OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 25, 2019

कर्तार्पूर् तीर्थयात्रा - भारतपाकिस्थानयोर्मध्ये  व्यवस्था सम्पन्ना।
     नवदहली> बहुमासपर्यन्तं कृतचर्चाणाम्‌ अन्ते कर्तार्पूर् तीर्थयात्रा व्यवस्थायां भारतपाकिस्थाने हस्ताक्षरम् अकुरुताम्। अनेन भारतीयैः तीर्थाटकैः पाकिस्थानस्थं कर्तार्पूर् सिख् देवालयं सन्दर्शयितुं शक्यते। द्वयोरपि राष्ट्रयोः मध्ये वर्तमानाभिः समस्याभिरेव व्यवस्थेयं विलम्बिताभवत्। पाकिस्थानस्य कर्तार्पूरस्थं दर्बारसाहिबदेवालयं भारतपञ्चाबस्य गुर्दास्पूरजनपदस्थं देरबाबनानाक् देवालयेन सह बन्धनीयः आभ्यन्तरप्रवेशनमार्गः भवति कर्तार्पूर् मार्गः। नूतनव्यवस्थामनुसृत्य भारतीयतीर्थाटकेभ्यः  अनेन मार्गेण पाकिस्थानं प्रति गन्तुम् अनुमतिपत्रस्य आवश्यकता नास्ति।