OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 29, 2019

उडानपरियोजनां जनप्रियं कर्तुं  भारतसर्वकारस्य पर्यालोचना।
   नवदहली > लघुव्ययेन विमानयात्रां प्रापयितुम् उडानपरियोजनाम् इतोऽपि जनप्रियं कर्तुं परियोजनामध्ये अधिकान् सहायमूल्यमार्गान् योजयितुं भारतसर्वकारस्य पर्यालोचना। येषु मार्गेषु विमानसेवनस्य तावत् प्राधान्यं नास्ति तेषां मार्गाणाम् अन्यैः मार्गैः सह बन्धनमेव अनया परियोजनया सर्वकारेण उद्दिश्यते। एवम् उडानयोजनया उन्नतरीत्‍या सेवनं क्रियमाणाः १००० व्योममार्गाः सर्वकारेण लक्ष्यीक्रियन्ते। तदर्थं जम्मुकाशमीरः, हिमाचलप्रदेशः, उत्तराखण्डः, उत्तरपूर्वराज्यानि, लक्षद्वीपः, आन्टमाननिकोबारः इत्यादिषु प्रदेशेषु परियोजनायाः अस्याः सेवनं सज्जीकर्तुं सर्वकारेण उद्दिश्यते।