OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 30, 2019

षकीब् अल् हसनाय अन्ताराष्ट्रक्रिकेट्समितेः निरोधनम्।
    दुबाय्> बङ्‌ग्लादेश् क्रिकेट्दलनायकः षकीब् अल् हसनः अन्ताराष्ट्रक्रिकेट्समित्या निरोधितः। निरोधनेन अनेन अग्रिमं वर्षद्वयकालं यावत् क्रिकेटस्य सर्वेभ्यः विभागेभ्यः सः निरोधितः वर्तते। क्रिकेट्मण्डले कुत्सितमार्गैः धनव्यवहारं कृत्वा क्रीडाफलेषु स्वाधीनं कुर्वन् संघः कतिपयदिनेभ्यः पूर्वं षकीब् अल् हसनेन सह चर्चां करोति स्म। किन्तु कार्यमिदं तेन अन्ताराष्ट्रक्रिकेट्समितिं प्रति न निवेदितम्। समितेः अन्वेषणे इदं स्पष्टमभवत्। एतत् तु निरोधनाय कारणमभवत्। निरोधने दुःखं वर्तते इति विषयेऽस्मिन् माध्यमप्रवर्तकानां प्रश्नान् प्रति सः प्रत्यवदत् च।