OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 14, 2019

ऐक्यराष्ट्रसभायाः आर्थिकी प्रतिसन्धिः- अङ्गराष्ट्रैः धनांशः दातव्यः।
    नवदहली> ऐक्यराष्ट्रसभायाः आर्थिकीं प्रतिसन्धिम् अधिकृत्‍य सूचनाः प्रगतदिने बहिरागताः आसन्। २०१९ वर्षस्य व्ययगणनपत्रिकायाः आधारेण ऐक्यराष्ट्रसभां प्रति अङ्गराष्ट्रैः अंशत्‍वेन दातव्यं धनं बहुभिः राष्ट्रैः इतोऽपि नैव दत्तम् इति सूचना। १९३ अङ्गराष्ट्रेषु ६४ राष्ट्रैः धनांशः दातव्यः भवति। किन्तु, केवलं ३५ राष्ट्रैरेव धनांशः दत्तः वर्तते। तत्रापि बहुभिः केवलं ७०% धनमेव दत्तं वर्तते । एतदेव प्रतिसन्धेः मुख्यं कारणम् अभवत्। तथापि भारतेन धनांशः पूर्णतया दत्तः अस्तीति ऐक्यराष्ट्रसभायाः भारतप्रतिनिधिना सैद् अक्बरूदिनेन सूचितम्‌।