OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 3, 2019

स्वच्छभारताभियानेन  गूगिलः प्रभावितः।
   नवदहली > महात्मागान्धिनः १५०तमे जन्मवार्षिकसन्दर्भे केन्द्रसर्वकारस्य स्वच्छभारताभियानेन  गूगिलः प्रभावितः। भारतस्य विविधेषु प्रदेशेषु वर्तमानान् सामूहिकशौचालयान् स्वीयान्तर्जालप्रयोगेषु अन्तर्भाव्य एव गूगिल् विभागः आदरं प्राकटयत्। भारतस्य २३०० नगरेभ्यः ५७००० सामूहिकशौचालयाः गूगिल् विभागेन स्वीयान्तर्जालपट्टिकासु सङ्कलिताः। उपयोक्तृभिः अधुना गूगिल् सेर्च्, गूगिल् असिस्टन्ट्, गूगिल् माप्स् द्वारा च सामूहिकशौचालयान्‌ सम्बन्ध्य ज्ञानार्जनं साध्यते। भारते अधुना प्रतिमासं सार्धद्विलक्षाधिकैः जनैः गूगिल् सेर्च् , गूगिल् माप्स् च सामूहिकशौचालयान् सम्बन्ध्य ज्ञातुं उपयुज्येते। २०१६तमे वर्षे एव अत्र स्वच्छभारताभियानं आरब्धम्।