OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 6, 2019

प्रथमक्रिकेट् टेस्ट् - भारतस्य उज्वलविजयः।
    विशाखपट्टणम्> दक्षिणाफ्रिक्कं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतस्य २०३ धावनाङ्कानां विजयः। स्पर्धायाः पञ्चमदिने अद्य भोजनवेलायाः पूर्वं ८ क्रीडकान् निष्कास्य भारतं जयप्रतीक्षां वर्धयति स्म। भोजनात्परं विलम्बं विनैव द्वाै क्रीडकावपि निष्कास्य भारतं विजयतीरं प्रापयत्। ३९५ धावनाङ्कानां लक्ष्यं पुरस्कृत्य क्रीडनमारब्धस्य दक्षिणाफ्रिक्कदलस्य सर्वे क्रीडकाः १९१ इत्यङ्के निष्कासितवन्तः। भारतस्य कृते मुहम्मद् षमी ५, जडेजः ४ च क्रीडकान् समपादयताम्।