OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 24, 2019

द्व्यधिकापत्येभ्यः सर्वकारनियुक्तिः निषिध्यते - निर्णयः असमसर्वकारस्य। 
 गुहावती >  येषां अपत्यानि द्विसंख्याकमतिरिच्यन्ते तेषां सर्वकारवृत्तिनियुक्तये अर्हता न भवेदिति असमसर्वकारः। सोमवासरे सम्पन्ने मन्त्रिमण्डलोपवेशने आसीदयं निर्णयः। अधुनातनकाले सर्वकारसेवारताः अपि अपत्यद्वयमिति निबन्धनां परिपाल्य आदर्शधीराः भवेयुरिति सर्वकारस्य आदेशे निर्दिश्यते। 
  संवत्सरद्वयात्पूर्वं सर्वकारेण परिग्रहीतस्य जनसङ्ख्यानयस्य आधारे एव नूतनोऽयं नियमः। २०२१ जनुवरिमासादारभ्य नियमः प्राबल्ये भविष्यति। 
  नूतनः भूनयः अपि मन्त्रिमण्डलेन अङ्गीकृतः। एतदनुसृत्य भूरहितानां कृते ४३,२०० चतु.पादपरिमिता भूमिः भवननिर्माणाय कार्षिकोपयोगाय च अनुमोदते। १५ वर्षाणि यावत् भूमेः विक्रयः निरुद्ध्यते इति व्यवस्थाप्यस्ति।