OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 8, 2019

पाकिस्थानं प्रति आर्थिकदौत्यसंघः। (फिनान्ष्यल् टास्क् फोर्स्)
    इस्लामाबाद् > हाफिस् सयीद्‌ सदृशानां भीकरानामुपरि दण्डनकार्यस्वीकरणे विलम्बं करोति इत्यारोप्य आर्थिकदौत्यसंघः (फिनान्ष्यल् टास्क् फोर्स्)। आतङ्वादनियन्त्रणकार्येषु पाकिस्थानस्य समीपनम् अड्गीकर्तुं नैव शक्यते इति संघेन सूचितम्। अन्तःराष्ट्रस्तरे आर्थिकसाहाय्यादिकं लब्धुं आर्थिकदौत्यसंघस्य उत्तमावलोकनरेखा आवश्यकी। संघस्य प्रस्तुतपरामर्शः पाकिस्थानाय दोषः इव भवति इत्येव अन्तःराष्ट्रसमूहस्य मतम्। मुम्बै आतङ्गवादाक्रमणस्य मुख्यसूत्रधारः अयं हाफिस् सयीद् अधुनापि पाकिस्थाने सुरक्षितजीवनं नयतीत्‍यपि संघः अधिक्षेपमकरोत्।