OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 23, 2019

जनसञ्चार-माध्यमानां नियत्रणम् - २०२० जनुवरिमासाभ्यन्तरे नियमः प्रबलः  भविष्यति।
     नवदहली > सामूहिकमाध्यमेषु दीयमानं विवरणम् आधार् रेखया सह बन्धनीयमिति निर्देशमधिकृत्य २०२० जनुवरिमासाभ्यन्तरे नियमनिर्माणं करिष्यतीति केन्द्रसर्वकारस्य कृते उच्चतरन्यायालये तुषार् मेहता विशदयत्। केन्द्रसर्वकारस्य नूतनपरिष्कारस्योपरि उन्नीतानां निवेदनानाम् उच्चतरन्यायालयस्य परिगणनावेलायामेव केन्द्रसर्वकारस्य विशदीकरणम्। सामूहिकमाध्यमस्थविवराणाम् आधार् रेखया सह बन्धनं, व्यक्तेः स्वातन्त्र्यं प्रति सर्वकारस्य प्रवेशमिव व्याख्यानं नैव उचितम् इत्यपि सर्वकारपक्षतः विशदीकृतम्। देशसुरक्षां राष्ट्रस्य परमाधिकारसंरक्षणं च पुरस्कृत्यैव नूतनपरिष्कारः, व्यक्तिस्वातन्त्र्यमित्येतत् आतङ्गवादिभ्यः नैव देयम् इति केन्द्रसर्वकारस्य नियमकार्यप्रतिपुरुषेण के के वेणुगोपालेनापि अभिप्रेतम्। अन्तर्जालोपयोगेन सामूहिकमाध्यमैः च राष्ट्रविरुद्धप्रवर्तनानि, विद्वेषकप्रभाषणानि, व्याजवार्ताप्रसारणं, नियमविरुद्धप्रवर्तनानि च वर्धयन्तीति उच्चतरन्यायालये केन्द्रसर्वकारेण सत्यप्रस्तावना कृता आसीत्। विषयेऽस्मिन् विविधेषु उच्चन्यायालयेषु वर्तमानानि निवेदनानि उच्चतरन्यायालयस्य परिधौ आनीयानि इति फेस्बुक् सामूहिकमाध्यमेन उच्चतरन्यायालयं प्रति अभ्यर्थितमासीत्।