे सम्भरणशालामारब्धुमपि संघेन आलोच्यते।