OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 8, 2019

अनधिकृतसम्पत्प्राप्तवतां प्रथमपट्टिकां समर्प्य स्विट्सर्लान्ट्।
  नवदहली> अनधिकृतसम्पत्प्राप्तवतां बन्धनाय मोदिसर्वकारस्य प्रयत्नः लक्ष्यं प्राप्नोति। स्विस् वित्तकोशे अनधिकृतमार्गेण प्राप्तस्य धनस्य निक्षेपं कृतवतां भारतीयानां पट्टिकां स्विट्सर्लान्ट् भारतसर्वकारम् अदात्। द्वयोरपि राष्ट्रयोः मध्ये स्वीकृतेन स्वयंप्रेरितवृत्तान्तविनिमयनामकेन सम्मतपत्रेण (ओटोमाटिक् एक्स्चेञ्च् ओफ् इन्फर्मेषन्)भारतीयानां अनधिकृतसम्पत्प्राप्तवतां क्रयविक्रयवृत्तान्तादिकं सर्वं भारतं समर्पयिष्यतीति स्विस्सर्वकारेण पूर्वमेव सूचितमासीत्। स्विट्सर्लान्टस्य संयुक्तकरनिर्णयनिर्वहणविभागेन (फेटरल् टाक्स् अड्मिनिस्ट्रेषन्) सूक्ष्मतया परीक्ष्यैव वृत्तान्तादिकं दत्तं वर्तते।